________________
कण्डिका ७]
परिशिष्टम् । दिति । न च जीवत्पित्रादिमारभ्यैव श्राद्धं भ्रात्रादिरप्यधिकारी कुर्यादित्येवार्थः । तस्याभावे सुतः क्रमादिति पाठेऽपि तदर्थस्य प्रतीयमानत्वाचेति ! अत्रोच्यते--असंस्कृतास्तु संस्कार्याः भ्रातृभिः पूर्वसंस्कृतरित्यादिना भ्रात्रादयः पित्रभावे प्रतिनिधित्वेन विधीयन्ते । प्रतिनिधेश्च स तद्धर्मा कर्मयोगादिति कात्यायनपरिभाषया पितृधर्मप्राप्तेोत्रादिः पितृसमानधर्मेति । किं च-तस्याभाव इत्यभावः पञ्चविधः । प्रागभावः, प्रध्वंसाभावः, संनिध्यभावोऽधिकाराभावोऽत्यंताभावश्चेति । तत्र संस्कार्ये सति प्रागभावात्यन्ताभावयोरसंभव एव प्रध्वंसाभावसंनिध्यभावाधिकाराभावानां संभवोऽस्तीति तत्र सर्वत्रापि वचनवलापितुः पितृभ्यो दानं विधीयते न संस्कार्यपितृभ्यः । तथा च स्मृति:-पितरो जनकस्येत्या यावद्वतमनाहितम् । । समाहितव्रतः पश्चात्स्वान्यजेत पितामहानिति । पितामहानिति पित्राद्युपलक्षणं । तथा-ब्राह्मणादिहते ताते पतितेऽसंगवर्जिते । व्युत्क्रमाच मृते देयं येभ्य एव ददात्यसावित्यादि । यत्तु प्रेतेभ्यो दद्यादिति वचनं तदधिकारसंभवविषयम् । अधिकारश्च सहायत्वेन विवाहानन्तरं स्वपितृभ्यो दातुं भवतीति । तथा च ऋष्यशृङ्गः-नानाति यो द्विजो मांस यस्य नो दारसंग्रहः । तावेतौ मुनिभिः प्रोक्तावनहीं मश्च दूषकाविति । नानाति मांसं श्राद्ध इति शेषः । ननु च समाहितत्रतः पश्चात्स्वान्यजेत पितामहानित्यनेनोपनयनादूर्ध्वमेव स्वपितृभ्यो दातुमधिकारस्तत्कथं विवाहानन्तरमिति। उच्यते-उपनयनादू स्वपितृभ्यो दातुं कर्जन्तराभाव एकपुत्रविषयम् । कञन्तरसनावे तु प्रतिनिधिभूतः स एव तदाधविवाहपर्यन्तं संस्कार्यस्य पितृपितृभ्य एव दद्यादिति । तथा च सुमन्तुः-श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदीति । तस्माद्युक्तमुक्तं पित्रमावे प्रतिनिधेः पितृधर्मप्राप्त्या संस्कार्यस्य पितुर्मातृपितामहेभ्यः श्राद्धं दद्यादिति । तथा च स्मृतिः-नान्दीश्राद्धं पिता दद्यादाचे पाणिग्रहे बुधः । मत उर्व प्रकर्तव्यं स्वयमेव तु नान्दिकम् । अपरमपि-पित्रोस्तु जीवतः पुत्रः कुरुते दारसंग्रहम् । पितुर्नान्दीमुखं प्रोक्तं न पुत्रस्य कथंचनेति । ननु पित्रोजींवतोरेख तत्पित्रोनीन्दीमुखत्वं प्रोक्तं मृत्योस्त्वन्यः करोतीति तत्कथं संस्कार्यस्य पितृणामतिक्रमो युक्तः । सत्यम्, ओद्वहनादित्यवधिना पितृपितृभ्य एव विधानात्स तद्धमेति परिभाषया प्रतिषेधस्तदतिक्रमस्य वाचनिकत्वात् । अपि च वचनान्तरम् कन्यापुत्रविवाहेषु प्रवेशे नववेइमनः । नामकर्मणि वालानां चूडाकर्मादिक तथा । सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृहीति गृहिण एवोपदेशात् । चूडाकर्मादिक इत्याद्यविवाहपर्यन्तं वेदितव्यम् । तदूर्वं तु द्वितीयविवाहादावपि सर्वत्र जीवत्पितृकः पितृपितृभ्यो मृतपितृकः स्वपितृभ्य इति विवेकः । तथा चायमर्थ:-पिता स्वपुत्रस्य निषेकादिविवाहपर्यन्तसंस्कारकर्मसु स्वमातृमातासहेभ्यः श्राद्धं कुर्यात् । पितुरभावेऽसंनिहिते वाधिकाराभावे वा तत्प्रतिनिधिज्येष्ठभ्रानादिर्विवाहपर्यन्तक्रमसु संस्कार्यस्य (पित)पितृभ्य एवेति सर्वमनवद्यम् ।।६।।
इति श्राद्धकाशिकायां सूत्रवृत्तौ आभ्युदयिकं श्राद्धम् ।
अथ तृप्तिाम्याभिरोषधीभिर्मासं तृप्तिस्तदभाव आरण्याभिर्मूलफलैरोषधीभिर्वा सहान्नेनोत्तरास्तर्पयन्ति छागोस्रमेषानालभ्य क्रीत्वा लब्ध्वा वा न स्वयंमृतानाहत्य पचेन्मासद्वयं तु मत्स्यैर्मासत्रयं तु हारिणेन चतुरऽऔरभ्रेण पञ्च शाकुनेन षट् छागेन सप्त कौर्मेणाप्टौ वाराहेण नव मेषमासेन