________________
५३४
पारस्करगृह्यसूत्रम् ।
' [श्राद्धसूत्रपडङ्गो वेद उच्यते । अत्र मन्त्राध्यायिप्रभृत्येतावत्पर्यन्तं गुणाधिक्योपक्रमादुत्तरोत्तरं प्राशस्त्यं सचितम् । अत्र कश्चिदाह-षडङ्गानि तेषामेकं वापि यो वेत्ति स एवेति । तन्नोचित्तं, बहुव्रीयुपलब्धः। अनूचानोक्तिपरित्यागप्रसक्तेश्च । एवं वेदाध्ययनेन पङ्गिपावनत्वमुक्त्वा तदसंभवेऽप्याह ' ज्येष्ठसामगः । ज्येष्ठसामशब्दो द्वेधा विवक्षितः । तथा हि-ज्येष्ठसामसंज्ञकं सामत्रयं यो गायति स तथा । अथवा ज्येष्ठसामसंज्ञकं व्रतं तद्यो गच्छत्याचरितुं जानाति स ज्येष्ठसामगः । ज्ञानार्थस्य गमेर्डप्रत्ययः । ततश्च ज्येष्ठसामत्रयं गायता येन तव्रतं चीर्ण स ज्येष्ठसामगश्च तन्मार्गेणैव पावन इत्यर्थः । 'गायत्रीसारमात्रोऽपिर गायन्तं त्रायत इति गायत्रा सैव गायत्री तां वेद सारत्वेनोपादाय तज्जपादिमात्रपरो गायत्रीसारमात्रः । तथा च विष्णुः-गायत्रीजपनिरत इति । अथवा गयाः प्राणास्तांस्त्रायते गयत्रा सैव गायत्री, सारमानं सर्वमन्त्रमूलं यस्य, न मन्त्रान्तरं स गायत्रीसारमात्रः । तथा च श्रुतिः-साहैषा गयांस्तने प्राणा वै गयास्तत्प्राणांस्तत्रे तयद्गयांस्तत्रे तस्माद्गायत्री नामेति । मनुरपि-गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः । नायंत्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयीति । गायत्रीव्रतचारीति कश्चित् । अपिशव्दादन्ये शास्त्रोक्ताः । तथा च यमः-ये सोमपा विरजसो धर्मज्ञाः शान्तबुद्धयः । व्रतिनो नियमस्थाश्च अालाभिगामिनः । अथर्वशिरसोऽध्येता सर्वे ते पतिपावनाः । इत्यादि । पञ्चाग्निः । पूतस्तादृश इति शेषः । सभ्यावसथ्यौ त्रेता च यस्य स्युः स एवाग्निहोत्री । अथवा, पञ्चामयो मनुष्येण प्रयत्नतः (१) माता पिता चाग्निरात्मा गुसश्च भरतपेभेति महाभारतोक्तः पंचाग्निः । पञ्चाग्निव्रतचारीति कश्चित् । उपनिषत्पठ्यमानपञ्चाग्निविद्यावेत्तेत्यन्यः । पञ्चाग्निरेकाग्नेरुपलक्षणम् । तथा च मनु:-त्रिणाचिकेत एकाग्निरिति । स्नातक व्याख्यातचरः । इह पुनस्तद्गहणं चान्द्रायणादिवतचारिप्राप्त्यर्थम् । तथा च यमः चान्द्रायणव्रतचरः सत्यवादी पुराणवित् । निष्णातः सर्वविद्यासु शान्तो विगतकल्मषः । गुरुवेदाग्निपूजासु प्रसक्तो जानतत्परः । विमुक्तः सर्वदा धीरो ब्रह्मभूतो द्विजोत्तमः । अनभित्रो न वाऽमित्रो भैत्र आत्मविदेव च । स्नातको जप्यनिरतः सदा पुष्पबलिप्रियः । ऋजुर्मूदुः क्षमी दान्तः शान्तः सत्यव्रतः शुचिः । वेदज्ञः सर्वशास्त्रज्ञः उपवासपरायणः । गृहस्थो ब्रह्मचारी च चतुर्वेदविदेव च । वेदविद्यावतस्नाता ब्राह्मणाः पतिपावनाः । इति । 'त्रिणाचिकेतः पतिपावन इति शेषः । अत्राहुः-उशन्ह वै वाजश्रवसः सर्ववेदसं ददावित्यादावनुवाके कठश्रुतौ पठ्यमाने त्रिणाचिकेतनाम्नो मुनिपुत्रस्य प्रश्नत्रयविषयोऽत्रोच्यत इति व्युत्पत्त्या त्रिनाचिकेतस्तत्पाठतदर्थाभ्यां ब्राह्मणोऽपि त्रिनाचिकेत इति । त्रिश्चि. तो नाचिकेतोऽग्निर्येन स इत्यन्यः । तन्नोचितम् । त्रिणाचिकेतशब्दस्य यौगिकस्य पारिभाषिकस्य वात्र विवक्षितत्वात् । तथा हि कित ज्ञाने धातुः । वृत्तातिशयेन तपोविशेषेण च . तृणवत्सर्वमाचिकेति जानातीति त्रिणाचिकेतः । तथा च ब्रह्मपुराणम्-आचिकेत्तीति विश्वं यस्तृणवत्सर्वनिस्पृहः । तृणाचिकेतः स गृही रागद्वेषविमत्सरः। इति । पठन्ति च-फलमूलदधिक्षीरगोमयाम्बुघृताशनः । त्रिणाचिकेत उक्तोऽसौ योऽनं त्यजति नित्यशः । इति । अथवा अध्वर्युर्वेदभागज्ञस्तव्रती नियतो द्विजः । तृणाचिकेतः स ज्ञेयस्तद्योगात्पुरुषोऽपि यः । इति ब्रह्मपुराणोक्तो वा । 'त्रिमधुः । तादृश इति शेषः । त्रिमधु ऋग्वेदेकदेशस्तव्रतं च तदाचरणेन तदध्यायीत्येके । त्रिमधुरथर्ववेदरथ (?) तचारीत्यन्ये । अपरेऽन्यथा पेछुः । त्रीणि त्रीणि विशुद्धानि विद्या योनिश्च कर्म च । पुरुषत्रयविख्यातस्त्रिमधुः परिकीर्तितः । इति । 'त्रिसुपर्णी' पतिपावन इति शेषः । त्रिसुपर्णमृग्यजुषयोरेकदेशस्तद्वतं च तदाचरणेन तव्रताध्यायी त्रिसुपर्णीत्येके। तैत्तिरीयशाखापठितस्य ब्रह्म मेतुमामित्यादि ये ब्राह्मणात्रिसुपर्ण पठन्त्यासहस्रात्पति पुनन्ति ते सोमं प्राप्नुवन्तीत्यनुवाकत्रयस्यार्थतो ग्रन्थतश्चाध्येता त्रिसुपर्ण इत्यन्ये । अपरेऽन्यथा पेठुः । पितरः सप्तपूर्वे च यज्वानो भूरिदक्षिणाः । यस्येदृशो मातृ