________________
कण्डिका ८]
परिशिष्टम् । व्युदासार्थम् । तुशब्दो विशेषे । इतरपयोनिषेधेऽप्यारण्यमहिषीक्षीरं प्रशस्तमिति विशेष इत्यर्थः । तथा च ब्रह्मपुराणम्-आरण्यमहिषीक्षीरं शर्कराशुण्ठिसंयुतम् । मधुयुक्तं तनुहितं दद्यादमृतमेव सत् । इति । निषिद्धमाह याज्ञवल्क्यः -संधिन्यनिर्दशाऽवत्सागोपयः परिवर्जयेत् । अष्टमैकशफं बैणमारण्यकमथाधिकम् । संधिनी वृषाकान्ता कामुकी । अनिर्दशानतिक्रान्तदशाहा । अवत्सा वत्सरहितान्यवत्सा च । स्त्रैणं स्त्रीभवम् । द्विस्तन्युपलक्षणमेतत् । यच्च सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्जमिति शंखेनाजाक्षीरस्य भक्ष्यत्वमुक्तं तच्छ्राद्धेतरविषयम् । कृष्णाजाज्यतसीतलं पयश्वाजाविकादिकम् । माहिषं चामरक्षीरं जलमल्पजलाशयात् । इति स्कन्दसंवादोक्तत्वात् । वयंमिति शेषः । माहिषं ग्राम्यम् । आरण्यानां च सर्वेषां मृगाणां महिषी विना । इति मनूक्तेः । गौतमोऽपि-यमसूस्यन्दिनीनां चेति । पयो वय॑मिति शेषः । यमसूर्युग्मप्रसूः । स्यन्दिनी स्रवत्पयस्तनी । क्षीरमपेयं विवत्सायान्यवत्सायाश्चेति वौधायनः । 'पायसेन वा पयसि शतं पायसम् । पयोविकारश्च । तेन वा संवत्सरं तृप्तिरित्यर्थः । तथा च विष्णुः--संवत्सरं तु पयसा तद्विकारैश्चेति । अपि च मार्कण्डेयः-संवत्सरं तथा गव्यं पयः पायसमेवचेति।आदित्यपुराणे-विविधं पायसं दद्यादिति। . तथा मांसविकारांश्च दधिक्षीरगुडस्य चेति वचनात् । पयोविकाराः कूर्चिकाक्षीरवटकादयः। 'वाधीनसमांसेन द्वादशवर्षाणि' तृप्तिरिति शेपः । वाीनसत्रिविधः । तथा च विष्णुधर्मोत्तरम्-त्रिपिवं विन्द्रियक्षीणं यूथस्याग्रहरं तथा । रक्तवर्ण तु राजेन्द्र छागं वाधीनसं विदुः । इति । मुखकौँ जलपाने पतन्तौ जले त्रिपिव इत्यर्थः । त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाीनसं तु तं प्राहुर्याज्ञिकाः पितृकर्मणि । इत्यन्यत्र । निगमेऽपि-कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः । स वै वार्षीनसः प्रोक्त इत्येषा नैगमी श्रुतिः ॥ इति । अनानूचानाः प्रमाणम् । रक्तवर्णों वाधीनसोऽक्षयतृप्तिविषयो वेत्यविरोधः । वार्धीनसो महाशल्को लोहाजस्तूपरो घृतम् । आनन्त्याय भवेदत्त इति वचनात् । लोहामिषं कालशाकं मांसं वा/नसस्य चेति याज्ञवल्क्यवचनाच्च । वाीनसशब्दे णत्वोच्चारणमनालोचितम् । उष्ट्रो वीणीवान्वाधीनसस्ते मंत्वा आरण्याय समर इति श्रुतौ तवर्गीयपाठात् । श्राद्धशिष्टत्यावश्यभक्षणत्वमवगन्तव्यम् । तथा च विश्वामित्रः-धर्मशास्त्रं तु विज्ञाय भक्ष्यं चाभक्ष्यमेव च । प्रदाय पितृदेवेभ्यो भुञ्जीतातिथिपूर्वकम् ॥ इति । अत्र रागप्राप्ते भोजने भुञ्जीतेति नियंमार्थम् । तथा चोपमन्युः-मृगाजाविकभक्ष्याणां मांसं शाकादिमेध्यवत् । इति पवित्राभिधानादिति ॥७॥
इति श्राद्धकाशिकायां सूत्रवृत्तौ तृप्तिप्रकरणं सामान्यम् ॥ अथाक्षय्यतृप्तिः खड्गमास कालशाकं लोहच्छागमाईसं मधु महाशल्को वर्षासु मघाश्रार्छन्हस्तिच्छायायाञ्च, मन्त्राध्यायिनः पूताः शाखाध्यायी षडङ्गविज्येष्ठसामगो गायत्रीसारमात्रोऽपि पञ्चाग्निः स्नातकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णी द्रोणपाठको ब्रह्मोढापुत्रो वागीश्वरो याज्ञिकश्च नियोज्या अभावेऽप्येकं वेदविदं पङ्क्तिमूर्धनि नियुज्यात्, आसहस्रात्पङ्क्तिं पुनातीति वचनात् ॥ ८॥
(गदाधरः)-'अथाक्षय्यतृप्तिः' उच्यत इति शेपः । किमक्षय्यक द्रव्यमित्यत आह-ख"सम् ' ललाटे शृङ्गवान्पशुः खड्गः। रक्तच्छागो लोहच्छागः । मथु, महाशल्कः मत्स्यवि. शेपः । 'वर्षासुयायां च श्राद्धं तृप्तिकरमिति शेष: 'मन्त्रा' 'नियोज्याः एते मन्त्राध्यायीमुख्या