________________
५३८
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
1
विरोधात् । तथा चोक्तम् - स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक्पृथक्। इति । तुशब्दो विशेषार्थः । तेन मृगविशेषे कालविशेष इत्यर्थः । तथा च मार्कण्डेयः करोति तृप्तिर्नव वै रुरोमसं नसंशयः । रुरुः शम्बरः । शरदि गलितशृङ्ग इत्यायुर्वेदः । मनुरपि - रौरवेण नत्रैव तु । यत्तु रुरुः प्रीणाति पंच वै इति यमोक्तम्, यच पंचरौरवेणेति गोभिलसूत्रं तद्बहुशाखमृगरुरुविषयम् । यत्पुनर्देवलेनोक्तं-त्रीन्मासान्रुरुभिर्मृगैरिति तद्धरिणसदृशरुरुविषयम् । न च यथागृह्यविषयो विकल्पो भवतुमर्हति । मार्कण्डेयः --- पुष्णाति चतुरो मासान् शशस्य पिशितं पितृन् । इति । यत्तु देवलेनो कमशशैः षाण्मासिकी तृप्तिरिति, शशः प्रिणाति पण्मासानिति च यमेन तद्गृहच्छशविषयमिति अविरोधः । अन्यथा विरोधे धर्मस्य वाघापत्तेः । तथा च व्यासः - धर्म यो वाधते धर्मो न स धर्मः कदा चन | अविरोधात्तु यो धर्मः स धर्मः सद्भिरुच्यते । तस्माद्विरोधे धर्मस्य निश्चित्य गुरुलाघवम् । तयोर्भूयस्तरं विद्वान्कुर्याद्धर्मविनिर्णयम् । तत्वे विप्रतिपन्नानां वाक्यानामितरेतरम् । विरोधपरिहारोऽत्र निर्णयस्तत्वदर्शिनः । इति । न च श्वापदजातेरनेकत्वादेवं न घटत इति वाच्यम् । तथा चामरः - कदलीकन्दलीचीनश्चमूरुपृथकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः । कृष्णसाररुरुन्यङ्कुरङ्कुशम्वररौहिषाः । गोकर्णपृषतैणर्यरोहिताश्चमरो मृगाः । गन्धर्वः शरभो रामः सृमरो गवयः शशः । इत्यादयो मृगेन्द्राद्या । इति । एवमन्यत्रापि । चतुर औरभ्रेण पितॄणां तृप्तिरित्यर्थः । तथा च मनुः -- उरप्रेणाथ चतुर इति । उरभ्र आण्ययो मेषः । नव मेपमांसेनेति ग्राम्यस्य वक्ष्यमाणत्वात् । अन्ये त्वाहुष एवेति । तदयुक्तम् । श्रुतिविहितत्वात्पौनरुक्त्यदोषाच्च । तथा च श्रुतिःवरुणायारण्य मेष इति । यत्तु मेषेण पंचमासानिति पैठीनसिनोक्तं तदारण्यतूपरविपयम् । अत्रैतत्संदिद्यते - कि गवयमांस भक्ष्यमभक्ष्यं वेति । तत्रैक आहु:--विहितत्वाद्भक्ष्यमिति । तथा च यम :- गावयं रुद्रसंमितान् । एकादशमासांस्तृप्यतीति शेषः । मार्कण्डेयोऽपि गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी । इति । तदयुक्तम् । श्रुतिविरुद्धत्वात् । तथा च श्रुतिः - स पुरुपमालभन्त स किं पुरुषो भव वां च गाच तौ गौश्च गवयश्चाभवन्तां यमविमालभंत स उष्ट्रोऽभवद्यममालभन्त स शरभोऽभवत्तस्मादेतेषां पशूनां नाशितव्यमपक्रान्तमेधा हैते पशव इति । श्रुतिस्मृतिविरोधे तु श्रुतिरेव वलीयसीति श्रुतेर्बलवत्त्वाच्च । न च श्रुतिविरुद्धा स्मृतिरादरणीया । तथा च चतुर्विंशतिमतम् - स्मृतिर्वेदविरोधेन परित्याज्या यथा भवेत् । तथैव लौकिक वाक्यं स्मृतिवाधात्परित्यजेत् ॥ इति ॥ श्राद्धविषयत्वेन गवयस्याविधिरित्यन्ये । अत्रानूचानाः प्रमाणम् । 'पंच शाकुनेन' शकुनिर्भक्ष्यपक्षी । तन्मांसेनेत्यर्थः । तथा मनुः -- शाकुनेनाथ पंच वै । इति । यत्तु शाकुनैश्वतुरो मासानिति देवलेनोक्तम्, यच्च चतुरः शाकुनेनेति च गोभिलेन, तद्विहितप्रति'पिद्धहारीतादिपक्षिविषयम् । यच्च शकुनेन सप्तेति पैठीनसिनोक्तं तदपि पवित्रकपिञ्जलादिपक्षिविषयम् । सोमपानोद्भवत्वेन पावित्र्यात् । तथा च श्रुतिः - स यत्सोमपानमासत्ततः कपिञ्जलः समभवदिति । जरत्कारुरपि -- गौरः कपिञ्जलो मेध्यः कृकपाला च वर्हिणे । इति । वहीं नीलकण्ठः । सुमेवाकिंचिल्लोहितवर्णोऽतिदीर्घपुच्छो गुरुस्वरः । ह्रस्वत्रोटिस्तु यः पक्षी स महोक्षोऽतिपावनः ॥ इति । कोटिरचुभ्वः । भक्ष्यानाह शंख:- तित्तिरिं च मयूरं च लावक च कपिञ्जलम् । वानसं वर्तकं च भक्ष्यानाह यमः सदा । सदेति श्राद्धादेरन्यत्रापि । जावाल:--- भक्ष्यः कपिञ्जलो नीलत्वाटी वन्यपदायुधः । भक्ष्याविति । नीलः कृष्णतित्तिरिः । कपिञ्जलो गौरः । वन्यपदायुधो वन्यक्कुक्कुटः । वने जले भवो जलकुकुट इत्यन्ये । तन्न | कलविङ्कं एवं हंसमिति मनुना लवशब्देन तस्य निषिद्धत्वात् । चक्रवाकं एवं कोकमिति शंखनिपेधाच्च । भारद्वाज्या मांसेनेति कात्यायनोकेर्भरद्वाजो भक्ष्यः । यत्तु न खादेत्तु भरद्वाजमिति सुमन्तुनोक्तं तद्भरद्वाजोऽन्यस्तद्विप