Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
५४०
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
- वृन्दं मातामह श्राद्धविधायकं तन्मृतवर्गद्वयमित्यविरोधः । तस्माज्जीवन्मातामहकर्तृ ? पितृवर्गीदेश नैव . त्रिपिण्डकं श्राद्धमित्युचितम् । तथा च स्मृतिः पितृवर्गे मातृवर्गे तथा मातामहस्य च । जीवेत्स -यदि वर्गादौ तद्वर्गं तु परित्यजेत् । चशब्दो मातामहीसंग्रहार्थः । प्रजापतिरपि संक्रान्तावुपरागे च चर्पोत्सत्रमहालये । निर्वपेदत्र पिण्डस्त्रीनिति प्राह प्रजापतिरिति । अत एव प्राप्तैकवर्ग श्राद्धस्य त्रयोदश्यां निषेधः । श्राद्धं नैकस्य वर्गस्य त्रयोदश्यामुपक्रमेदिति । एवमन्यपङ्कावपि । अत्र च जीवेत्स यदि वर्गादावित्यनेन न वर्गादावेव जीवतो नातिक्रमो न जीवत्पितामहादेरपीत्यर्थादुक्तम् । तेन मृतपितृको जीवत्पितामहादिकमतिक्रम्यापि दद्यादित्यर्थः । तस्मान्निरग्निजीवत्पितृकस्य सपिण्डनाभ्युदयिकश्राद्धयोरेव सर्वश्राद्धेषु जीवतिक्रमेण श्राद्धं नेतरत्रेति चतुरस्रम् । 'द्वितीयाया स्त्रीजन्म' श्राद्धकर्तुः स्यादिति शेषः । स्त्रीजन्मेति कन्याजन्मेत्यर्थः । तथा च मनुः— कन्यकां तु द्वितीयायामिति । उपलक्षणं चैतत् । तथा च वायुपुराणम् । द्वितीयायां तु यः कुर्याद्दिपदाधिपतिर्भवेन् । मार्कण्डेयोऽपि द्वितीया हि प्रजाप्रदेति । कन्यावेदिन इति याज्ञवल्क्य इत्यादि । कन्यावेदी जामाता । अत्रैतञ्चिन्त्यते--किमत्र पितामहाद्वितियौ पौत्रेण श्रद्धं कार्यमुत नेति । अत्रैके अधिकाराभावान्नेत्याहुः । तदयुक्तम् । विहितत्वात् । तथा च स्वल्पमात्स्यम् - नान्दीमुखानां प्रत्य कन्याराशिगते रवौ | पौर्णमास्यां च कर्तव्यं वाराहवचनं यथेति । नान्दीमुखाः पितामहादयः । चकारादन्यतिथावपि । तथा च वृद्धयाज्ञवल्क्यः - कुहू पूर्णेन्दुपञ्चम्यां यः श्राद्धं कुरुते नरः । कामिकं तु वरं पुत्रं लभते नात्र संशयः । तथा--काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् । तस्य त्रींस्तत्र विधिना तर्पयेत्पायसेन त्विति । पूर्णेन्दुपदी । अयं तु विशेषः -- पितृपूर्वकमिति । 'अश्वास्तृतीयायाम् ' श्राद्धकर्तुरिति शेषः । उपलक्षणं चैतत् । तथा च मनुः - तृतीयायां तु वंदनति । वायुपुराणेऽपि --- वरार्थिनां तृतीया च शत्रुनी पापनाशिनीति । अत्रैतदुच्यते - भरण्यादावन किमपिण्डकं स्यादुत नेति । तत्र निपेधादपिण्डकमित्येके । तन्न । तिथिनिमित्तकत्वात् । तथा च ऋयोगादिपूतोऽपि after पिण्डपातनम् । तथा -- तिथिनक्षत्रयोगेषु प्राधान्यं तु तिथेः स्मृतम् । तिथिमूलानि सर्वाणि यथा द्रव्ये गुणादिकमिति । यत्तु भरण्यादौ तन्निषेधः स नक्षत्रादिनिमित्तकविषयः । प्रपञ्चितं चैतदादिसूत्रे | 'चतुर्थ्यां क्षुद्रपशवः कर्तुः स्युरिति शेषः । क्षुद्रा अजादयः । उपलक्षणं चैतत् । तथा च वायुः, श्राद्धं चतुर्थ्यां कुर्वाणः शत्रोद्राणि पश्यतीत्यादि । अत्रैतञ्चिन्त्यते--किमत्र मातृतियौ मातृश्राद्धं पृथक् स्यादुत नेति । तत्रैक आहुः - अन्वष्टका च वृद्धौ च गयायां च क्षयेऽहनि । मातृश्राद्धं पृथक्कुर्यादन्यत्र पतिना सहेत्यादिवचनेभ्यो न पृथगिति । तन्नोचितम् पृथक् श्राद्धस्य 'वाचनिकत्वात्प्रेवपत्तिथेर्विहितत्वाच्च । तथा हेमाद्रिपद्धती — अन्वष्टकासु वृद्धौ च प्रतिसंवत्सरं तथा । महालये गयायां च सपिण्डीकरणात्पुरा । मातुःश्राद्धं पृथक्कुर्यादन्यत्र पतिना सहेति । स्मृतिरपि -- महालये गया श्राद्धे वृद्धावन्वष्टकासु च । नवदैवतमन्त्रस्याच्छेषं पाट्पौरुपं विदुः । चतुर्विंशतिमतेऽपि । सर्वेभ्यश्च पितृभ्यश्च तत्पत्नीभ्यस्तथैव च । पिण्डास्तेभ्यः पृथग्दद्यात्सदा भाद्रपदे द्विजः । इनि । स्मृतिसमुचयेऽपि पृथक् श्राद्धं तु मातृणां प्रकर्तव्यं विचक्षणैः । नवम्यां पितृपक्षे तु वृद्धौ तीर्थे महालये | स्मृत्यर्थसारेऽपि तत्र मातुः श्राद्धं पृथक् शस्तमिति । रेणुरपि - मातुर्गयाष्टक वृ मृताहे च महालये । तैश्च श्राद्धं पृथग्देयं तन्त्रं वानुगता यदीति । अयं विशेष:- मृतं पितरि मूर्वकं जीवित मृतवर्गस्यैवेति । पृथकुश्राद्धं जीवत्पितृकस्य नेत्येके । नवमीविषयमेनेत्यन्ये । 'पुत्राः पञ्चम्यां' कर्तुः स्युरिति शेषः । पुत्रशब्दः पुन्नामनरकन्त्राणहेतुः । पूर्णातिथित्वात् । तथा च मनु' पचम्यां शोभनान्सुतानिति । उपलक्षणं चैतन् । तथा च वायुः पञ्चम्यां चैव कुर्वाणः प्राप्नोति महतीं श्रियम। मार्कण्डेयोऽपि - श्रियं प्राप्नोति पञ्चम्यामिति । अत्रके मातुः क्षयाहे पार्वणं स्वादित्याहुः । तथा च
I
I

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560