Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 529
________________ कण्डिका ७] परिशिष्टम् । ५२३ मथवार्षपलं चतुर्णाम् ॥ लक्ष्णं पटे ललनया मृदुपाणिघृष्टा कर्पूरधूलिसुरभीकृतभाण्डसंस्था । एषा वृकोदरकृता सरसा रसाला या खादिता भगवता मधुसूदनेन ॥ इति । चोष्यैराम्रादिकैः फलैः । त्रिजातकं स्वगेलागन्धपत्रमेलनम् । तथा च निघण्टु:-त्वगेलापत्रकैस्तुल्यैत्रिसुगन्धि निजातकम् । नागकेसरसंयुक्तं चातुर्जातकमुच्यते । इत्यादि । वायुपुराणे-बिल्वामलकमृद्वीकापनसाम्रातदाडिमम् । चन्यं पालेवताक्षोटखजूराम्रफलानि च । कलेरुः कोविदारश्च तालकन्दं तथा बिसम् । तमालं शतकन्दं च गन्धालू शीतकन्दकम् । कालेयं कालशाकं च सुनिपण्णं सुवर्चला । मांसं शाकं दधि क्षीरं चेबु वेत्राङ्कुरस्तथा । कधूलः किङ्किणी द्राक्षा लकुचं मोचमेव च । कर्कन्धू ग्रीवकं वारं तिन्दुकं मधुसाह्वयम् । वैकङ्कतं नालिकेरं शृङ्गाटकपरूपकम् । पिप्पली मरिचं चैव पटोलं बृहतीफलम् । सुगन्धि मत्स्यमांसं च कलायाः सर्व एव हि । एवमादीनि चान्यानि स्वादूनि मधुराणि च । नागरं चात्र वै देयं दीर्घमूलकमेव च । इति । अस्यार्थः । मृद्वीका गोस्तनी द्राक्षा । पनसो व्याख्यातः। आम्रातकः कपीतनः। चव्यं चविका । पालेवतमुक्तम् । आक्षोटोऽप्युक्तः । कसेरुर्भद्रमुस्ता । तालकं तालीति प्रसिद्धम् । शतकन्दं शतावरी । गन्धालूः कर्चुरशाकम् । शीतकन्दं शालूकम् । कालेयक दारुहरिद्रा, करालाक्षं शाकमिति गोविन्दराजः । सुनिषण्णं वितुन्नशाकम् । सुरनुनीति ख्यातं जलभवं शाकमिति कश्चित् । सुनिषण्णं चाङ्गेरीसदृशशाकं वा । चाङ्गेरीसदृशैः पत्रैः सुनिषण्णकमुच्यते । शाकं जलाशये देशे चतुःपत्री निगद्यते । इति सुश्रुतोक्तेः। सुवर्चला ब्रह्मसुवर्चला । सूर्यावर्त इति गोविन्दराजः । कट्फलः श्रीकर्णिका । किङ्किणी द्राक्षा । लकुचो लिकुचः। मोचा कदलीफलम् । कर्कन्धूरुक्ता । ग्रीवकं वपुष्टा । वारं पियालविशेषः । तिन्दुकोऽसितसारः । शृङ्गाटकमुक्तम् । परूषकं फेरुस इति प्रसिद्धं फलम् । वृहती निदिग्धिकाफलम् । वरीकटाईति प्रसिद्धम् । दीर्घमूलं तुण्डिकेरीफलम् । मूलकमित्यन्यः । पटोलो दीर्घपटोलो राजीफलमित्यर्थः । चचेडा इति लोके । यत्तु-ान्धारिका पटोलानि श्राद्धकर्मणि वर्जयेत् । इति पटोलनिषेधः स क्षुद्रपटोलविषयः । तथा च निघण्टुः-पटोली स्थाहितीयान्या स्वादुपत्रफला च सा । इति । शेषं प्रसिद्धम् । कुमारेश्वरसंवादेऽपि-पालेवतकमृद्वीकाखजूराम्रकसेरुका । बिल्वामलकमाक्षोटपनसाम्रातकानि च । चेचुवेत्रा कुराः शाकं "लमोचमेव च । शीतकन्दं बिसं नालिकेरं कटूफलकं तथा । इत्याद्यमेध्यमन्यच्च प्रदेयं श्राद्धकर्मणि । चेचुः शणभेदः । इतरस्य निषेधात् । चंचुर्मढाकं शाकमित्यन्यः । वय॑शाकान्याह विष्णुः-भूस्तृणशिग्रुसर्षपसुरसार्जककूष्माण्डालावुवार्ताकपालाक्यतण्डुलीयककुसुम्भादि वर्जयेदिति । भूस्तृणो रोहिषः । गन्धचणाख्यं शाकमित्यर्थः । शिघु सुहिजन इति प्रसिद्धः । सर्षपो राजसर्पपः । इतरत्य विहितत्वात् । सुरसा श्वेतनिर्गुण्डी । अर्कजः श्वेतार्कजः । कुहेर इति प्रसिद्धः । पालाक्यः पलकीति प्रसिद्धा । तण्डुलीयकं चौराई इति प्रसिद्धः । वार्ताकं श्वेतवृन्ताक्रम् । उशनाःनालिकाशणछत्राककुसुमानम्बुविद्भवान् । कुम्भीकम्बुकवृन्ताककोविदारांश्च वर्जयेत् । वर्जयेगञ्जनं श्राद्धे काञ्जिकं पिण्डमूलकम् । करखं येऽपि चान्ये वै रसगन्धोत्कटं तथा । नालिका प्रसिद्धा। दीर्घनालाप्रैलापल्लवेति माधवीये । छत्राकं शिलीन्ध्रः । कुम्भी श्रीपर्णिका । केवुकं वृत्तालावु । वृन्ताकं श्वेतम् । कोविदारश्चमरकम् । गृचनो हरिद्रवर्णः पलाण्डुविशेषः । काञ्जिकं प्रसिद्धम् । करखं चिरिविल्वफलम् । पुराणेऽपि-वांशं करीरं सुरसं सर्जकं भूस्तृणानि च । अवेदोक्ताश्च निर्यासा लवणान्यौपधानि च । भरद्वाजोऽपि-स्वल्पाम्बुकूष्माण्डफलं वज्रकन्दं च पिपली। शिविकानि करीराणि कोविदारगवेधुका । कुलत्थशणजम्बीरकरम्भाणि तथैव च । अब्जादन्यद्वक्तपुष्पं शिक्षारं तथैव च । एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि । इति । पैठीनसिः-वृन्ताकनालिकापोतकुसुम्भाश्मन्तकाश्चेति शाकानामभक्ष्या इति । स्मृत्यन्तरम्-पिण्डालुकं च शुण्डीरं

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560