________________
५२. पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रदश माहिषेणैकादश पार्षतेन संवत्सरं तु गव्येन पयसा पायसेन वा वार्धीणसमासेन द्वादश वर्षाणि ॥ ७ ॥
(कर्कः) अथ तृप्तिम्याभिरित्येवमादि अमावास्यायामित्येवमन्तं सूत्रं निगव्याख्यातमिति ॥
इति कर्कोपाध्यायकृतं श्राद्धविधिभाष्य समाप्तम् ॥ (गदाधरः)-अथ तृप्तिः उच्यत इति शेपः । 'ग्राम्या तृप्तिः। पितृणामिति शेपः । ताश्च यवत्रीहिमापतिलाद्याः । मनुः-तिलैबीहियवैर्मापैरद्भिर्मूलैः फलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणामिति । तद 'ण्याभिः । मासं तृप्तिरिति वर्तते । ग्राम्याणामभावे आरण्याभिः श्यामाकनीवाराद्याभिः । 'मूल 'भिर्वा ' स्पष्टमेतत् । 'सहा' 'यन्ति ' उत्तरा अग्रवक्ष्यमाणाः पदार्थाः छागादयः सर्वे अन्नेन मूलफलौपधीभिः सह दत्तास्तर्पयन्तीत्यर्थः । नतु केवलाः । 'छागोसपचेत् ' छागोस्रमेपाणां मध्येऽन्यतममन्येन हतं क्रयेण गृहीत्वा अथ लब्धं वाऽऽनीय पितृतर्पयेत् नतु स्वयंमृतानामाहरणम् । 'मासद्वयं तु 'वर्षाणि ' पाठीनादयो मत्स्याः हरिणादयो मृगाः उरभ्र आरण्यो मेपः शकुनिः पक्षी सोऽप्यनिपिद्धो ग्राह्यः, मेषश्चित्रमृगः वाधीणसो निगमोक्तः । त्रिपिवं विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वार्षीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि । त्रिपिवमित्युदकपानसमये मुखं कर्णद्वयं चोदकमध्ये पततीति त्रिपिवः ।। इति सप्तमी कण्डिका ॥७॥
(श्राद्धका०)-इत्थं पार्वणादिसर्वश्राद्धमभिधायाधुना तृप्ताःस्थेत्यादिना तृप्तेरदृष्टार्थत्वात्तामन्तरेण चातृप्ताः पितरो यान्तीत्यादिदोपदर्शनादनेकविधद्रव्यस्ता प्रतिपादयिपुः सूत्रमारभते 'अथ तृप्तिः वक्ष्यत इति शेषः । अथ शब्दोऽधिकारार्थः । आनन्तर्यार्थस्य सूत्रादेव लब्धेः । तेन ग्राम्या रण्योपधिमूलफलमृगपक्षिमीनादिनानाविधद्रव्यैस्तृप्तिरधिक्रियते वक्तमित्यर्थः । तथा चादित्यपुराणम्-विविधान्नानि मांसानि पितृणां तृप्तिकारणात् । दातव्यान्यनिपिद्धानि श्राद्धं चैवाक्षयं भवेदिति । ग्राम्याभिरौपधिभिर्मासं तृप्तिः । पितृणामिति शेपः । कालाध्वनोरिति द्वितीया । अत्र तृप्तिरित्यनुवृत्तौ पुनस्तद्ग्रहणमपां प्रात्यर्थ तेनौपधिजलाभ्यामेव तृप्तिन केवलौपधिभिरित्यर्थः । तथा च श्रुतिः--आपो वा ओपधीना रसस्तस्मादोपधयः खादितानधिन्वन्त्योपधय उपहापाई रसस्तस्मादापः पीता केवल्यो न धिन्वंति यदेवोभय संसृष्टा भवन्त्यथैव धिन्वतीत्यन्वयव्यतिरेकार्थवाद इति । ओषध्यो धान्यानि तानि च श्वेतरक्तवर्णानि श्राद्धे देयानि । कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणीति निषेधात् । प्रचेतास्त्वाह-कृष्णमापास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः । महायवा व्रीहियवास्तथैव च मधूलिकाः । कृष्णाः श्वेताश्च लोहाश्च ग्राह्या स्युः श्राद्धकर्मणि । एतद्व्याख्यानं माधवीये । यवाः शितशूकाः। महायवा ब्रीहियवाश्च यवविशेपाः । मधूलिका धान्यभेदः । कृष्णा: स्थलजाः कृष्णतीहयः । लोहा रक्तशालयः । अन्यस्त्वाह-मधूलिका यावनालविशेपाः । तद्विीपणम-कृष्णाः श्वेता लोहिताः महायवा वेणुयवा इति । अत्र कृष्णधान्यानि सर्वाणीत्यनेन विरोधान्माधवीयव्याख्यानमनुचितम् । यवा द्विविधाः-महायवा ब्रीहियवाश्च । तिलाः कृष्णाः । मापाः कृष्णा निस्तुषा मापाः। तथा च-कृष्णमापास्तिलाश्चेति । अमेध्याः सतुपा माषा निस्तुपापि मसू. रिकेति च । अणुः क्षुद्रसस्यम् । प्रियङ्गः कङ्गस्तद्वहुवचनं पृथक् ग्रहणं च भेदापेक्षम् । तथा च निघण्टुःपीततन्दुलिका कडः ककुरीमता । सितकडस्तु मुसती रक्तकडस्तु साधिका । चणकः काककङ्गुः । स्थाच्छयामाकस्तृणवीजकः । इति । मसूगः सतुपा निस्तुपाश्च न आद्धे देयाः । निस्तुपापि मसूरि