Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 531
________________ कण्डिका ७ ] परिशिष्टम् । मथितं चैव तथातिलवणं च यत् । सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः । वाग्भावदुष्टाश्च तथा दुष्टैश्रोपद्रुतास्तथा । वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि । इति । आसनारूढमासनोपरि धृतम् । पादोपहतं पदा स्पृष्टम् । अमेध्यादागतैश्चर्मकाराद्यपवित्रस्थानादागतैरशुद्धैः स्पृष्टम् । द्विःस्विन्नं द्विःपक्कम् । परिदग्धमतिदग्धम् । अग्रावलेहितं श्राद्धात्पूर्वमारवा - दितम् । पिण्याकं तिलकल्कः । मथितं करेण विलोलितं निर्जलं दधि । करेण मथितं दुधीति निषेधात् । मथितं तत्रमित्यन्यः । सिद्धा भक्ष्या आसलकादयः प्रत्यक्षलवणेन मिश्रिताः । तथा --- दधि शाकं तथाऽभक्ष्यं शुक्तं चौपधिवर्जितम् । वर्जयेत्तु तथान्यच्च सर्वानभिपवानपि । अभक्ष्यं दधि शाकं च वर्जयेदित्यन्वयः । अन्यन्निषिद्धमित्यर्थः । अभिषवाः संवानानि । शुक्तमनम्लवस्तु कालान्तरेण द्रव्यान्तरेण वा ह्यम्लं न स्वभावतोऽत्यम्लम् । तथा च वृहस्पतिः--अत्यम्लं शुक्तमाख्यातं निन्दितं ब्रह्मवादिभिः । इति । अत्रापवादः शङ्खनोक्तः । दधि भक्ष्यं च शुक्तेषु सर्वे च दधिसंभवम् । ऋचीसपक्कं भक्ष्यं स्यात्सर्पिर्युक्तमिति स्थितिरिति । अनग्निक ऊष्मा ऋचीसं तेन पकमाम्रादि घृतयुक्तं भक्ष्यमित्यर्थः । वायुपुराणेऽपि भक्ष्याण्येव करंभाच इष्टका घृतपूरिका । कृशरो मधुसर्पिश्च पयः पायसमेव च । दधि गव्यमसंस्पृष्टान्भक्ष्यान्नानाविधानपि । शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः । सक्तून् लाजांस्तथा पूपान् कुल्माषान्व्यञ्जनैः सह । सर्पिःस्निग्धानि सर्वाणि दना संस्कृत्य भोजयेत् । श्राद्धेष्वेतानि यो दद्यात्पितरः त्रीणयन्ति तम् । इति । करम्भो दृष्यक्ताः सक्तवः । इष्टकाः कासारखण्डानि । पृथुकश्चिपिटः । असंसृष्टभक्ष्याः स्वकीयभक्ष्याः । छाजा भ्रष्टव्रीहितण्डुलाः । अपूपा मण्डकाः । कुल्मापो यावकः । एतानि पर्युषितान्यपि घृतस्निग्धा नि दघ्नाम्बुना च संस्कृतानि भक्षयेदिति पर्युषितापवाद इत्यर्थः । यत्किंचिन्मधुना मिश्रं गोक्षीरघृतपायसैः । दत्तमक्षय्यमित्याहुः पितरः पूर्वदेवताः । इति मत्स्यपुराणवचनादित्यलं बहुना | शेषं स्मृति - भ्योऽनुसंधेयम् । अन्नाभावे फलमूलैस्तृप्तिरित्युक्तम् । तत्रोपायविधिमाह 'सहान्नेनेतरास्तर्पयन्ति' फलमूलैरन्नेन सहेतराः पितॄंस्तर्पयेयुर्न केवला इत्यर्थः । लटो लिडर्थत्वात् । अत्रान्नेनेति तृतीययैव सहार्थे लधे सहेति ग्रहणं विस्पष्टार्थे नान्नस्याप्राधान्यार्थम् । अथ सहयुक्तेऽप्रधान इति पाणिनिस्म - रणविरोधादन्नस्य कथमप्राधान्यं नेति । उच्यते । अविवक्षितत्वेनास्य दोषस्य परिहृतत्वात् । तथा चाविवक्षैव हि शब्दस्य प्रधानं कारणं न वस्तुसत्तेति । न चान्नमन्तरेण तृप्तौ मूलफलादेः सामर्थ्यातिशयः । प्रधानगुणभावसंभवोपपत्तेः । तस्माद्विस्पष्टार्थमेव सहेत्युक्तम् । सहान्तेनोत्तरास्तर्पयन्ति इति क्वचित्पाठस्तत्रोत्तरा मूलफलादयस्तेनैव सह तर्पयन्ति तृप्तान्कुर्वन्ति न केवला इत्यर्थः । एवं न हिंस्यात्सर्वभूतानीत्यहिंसा धर्मेण तृप्तिमभिधायेदानीं हिंसाधर्मेणाह ' छागोसमेपानालभ्य' छागो वर्क: । उस्रस्तूपरः । स च शृङ्गहीनश्छागादिः । तथा च श्रुतिः । तूपरो वा अविवाण इति । पोमेद्रः । एतापित्रुदेशेन हत्वा पचेदित्यर्थः । तथा चात्रिः - मधुपर्के च सोमे च दैवे पित्र्ये च कर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेति कथंचन । स्कन्दसंवादेऽपि — अर्ये देवतां हि यो हिनस्ति पशून्द्विजः । स यज्ञफलमाप्नोति ते च यान्ति परां गतिम् । जावालोऽपि -- हिनस्ति यत्पशून्स्वार्थमुद्दिश्यैव स पापभाक् । श्रद्धापदेशतो हिंसन्नपि स्वार्थे न दुष्यति । इति । अनैक आहु:-- उत्रो बलीवर्दः । तथा च - महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेदिति । तदयुतमू, महोक्षशब्देन तूपरस्योक्तत्वात् । तथा च जावाल: - विषाणोद्भवकाले तु यो विपाणविवर्जित. । तं महोक्षं वदन्त्याद्यास्तूपरं चापि पावनम् । इति । महोक्षः पक्षी वा मनोक्ष इति प्रसिद्धः । तथा च जातूकर्ण्य :- किंचिल्लोहितवर्णो यो दीर्घपुच्छो गुरुस्वरः । ह्रस्वत्रोटिस्तु यः पक्षी स महोक्षोऽति पावनः । इति । किंच वृपस्याभक्ष्यत्वमुक्तम् । तथा चेश्वरः --- साक्षाद्धमों वृपः प्रोक्तो मन्मूर्तिमम ५२५

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560