________________
कण्डका ७ ]
परिशिष्टम् ।
यम् । कौडि इति प्रसिद्धः । कुर्कुटहारीतभक्षणे द्वादशरात्रमनाहार इति शंखप्रतिषेधात् । अन्यत्स्मृतिभ्यो ज्ञेयम् । वर्ज्यानाह मनुः क्रव्यादः शकुनीन्सर्वोस्तथा ग्रामनिवासिनः । अनिर्दिष्टांश्चैकशफं टिट्टिभं चैव वर्जयेत् । कलविंकं एवं हंसं चक्राह्वं ग्रामकुर्कुटम् । सारसं रज्जुद्वालं च दात्यूहं शुक्रसा - रिके । प्रदाञ्जालपादांश्च कोयष्टिनखविष्किरान् । निमज्जतश्च मत्स्यादान्सौनं वल्लूरमेव च । वक्रं चैव बलाकां च काकोलं खञ्जरीटकम् | मत्स्यादान्विराहांश्च मत्स्यानेव च सर्वशः । इति । क्रव्यादा गृध्रादयः । ग्रामनिवासिनः पारावतादयः अनिर्दिष्टलक्ष्यत्वेनान्विताः । एकशफा अश्वादयः । टिट्टिभो निष्ठुरशब्दभापी टिटिहिरीति प्रसिद्धः । कलविङ्को गृहचटकः । लवो जलकुर्कुटः । चक्राहश्चक्रवाकः । रज्जुदालो वृक्षकुर्कुटः । दात्यूहः कालकण्ठः । प्रतुदः श्येनः । जालपादा जालाकारपादाः । कोयष्टिः शिखरी । नखविष्किराञ्च कोरादयः । निमज्जमन्तो मत्स्यादा निमज्यमत्स्यादाः । काकोलो गिरिकाकः । मत्स्यादा अनिमज्जन्तोऽपि । अन्ये प्रसिद्धाः । देवलः -- उलूककुररश्येनगृध्र कुर्कुट वायसाः । चकोर: कोकिलो रज्जुदालकश्वामज्जकौ । पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः । जरत्कारुः—कारायिकां कपोतं च स्तोकतं रक्ततुण्डकम् । सकृत्प्रजं सारिकां च कलविङ्कं च वर्जयेत् । कारायिका शकुनशास्त्रोक्ता । स्तोकतश्चातकः । रक्ततुण्डः शुकः । सकृत्प्रजः काकः । लोमश:ग्रामकुर्कुटकातायिमांसादानपि वर्जयेत् । अतायी चिल्लः । वेदनिधिः - - - काकारिपिङ्गलाक्रभ्वत्रकोटो देसारसौ । चाषभासौ भृङ्गराजं चान्द्रं जग्ध्वा व्रतं चरेत् । काकारिः उलूकः । पिङ्गला पूसरइति प्रसिद्धः । वकोटो वकः । चाषो नीलपक्षी स्वर्णपक्षीति प्रसिद्धः । जग्ध्वा प्राश्य चान्द्रं चान्द्रायणमित्यर्थः । शंख:---हंसं मनुं वकं काकं काकोलं खञ्जरीटकम् | मत्स्यादांच तथो मत्स्यान्यलाकां शुकसारिके । चक्रवाकं पूर्व कोकं मण्डूकं भुजगं कपिम् । मासमेकं व्रतं कुर्यादेतांश्चैव न भोजयेत् । भगुर्जलवायसः । व्रतं चान्द्रायणम् । मत्स्यव्यवस्था प्रागुक्ता । निषिद्धमत्स्याश्च । अन्नेत्यर्थः । धौम्यः——-पारावतं रथाङ्गं च मरालं च कुलिङ्गकम् । जग्ध्वा हि कुर्कुटं ग्राम्यं व्रतेनापि न शुष्यति । रथाङ्गचक्रवाकः । मरालो हंसः । कुलिङ्गको । व्रतेन चान्द्रायणेनेत्यर्थः । अन्यत्स्मृतिभ्यो ज्ञेयम् । 'पट् छागेन' पितॄणां तृप्तिरिति शेषः । तथा च मनुः षण्मासांछागमांसेनेति । छागो महोक्षवार्ध्रनसादन्यः । तद्विघेर्विशिष्टत्वात् । यत्तु, छागलं सप्त वै मासानिति मार्कण्डेयेनोकं तदारण्याजविषयम् । तमाह श्रुतिः -- सोमाय कुलुङ्ग आरण्योऽज इति । यच न च तृप्यंत्यजेन त्विति देवलेनोकं तद्वाघ्रींनसव्यतिरिक्ताजविषयम् । यत्पुनर्द्वादश मासांश्छागेनेति पैठीनसिनो तं तत्तु न खादेत्कूर्मसूकराविति निषेधस्तद्विषयम वक्ष्यामः । 'अष्टौ वराहेण' वराह आरण्यसूकरस्तन्मांसेनेत्यर्थः । तथा च देवलः -- अष्टौ मासान्वराहेणेति । यत्तु -- दशमासांस्तु तृप्यन्ति वाराहमहियामिषैरिति मनुनोक्तं तन्मांसलवराहविषयम् । तस्य घृतसंभूतत्वेऽनौचित्यात् । तथा च श्रुतिः - अग्नौ ह वै देवा घृतकुम्भं प्रवेशयां चक्रुस्ततो वराहः संवभूव तस्माद्वाराहो मेदुरो घृताद्धिसंभूत इति । यत्तु -- पण्मासा - छूकरामिषमिति मार्कण्डेयेनोक्तं तद्मांसलविषयं भवितुमर्हति । अन्यथा विरोधात् । अनेक आहु:न खादेत्कूर्मसूकराविति निषेधाद्वराहकर्ममांसं न भक्ष्यमिति । तन्न । तस्य कार्तिकादिवैष्णवकालविषयत्वाच्छ्रेतवराहविषयत्वाद्वा । तथा च नारदीये-कार्तिके सूकरं मांसं यस्तु भुंकेतिदुर्मतिः । तन्मुक्तो जायते पापी विष्ठाशी ग्रामसूकरः ॥ न मात्स्यं भक्षयेन्मांसं न कौम नान्यदेव हि । इति । तन्मुक्तो रौरवान्मुक्तः । नेत्यनुवृत्तौ हारीतः - पारावतपाण्डुसूकरसारिकेति । उपमन्युरपि-प्राम्यश्वेतवराहौ तु न भक्ष्यौ द्विजपुङ्गवैः । इति । 'नत्र मेषमांसेन' मेषो ग्राम्यभेदस्तन्मांसेनेत्यर्थः । तथा च यमः --- प्रीणाति वै नवेति । यत्तु - तृप्यन्त्येकादशाविकैरिति देवलेनोक्तम्, यच तथैकादशमासं वा और पितृसमिति (?) च मार्कण्डेयेन तत्तूपरविषयम् । अन्न विकारप्रत्यये प्रकृते तत्परिहारेण पुन
६७
५२९