________________
कण्डिका ८]
परिशिष्टम्। वंशत्रिसुपर्णीति स स्मृतः इति । 'द्रोणपाठकः' पूतस्तादृश इति शेषः । द्रोणशब्दोऽवयववृत्तिः। धर्मद्रोण इत्यर्थः । तथा च गोमिलसूत्रम्-धर्मद्रोणपाठक इति । धर्मद्रोणो धर्मशास्त्रम् । तथा च स्कन्दसंवादे-पुराणस्मृतिवेत्तारः कृतव्याकरणश्रमाः। अनूचानाः श्रोत्रियाश्च ब्राह्मणाः पतिपावनाः । यमोऽपि-मन्त्रव्राह्मणविचैव यश्च स्याद्धर्मपाठकः । इति । 'ब्राह्मोढापुत्रश्चेति पङ्क्षिपावनाः । ब्राह्मविवाहेनोढा ब्राह्मोढा । तत्पुत्रः पूतः पतिपावन इत्यर्थः । चकारो ब्राह्मोढापत्यादिसमुच्चयार्थः । तथा च शङ्ख ब्रह्मदेयानुसंतानो ब्रह्मदेयाप्रदायकः । ब्रह्मदेयापतिश्चैव ब्राह्मणाः पतिपावनाः । इति । ब्रह्मदेया ब्राह्मविवाहेन दत्ता । तदनुसंतानस्तत्संततिः । इतिशब्द आद्यर्थों न समाप्तौ । इत्याद्यर्थेऽपीत्यर्थः । तथा च मनुः-वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः । शतायुश्चेति विज्ञेया ब्राह्मणाः पङ्गिपावनाः । इत्यादि । ब्रह्मचार्यधीयानः । जटिलं वेत्यनधीयानस्य तेनैव प्रतिषिद्धत्वात् । यमोऽपि-गृहस्थो ब्रह्मचारी च चतुर्वेदविदेव च । चतुर्वेदविदेव चेति ब्रह्मचारिविशेषणत्वात् । सहस्रदो गवां सुवर्णस्य वा । स्कन्दसंवादेऽपि-अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । ज्ञानयज्ञतपःसत्यतीर्थपूताः कुलान्विताः। श्रोत्रियान्वयजाश्चैव विज्ञेयाः पतिपावनाः । इति । 'वागीश्वरो याज्ञिकश्च' पावनाः । उच्यते सर्वमनयेति वाक् व्याकरणम । ईश्वरशब्दः समर्थव्याख्यातृपरः । यज्ञं वेत्तीति याज्ञिकः । ऋतूक्थादित्वा । पुनः पावनग्रहणं पतिपावनेध्वपि पावनत्वज्ञापनार्थम् । तथा चोक्तम्-यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । उभौ तौ पुण्यकर्माणौ पतिपावनपावनाविति । चकारोऽन्यसमुच्चयार्थः । तथा च वृहस्पतिः-योकं भोजयेच्छ्राद्धे छन्दोगं तत्र भोजयेत् । ऋचो यजूंषि सामानि त्रितयं तत्र विद्यते । अटेत पृथिवीं सर्वा सशैलवनकाननाम् । यदि लभ्येत पित्रये सानामक्षरचिन्तकः । ऋचाऽनुतृप्यति पित्ता यजुपा तु पितामहः । पितुःपितामहः साना छन्दोगोऽभ्यधिको हतः । इति । अक्षरचिन्तक: सामविभागज्ञः। तथा च गोमिल:-आमन्त्रिते जपेद्दोहान्नियुक्तस्त्वृषभाजपेत् । अतीषशाश्च तत्रैव जत्वानीयात्समन्ततः । भुक्त्वाचम्य पदस्तोभावपेत्तत्र समाहितः । गोसूक्तं चाश्वसूक्तं च इन्द्रसूक्तं च सामनी। तरत्समस्य यत्साम तच जत्वकधीवुधः । गीत्वाऽऽसीनः शुचौ देशे वामदेव्यं ततो जपेत् । एवं सामभिराच्छन्नो भुखानस्तु द्विजोत्तमः । श्राद्धभोजनदोपैश्च महदिनोंपलिप्यते । अन्यथैव हि भुखानो हव्यकव्येष्वमन्त्रवित् । आत्मानमन्नं दातुंश्च गमयत्यासुरीं गतिमिति । आज्यदोह इत्याद्याज्यदोहाः सुरूपकृत्लु मूतये, पिवा सोममिन्द्र, मन्दन्तुत्वा, स्वादोरित्या विपूवत इत्यूगुत्पन्नानि सामानि ऋपमाः स्त्रियः पुराजिती चान्धस इति । असर्जि चकारथ्ये यथाजाविति अमीनवत्ते अद्रुह इति अश्वान्तर्गदितासूत्पन्नानि सामानि अतिषड्डाञ्चत्वारः । धर्तादिवः पचते रथ्योत्तरस इत्यादि ऋगुत्पन्नानि समानि पदस्तोभाः। गोसूक्तानि सर्वसामगप्रसिद्धानि । अश्वसूक्तं प्रसिद्धम् । यदिन्द्राहं यदात्वमस्यां गीतिमेढ़ेनेन्द्रशुद्धे सामनी। एतोन्विन्द्रं स्तवामेत्यस्य(?)सामद्वयं तरत्समंदीधावतीत्येकम् । कयानश्चित्र आभुवेत्यादि वामदेव्यम् । एवं सामभिराच्छन्नो रक्षितः श्राद्धदोषेर्न लिप्यते मन्त्रविदित्ययः। नियोज्याभावेऽप्येक वेदविद पत्रिमूर्धनि नियुझ्यात् । नियोज्याः पूर्वोक्ताः स्मृत्युक्ताश्च । तेषामभावेऽप्राप्तौ एकं वेदविदं वेदार्थज्ञमेव मुखपजयादौ नियुच्यादुपवेशयेत् । तेनैवेतरपलथुपविष्टाः अमुख्याः पूता भवन्तीत्यर्थः । अथवा वेदविद्वेदपारगः । तल्लक्षणं च उत्पत्तिप्रलयौ चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्या च स भवेद्वेदपारगः । इति । अपिशब्दोऽभावेऽनुकल्पविशेषसमुच्चयार्थः । तथा चापस्तम्बः ब्राह्मणाभोजयेद्ब्रह्मविदो योनिगोत्रमन्त्रांतेवास्यसंवन्धानिति । योनिसंवन्धा मातुलश्वशुरादयः । गोत्रसंवन्धाः सपिण्डसगोत्रादयः। मन्त्रसंबन्धा वेदमन्त्रादि अनुशिष्टा:(१) अन्तेवासिसंबन्धाः शिष्यानुशिष्यादयः। एवंविधसंवन्धरहितानभावे भोजयेदित्यर्थः । ननु चाभावेऽपि शिष्यानित्यत्रापिशब्देनानुकल्पः सं.