________________
५३०
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
मसग्रहणं मांसविकार प्रात्यर्थम् । तेन तद्विकारा अपि कालान्तरसाधिता देया इत्यर्थः । तथा च स्कन्दसंवादे - अस्नेहा अपि गोधूमयवगोरसविक्रियाः । तथा मांसविकारांश्च दधिक्षीरगुडस्य च । इति । भक्षयेदिति शेषः । ' दश माहिपेण ' तृप्तिरित्यर्थः । तथा च देवलः - दश माहिपमांसेनेति । यत्त्वेकादशमासान्माहिषेणेति पैठीनसिनोक्तं तदारण्यविषयं तूपरविषयं वा । महिपभक्षणं च देशवि - शेपे व्यवस्थितम् । तथा च यमः -- कासारो हि गिरौ मेध्य इति प्राह प्रजापतिः । इति । कासारो महिप: । ननु च - अभक्ष्याः पशुजाताना गोश्वेभोष्ट्राः सकुश्वराः । सिंहव्याघ्रर्क्षशरभाः सर्पा जगरकस्तथा ॥ आखुमूषकमार्जारा नकुलग्राम्यसूकराः । श्वशृगालवृपद्वीपिगोलाङ्गूलकमर्कटाः ॥ इति ।
1
- वार्दमौर्द च नारं च हारं चरासभम् । कौगं लौमसिकं मासं जग्ध्वा भवति विकृभिः । सरोष्ट्रगजश्वाश्ववृपभात्करिमाचलम् || रासभं प्राग्य च भवे भवे इति (?) देवलव्याघ्रपादवृद्धदेवलादिवचनैरभक्ष्यमध्ये महिपानुक्तेः सार्वत्रिकं महिपभक्षणं किं न स्यादिति चेत् । मैवं भाणीः । गिरिमन्तरेण तद्भक्षणे महादोपापत्तेः । तथा च भारद्वाजः -- शंखमूपकसर्पास्तु सौरभं च गिरिं विना । जग्ध्वा द्विजा न शुध्यन्ति प्रायश्चित्तशतैरिति । तस्माद्देशविशेष एव तद्भक्षणं व्यवस्थितमिति सूक्तम् । वार्दै वार्प - भम् । उद जलपशुस्तस्य । जलमानुप इत्येके । नारं मानुपम् । हारं हरिशब्दवाच्यानां सिंहाश्व कप्यहिकादीनाम् । कारं करिणाम् । काको वन्यः श्वा तस्य । लोमसिका लोखरीति प्रसिद्धा तस्या लौमसिकम्। विकृभिर्विष्टाभिः । द्वीपी व्याघ्रविशेपः । गोलाङ्गलो वानरविशेषः । मर्केटग्रहणं श्वादिपश्चनखोपलक्षणम् । एकादश पार्पतेन । पृपतच्चित्रमृगस्तन्मांसेनेत्यर्थः । तथा च गोभिलः- एकादश पार्षतेनेति । अत्रैतद्वक्तव्यम् — पृपच्छब्देन किं चित्रगुणो वाच्यः किंवा चित्रमृगजातिरिति । तत्र यदि चित्रगुणो वाच्यः स्यात्तर्हि रुरुवच्छागादीनामपि पृपत्त्वगुणे एकादशमासनृप्तिहेतुत्वं स्यात् । ततश्च विहिताः सर्वेऽपि पृपतः संत एकादशमासतृप्तिहेतव इत्यर्थः स्यात् । अथ च पृषच्छब्देन चित्रमृगजातिर्वाच्या न स्यात् तर्हि तज्जातैर्दैववशात्कथंचिदटपत्वे एकादशमासतृप्तिहेतुत्वं न स्यात् । प्रत्युत विहित - जातेः परित्यागश्चेत्यर्थः स्यात् । तस्मात्पृपच्छन्दस्य कथं गतिरित्याक्षेपः । उच्यते - व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायेन व्याख्यातचित्रमृगसंज्ञयैवे तरव्यावर्तकत्वा चित्र मृगस्यैव तावन्मासतृप्तिहेतुत्वं नान्यस्येति । एवं च सति मृगशब्दस्यान्वेपणार्थस्य छागादिवाचकत्वाभावात्पृषत्त्वे सत्यपि तस्यान्वयोऽयुक्तः । तस्माच्चित्रसृगेणैव तावन्मासतृप्तिरिति सिद्धम् । ततश्च पंच तृप्यन्ति पार्पतैः, पार्पतेणेह सप्त वै, नव मासान्पार्पतेन, एकादश पार्पतेनेति देवलमनुपैठीनसिकात्यायनवचनाना विष - यानुपलब्धेर्विकल्पा एव शक्यन्ते वक्तुम् न विपयाः । अथवा मृगजातिषु पृषत्त्वं विशेषस्तेनैका - दशेति सर्वेभ्यस्तृप्तिराधिक्यमित्यर्थः । ततश्चैवं विपयः -- पंच तृप्यन्ति पार्षतैरिति देवलवचनं हरिण - सदृशचित्ररुरुविषयम् । पार्पतेनेह सप्त च इति मनुनोक्तं बहुशाखशृङ्गचित्ररुरुविषयम् । नव मासान्पार्पतेनेति पैठीनसिनोक्तं शम्वरचित्ररुरुविषयम् । एकादश पार्षतेनेति चित्रतूपरविषयमित्यविरोधः । अयमाशयः -- त्रीन्मासानुरुभिर्मृगैरिति त्रिमासतृप्तिविपयस्य रुरोः पृषतेन पंच तृप्यन्ति पार्षतैरिति तृप्तिविशेषः । रुरुः प्रीणाति पंचकैरिति पंचमासतृप्तिविषयस्य रुरोः पृषतत्वेन पार्पतेणेह सप्त वै इति तृप्तिविशेषः । रौरवेण नव त्विति नवमासतृप्तिविषयत्वेन एकादशपार्षतेणेति तृप्तिवि - शेषः । सर्वपृषतानां तूपरत्वे सति अनन्ता तृप्तिरिति । अनन्ता खड्डूमांसेन लोहच्छागाच्च तूपरादिति वचनादेवं विषयविभागः । हरिणमेषवराहमहिषशशाना पृषत्त्वासंभवात् एवं कल्पनागौरवमप्यविरुद्धम् । प्रमाणकल्पने दोषाभावात् । तथा चाङ्गिराः - प्रमाणानि प्रमाणज्ञैः परिकल्प्यानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणैरव्यवस्थितैः । भट्टोऽपि — प्रमाणवन्ति कल्प्यानि सामान्यानि बहून्यपि । अदृष्टशतभागोऽपि न कल्पो निष्प्रमाणत इति । 'संवत्सरं तु गव्येन पयसा ' गव्यग्रहणमितर
1
1