________________
aurat ८ ]
परिशिष्टम् ।
५३३
धिकारः पृथग्विना । अदैवतं क्षयाकोद्दिष्टं पृथक्पमुभयत्र विभक्ता अविभक्ता वाऽदेवतं मघासु च श्राद्धं पृथक्कुर्युः । ततोऽन्यत्र पृथग्विना नाधिकार इत्यन्वयः । अथवा तत इति सार्वविभक्तिकस्तसु । ततो विनाऽदैवतं मघाश्राद्धं च विनाऽन्यत्र पृथग्नाधिकार इत्यन्वयः । उभयान्वयेऽपि क्षयाहमघाश्राद्धयोरेव विभक्ताविभक्तयोः पृथक् पृथगधिकारोऽन्यत्र न किंत्वविभक्तेनैकनैवैकं श्राद्धं कर्तव्यं न पृथगित्यर्थः । तथा च प्रचेताः - अर्वाक्संवत्सरात्सर्वे कुर्युः श्राद्धं समेत्य वै । संवत्सरे व्यतीते तु कुर्युः श्राद्धं पृथक् पृथक् । पठन्ति च - एकादश्याद्यामशो (?) ज्येष्ठस्य विधिवक्रियाः । कुर्यनैकैकशः श्राद्धमादिकं तु पृथक् पृथगिति । किं च-नवश्राद्धं सपिण्डत्वं श्रद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि । अपिशब्दा द्विभक्तेष्विति परिगणनात् । यत्तु - विभक्तास्तु पृथक्कुर्युः प्रतिसंवत्सरादिकम् । एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम् । यच्च -- तृणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् इति वचनादवि - भक्ता मध्यदेशादावेकमेव कुर्वन्ति तदशक्तविषय मित्यविरोधः । वर्षास्विति चांद्रमासाभिप्रायम् । ननु च वर्षास्वित्यभिधानान्मासद्वयात्मकस्यतः क मासे मघाश्राद्धमिति संदेहः । मैवम् । अपरपक्षे श्राद्धमित्युपक्रमादित्यदोषः । अतश्वापरपक्षमघायामिति । तथा च वृद्धयाज्ञवल्क्यः --- याम्यं वा पैतृकं वापि पितृपक्षे विशेषतः । तत्र संकल्पनं कुर्यात्पितॄणां पुष्टिदः सदेति । 'हस्तिच्छायायां च ' श्राद्धमक्षयतृप्तिकृदिति शेषः । सा चात्र गजस्यैव या पूर्वं वर्तते सा मुख्या । तथा च विश्वामित्रः --- परमान्नं च यो दद्यात्पितॄणां मधुना सहेति । छायायां तु गजेन्द्रस्य पूर्वस्यां दक्षिणामुखः । इति । पारिभाषिकी तु सा गजस्य छायेव गजच्छायेति व्युत्पत्त्या गौणी । तथा च नानावचनानि ब्राह्मादिषु सैंहिकेयो यदा भानुं ग्रसते पर्वसंधिपु । हस्तिच्छाया तु सा प्रोक्ता तत्र श्राद्धं प्रकल्पयेत् । प्रचेताः -- हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी । तिथिर्वै श्रावणीया तु सा छाया कुंजरस्य तु । तथा हंसे हस्तस्थिते या स्यादमावास्या करान्विता । सा ज्ञेया कुञ्जरच्छाया इति वोधायनी स्मृतिः । वायवीयेवनस्पतिगते सोमे छाया या प्राङ्मुखी भवेत् । गजच्छाया तु सा प्रोक्तेति चकारोक्ता । वानस आरक्तः । तथा च मार्कण्डेयः वाधनसामिषं लोहं कालशाकं तथा मधु । अनन्तां च प्रयच्छन्ति तृप्ति गौरसुतस्तथा । अष्टवर्षा विवाहिता गौरी तत्सुतो गौरः । वर्धमानतिलं श्रद्धमक्षयं मनुरत्रवीत् । सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् । न चाकामेन दातव्यं तिलश्राद्धं कथंचनेति । वर्धमान तिलं तिलबहुलम् । स्कंदसंवादेऽपि कालशाकं महाशल्को लोहाजस्तूपरो घृतम् । आनन्त्यायैव भवति तथा पैठीनरोहिताविति । घृतं घृतबहुलम् । घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजेदिति वायवीयवचनात् । भूमौ समुत्सृजेदिति तथा पात्रं पूरणीयम् यथा घृतं भुवि पततीति, घृतवहुलमित्यर्थः । एवमक्षयतृप्तिकृद्धव्यमुक्त्वा तत्तृप्तिहेतून्पङ्क्तिपावनानाह ' मन्त्राध्यायिनः पूताः पङ्गिपावना इति शेषः । मन्त्रशब्दः संहितावचनः । बहुवचनमेकद्वित्रियथापेक्षमृग्वेदाद्यनेकसंहितापेक्षं वा । मन्त्राध्यायित्वमात्रेणैव केवलं पङ्गिपावन्यं नेति पूता इति विशेषणम् । तञ्चौचित्यादुत्तरत्रापि सार्वत्रिकम् । मनोवाक्कायकर्मभिः शास्त्रोक्तत्रतातिशयेन निषिद्धवर्जनेन च वाह्याभ्यन्तरशुद्धियुक्ताः पूता इत्युच्यन्ते । अथवा पूतः पञ्चविधः । तथा च विष्णुः - तीर्थपूतो यज्ञपूतस्तपःपूतः सत्यपूतो मन्त्रपूत इति । ' शाखाध्यायी' घूतः पङ्क्तिपावन इति शेषः । शाखाशब्दो मन्त्रब्राह्मणात्मकवेदापेक्षः अङ्गानां वक्ष्यमाणत्वात् । तथा च शङ्खः --यजुषां पारगो यश्च ऋचां साम्नां च पारगः । अथर्वशिरसोऽध्येता ब्राह्मणः पङ्गिपावनः । इति । 'पडङ्गवित् ' पडङ्गो वेद उक्तस्तमर्थतः पाठतश्च यो वेत्ति स पूतस्तादृश इति शेषः । अनूचान इत्यर्थः । तथा च स्कन्दसंवादे -- अनूचानाः श्रोत्रियाञ्च ब्राह्मणाः पङ्गिपावनाः । इति । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दो विचितिरित्येतैः
1
3