________________
परिशिष्टम् ।
५२७
1
1
मद्यपा नार्यो नैते दण्डस्य चार्हकाः । इत्यादि । पठन्ति च - पृथिव्यात्रिषु भागेषु मांसभक्षणमाचरेत् । पृथिव्या दक्षिणे भागे तन्निषेधं समाचरेत् । इति । यत्तु वृहत्प्रचेतोवचनं न देशानां न विप्राणां न युगानां द्विजोत्तमाः । धर्मशास्त्रेषु वै भेदो दृश्यते मांसभक्षणे । इति । तदक्षिणव्यतिरिक्तदेशविषयमित्यविरोधः । कि च यद्येवं नाभविष्यत्तर्ह्यमीपोमीयं पशुमालभते छागोत्रमेषानालभ्येत्यादिविहितहिंसाप्रतिपादकानि वाक्यान्यनर्थकान्यभविष्यन्निति । तस्मात्पशुवधा संभवे क्रीत्वा लब्ध्वा वेति सूक्त - मिति सिद्धम् । इदानी मृगोर अकिरिछागपार्पतेणपतत्रिणाम् । मांसं विशारशश्योरुरोश्च क्रमतः सुरान् । धिनोति च पितंश्चैव मासान्पायसमेव च । इत्यादि वचनविहितां तृप्तिमुपक्रमते --' मासद्वयं तु मत्स्यैः ' मत्स्याः पाठीनादयो विहिता न निषिद्धास्तैर्द्विमासं तृप्तिरित्यर्थः । तथा च मनुः द्वौ मासौ मत्स्यमांसेनेति । तु शब्दो विशेषणार्थः । तेन मत्स्यविशेषे कालविशेष इत्यर्थः । तथा चापस्तम्वः --- शतवलेर्मत्स्यस्य मांसेनाक्षया तृप्तिरिति । यत्तु मत्स्यैश्चतुरो मासानिति पैठीनसिवचनं तत्सशल्कविषयम् । तथा च यमः --- सशल्काश्चतुरो मासानिति । प्रीणयन्तीति शेषः । ननु च --- मत्स्यांच कामतो जग्ध्वा सोपवासरुयहं वसेत् । इति प्रायश्चित्तस्योक्तत्वात्कथमिति । उच्यते—तस्य नित्यभोजनविषयत्वाद्देवपित्र निवेदन विपयत्वाच्च । तथा चागस्त्यः --ऋते यो हव्यकव्याभ्यां मत्स्यमांसं समश्नुते । लभते पातकमसौ सर्वमांसाशिनां नृणाम् । काण्वोऽपि कालशाकं च मत्स्यांश्च परमान्नं तिलोदनम् | अनिवेद्य न भुञ्जीत पितॄणां दैवतैः सह । इति । एवं तर्हि - एकतः सर्वमांसानि मत्स्यमांसानि चैकतः । एकतः सर्वपापानि ब्रह्महत्या तथैकतः । तथा — मत्स्यादः सर्वमांसादः । इत्यादि वनवृन्दं निरर्थकमिति । मैवं वोचः । कार्तिकादिकालविशेषविपयत्वेन समर्थकत्वाद्दक्षिणादिदेशनिपेधकृत्त्वाच । तथा च नारदीये---न मात्स्यं भक्षयेन्मांसं न कौर्म नान्यदेवहि । इति कार्तिकादिवैष्णवकाल इति शेषः । मत्स्यादाश्च नराः सर्वे इति मध्यदेशे बृहस्पतिनोक्तम् । किंच एकत इत्यस्यार्था - न्तरम् । सर्वमांसानि भक्ष्यमांसान्येकत्र तथा भक्ष्यमत्स्यमांसानि चैकत्र । तथा पापानि सर्वे यज्ञा: एकत्र हत्या ब्रह्मज्ञानं चैकत्रेति । पापं यज्ञादिकं कर्मेति शब्दरत्नावली । हत्या स्याद्गमने ज्ञान इति चन्द्रगोमी एकत्र शशादिसर्वमांसान्येकत्र मत्स्या एकत्र सर्वे यज्ञा एकत्र ब्रह्मज्ञानमेकतुलायां समानमित्यर्थः । तथा चप्रचेताः - या हि तृप्तिः पितॄणां स्यादजवाणसादिभिः । सा भवेन्मत्स्यमांसेन दत्तेन श्राद्धकर्मणि । इति । तस्माच्छ्राद्धे मत्स्यैः पितॄंस्तर्पयित्वा स्वयमपि भुञ्जीतेति निरवद्यम् । तथा च ब्रह्मपुराणम् --- हव्यकव्यार्थतो विप्रान्भोजयित्वा विधानतः । वैसारिणस्तु भुञ्जानो न लिप्येतैनसा द्विजः । इति । मत्स्यानाह याज्ञवल्क्यः - राजीवान्सिंहतुण्डांश्च सशल्कांश्चैव सर्वशः । शंखोऽपि - राजीव सिंहतुण्डांश्च सशकांश्च विशेषतः । पाठीनरोहितौ भक्ष्यो मत्स्येष्वति हि पावनौ । इति । राजीवाः पद्मवर्णाः । सिंहतुण्डाः सिहमुखाः । सशल्का: शुक्त्याकारावयवयुक्ताः । जातूकर्ण्योऽपि --- शशश्च मत्स्येष्वपि हि सिंहतुण्ड करोहिताः । क्षुद्रमत्त्येषु केकोऽतिमेध्यो रोहितवन्मतः । इति । निषिद्धमत्स्यानाह स एव - गोमत्स्यो गुच्छमत्स्यश्व चर्मकाराह्वयस्तथा । नैते द्विजातिभिर्भक्ष्यास्तथा चिलिचिमाभिधः । शृङ्गान्न केचिदिच्छन्ति प्रशस्ता हव्यकव्ययोः । अयं विकल्पो नित्यभोजने व्यवस्थितः - प्राघुणकादौ । तथा मत्स्यञ्चिलिचिमो नाम न भक्ष्यो हि द्विजन्मभिः । चिलिचिमः पीतगौरी नरबाहुसदृशः समुद्रज इत्यायुर्वेदः । नान्द्यावर्तालिमत्स्य इल्लिसह चांग त्रिकण्टकमाहिप्रभृतयः क्षुद्रमत्स्याश्च स्मृत्यन्तरेऽवगन्तव्या: । 'मासन्त्रयं तु हारिणेन' हरिणस्ताम्रमृगस्तन्मांसेन त्रिमासं तृप्तिरित्यर्थः । एणः कृष्णसारः प्रोक्तस्ताम्रो हरिण उच्यत इति सुश्रुनोक्तत्वात् । कृष्णसारेणाधिकतृप्तेः । तथा चोशनाः -- चतुर्मासान्कृष्णसारेणेति । यत्त्वष्टावैणेयेनेति पैठीनसिनोक्तम्, अष्टावैणेयमांसेनेति च मनुना तत्तूपरकृष्णसारविषयं भवितुमर्हति । तृपरस्य विशिष्टोक्तेः । अन्यथोशनसा
कण्डिका ७
}