________________
५३२
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
I
1
याज्ञिकान्तास्ते सर्वे पङ्क्तिपावनाः श्राद्धे नियोज्याः । एतेषां नियोजनेन पितॄणामक्षय्यतृप्तिरित्यर्थः । मन्त्राध्यायिनः संहिताध्यायिनः । पूता आचरणेन पूताः । पडङ्गवित् शिक्षाकल्पादीनामर्थतो ग्रन्थतश्च वेत्ता । ज्येष्ठसाम्नः संततगाता ज्येष्ठसामगः । अथ ज्येष्ठसाम छन्दोगानां व्रतं साम च तद्योगाज्येष्ठसामगः । गार्हपत्याहवनीयदक्षिणाग्निसभ्यावसथ्याग्निमान् पञ्चाग्निः । त्रिणाचिकेतः यजुर्वेदभागस्तद्व्रतं च तदुभयं योऽधीते यश्च करोति सोऽपि तद्योगात्रिणाचिकेतः । त्रिमधुः ऋग्वेदैकदेशः तदधीते तद्द्व्रतं चरति यः स त्रिमधुः । त्रिसुपर्णी अध्वर्युवेदभागस्यार्थतो ग्रन्थस्याध्येता । द्रोणपाठको धर्मशास्त्रपाठकः । ब्राह्मोढापुत्रो ब्राह्मविवाहपरिणीतापुत्रः । वागीश्वरो विद्वान । 'अभावे 'वचनात् । इति नवकण्डिकागदाधरभाष्ये अष्टमी कण्डिका ॥ ८ ॥
I
1
( श्राद्धका० ) इत्थं ग्राम्यारण्यौषधिमूलफलैरनेकमत्स्यमांसैश्व तृप्तिमभिधायाधुनाक्षयतृप्तिं विक्षुः सूत्रमारभते । 'अथाक्षयतृप्तिः' अथ शब्दः प्रश्ने कात्स्न्यै वा । अक्षयतृप्तिः कथं किंवाक्षयतृप्तिकरं द्रव्यमिति प्रश्नमित्यर्थः । कात्स्न्येंनाक्षयतृप्तिरुच्यत इति वार्थः । अक्षयोऽनन्तता । तथा च मनुः-कालशाकं महाशल्कः खड्गो लोहामिपं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ इति । प्रश्नोत्तरमाह - ' खड्गमांसं कालशाकं लोहच्छागमांसम् ' खड्गस्तूपरः खड्गमृगस्तन्मांसं निषिद्धपृष्ठादिव्यतिरिक्तम् । तथा च विष्णुः - कालशाकं महाशल्को मांसं वार्षीनसस्य च । सर्वलोह च्छागेनानन्त्यमिति । लोहितशब्दोऽत्रावयववृत्तिः । एवमादिद्रव्यमक्षयतृप्तिकरमिति पूर्वप्रश्नस्योत्तरमित्यर्थः । खड्गलोहितयोर्मध्ये कालशाकोक्तिस्त तुल्यफलार्था । ' मधु महाशल्कः ' मधु माक्षिकम् । महाशल्को मत्स्यभेद: । महसेन इति मध्यदेशप्रसिद्धः । महाशल्का महाकालिनो मत्स्या इति यमस्मृतिः । बृहन्निवल इति यस्य रूढिरिति हलायुधः । ढेकायीति प्रसिद्ध इति कल्पतरुः । कलम्वाख्य इति कश्चित् । शल्लेके वेत्यन्ये। एवमनेकविप्रतिपत्तौ पुलस्त्योक्तो वादर्तव्यः । एकशल्कोऽर्धचन्द्रश्च ललाटे खड्गसंयुतः । शुक्लवर्णस्तु मत्स्यो हि महाशल्कः स उच्यते इति । अत्रक आहुः - कलौ श्राद्धे मधु निषिद्धमिति । तथा श्रद्धे मांसं तथा मध्विति लिखितं प्राक् तन्न विचारसहम्। निबन्धकृद्भिर्मूलाप्रतिपादनादित्युक्तम् । कलौ विधायक वचनोपलब्धेश्च । तथा च पैठीनसिः --- परमान्नं कालशाकं मधु मांसं घृतं पयः । मुन्यन्नानि तिला विप्राः प्रकृत्या हविरष्टधा । शस्तान्यष्टौ तु सर्वेषु युगेपु मुनिसत्तमाः । पितॄणां देवतानां च दुर्लभानि कलौ युगे । इति । परमान्नं पायसम् । देवलोऽपि — दुर्भास्तिला गजच्छाया दौहित्रं मधुसर्पिषी । कुतपो नीलशण्डश्च पवित्राणीह पैतृके । इह कलौ । तथा —तुलसी मधु दर्भाच तिलाः सर्पिर्मृगामिषम् । एतन्मेध्यतमं नित्यं सदाचाराश्च ये द्विजाः । इति । सुमेधा अपि - विमांसं विमधु श्राद्धं विधृतं प्रीतिभोजनम् । विना समरतं कामो व्योमालिङ्गनवत्रयम् । इति । 'वर्षासु महाश्राद्धम्' वर्ष मघानक्षत्रे श्राद्धमक्षयतृप्तिकृदित्यर्थः । एतच्चापिण्डकं ज्येष्ठपुत्रिणापि कर्तव्यम् । तथा च देवी - पुराणम् - तत्रापि महती पूजा कर्तव्या पितृदैवते । ऋक्षे पिण्डप्रदानं तु ज्येष्ठपुत्री विवर्जयेत् । इति । तथा मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति । इति । अन्नैक आहुः - ज्येष्ठ आद्यगभद्भव इति । तदयुक्तम् । तद्व्यतिरिक्तस्यापि ज्येष्ठत्वात् । तथा च शातातपः - अनाद्यपुत्रो ज्येष्ठोऽपि भ्राता पुत्रो निगद्यते । इति । अतश्च - ज्येष्ठपुत्ररहितेन मघायां सपिण्डमेव कर्तव्यमिति गम्यते । महाफलत्वात् । एतच्च मघान्वितदिनान्तरे, न त्रयोदश्याम् । मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति । कनीयांस्तु त्रयोदश्यां क्षयादभ्युदयादृत इत्युभययोगे पुत्रिमात्रस्य पिण्डनिषेधात् । अत्र चाविभक्तभ्रातॄणां पौत्रस्य च पुत्राभावे महाफलत्वात् पृथक् पृथगधिकारः । तथा च पैठीनसिः - अत्र पितृगाथा - छागेन सर्वलोहेन वर्षासु च मघासु च । पुत्रो वा यदि वा पौत्रो यो नो दद्यानयोदशीमिति । तथा — विभक्ता वाविभक्ता वा कुर्युः श्राद्धमदैवतम् । मघासु च ततोऽन्यत्र ना
I
C