________________
५१६
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
दयिके प्रदक्षिणमुपचार इति विरोधात् । अप्रदक्षिणत्वे तु न प्रमाणमुपलब्धम् । दक्षिणा संस्थत्वे च प्रदक्षिणं प्रमाणमस्ति । तस्मादक्षिणसंस्थमेव रेखापिण्डदानादि । तथा च कात्यायन एव --- द्वितीयं च तृतीयं च मध्यदेशाप्रदेशयोः । मातामहादिप्रभृतीनेतेषामेव वामतः । इति । एतेषां पित्रादित्रयाणां वाम इत्यर्थः । तत्र पित्रादीनां मध्ये देयत्वेन संबोध्यत्वेन च स्वसंमुखत्वाद्दक्षिणा संस्थत्वेन तेषां वामता । यत्त्वाशादित्येन पिण्डानामवयवाभावाद्वामतायां कर्तृगतोऽवयव इष्यत इत्युक्तम् । तदसंगतम् । एतेषामेव वामत इत्येतच्छब्देन पित्रादीनां परामृष्टत्वात् । कर्त्रवयवत्वे त्वेतेपामिति वहुत्वविरोधाच । तस्मादक्षिणा संस्थत्वेनैव तद्वामतासंभवः । अत्रार्थे वृद्धयाज्ञवल्क्यः -- जीवद्भर्तरि दक्षिण इति । अपि च स्मृत्यन्तरम् । श्रद्धे सदैव वामाङ्गे पत्नीनामुदकं हरेत् । वृद्धिश्राद्धेषु नारीणां दक्षिणाङ्गे सदा भवेत् इति । श्राद्धे सदैव वामाङ्ग इत्येतदापस्तम्ब्रादिविषयम् । तेषां पित्रादिपिण्डपश्चिमत एव पत्नीपिण्डविधानात् । तथा चापस्तम्बगृह्यम् - द्विधाभूतं भवति तथा सदक्षिणायान् दर्भान् लिखितदेशे संस्तीर्य तत्र पूर्वभागे पित्रादिवर्गार्थ स्तरणं पश्चाद्भागे तु मात्रादिवर्गार्थमिति । स्त्रीभ्यश्च पिण्डा इह पश्चिमाः स्युः इति तद्भाष्यार्थसंग्रहकारः । वृद्धिश्राद्धेषु नारीणां दक्षिणाये सदा भवेदिति तु सर्वविषयम् । तस्माद्रेखापिण्डदानादिकं प्राङ्मुख कर्तुर्दक्षिणा संस्थमेव वृद्धिश्राद्धेषु सर्वत्र कर्तव्यमिति सर्वमनवद्यम् । ब्राह्मणनिवेशोऽप्येवं प्रागारभ्य पश्चात्संस्थ एवेति । 'नान्दीमुखान्पितृनावाहविष्य इति पृच्छति' लिङथें लट् । अत्रैतद्वक्तव्यम् - किं पित्रादिकस्य नान्दीमुखत्वमाहोस्विवृद्धप्रपितामहादिनिकस्येति । स्मृतिषूभयथा दर्शनात् । तथा च ब्रह्मपुराणम् - पिता पितामहचैव तथैव प्रपितामहः । त्रयो ह्यश्रुमुखा एते पितरः परिकीर्तिताः । तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखै - पिणः । ते तु नान्दीमुखा नान्दी समृद्धिरिति कथ्यते । प्रसन्नमुखसंसर्गान्मङ्गलीयास्ततस्तु ते । इति । अतश्च वृद्धप्रपितामहादिकस्यैव नान्दीमुखत्वेनाभ्युदयिकत्वं प्राप्नोतीति । अथवा -- पिता पितामहचैव तथैव प्रपितामहः । पिण्डसंबन्धिनो ह्येते पितरः परिकीर्तिताः । इत्यादिवचनैरश्रुमुखानामेव पिण्ड - वन्धित्वात्पित्रादिकस्यापि नान्दीमुखत्वमिति । तथा च सूत्रम् -- नान्दीमुखाः पितरः पितामहाः प्रपितामहा इति । मार्कण्डेयोऽपि ये स्युः पितामहाद्दूर्ध्वं ते स्युर्नान्दीमुखा अपीति प्रपितामहस्यापि नान्दीमुखत्वं न वृद्धादित्रिकस्यैवेति । एवं च सत्युभयेषामपि नान्दीमुखत्वमविरुद्धम् । यच्चाश्रुमुखादिसंज्ञाकीर्तनं तत्कारणपरम् । प्रसन्नमुखसंसर्गादित्यादिना नान्दीमुखा वंशवृद्धिमीहन्ते । अश्रुमुखास्तु पित्रुरुद्धरणसमर्था सन्तमिति ब्राह्मे निरूपितत्वात् । तस्मा जीवत्पितृमातामहादिकस्य कर्तुरधिकारार्थं वृद्ध प्रपितामहादिकस्य नान्दीमुखत्वोत्कीर्तनं मृतपितृमातृमातामहादिकस्य कर्तुरधिकरार्थमश्रुमुखानां नान्दीमुखत्वमिति व्यवस्थेत्यविरोधः । तथा च चतुर्विंशतिमतम् -- नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यं समुच्चरेद्विद्वानन्यत्र पितृपूर्वकम् । जीवत्पितृकः प्रपितामहपूर्वकमन्यः मृतपितृकः पितृपूर्वकमित्यर्थः । दाक्षिणात्यास्तु - प्रपितामहपितामहपितरिति क्रमविध्यर्थमेतदित्याहुः । कात्यायनोऽपि -- जीवन्तमति दद्याद्वा प्रेतायान्नोदके द्विजः । पितुः पितृभ्यो वा दद्यात्स पितेत्यपरा श्रुतिः । ब्राह्येऽपि — उक्तमादाय पिण्डं तु कृत्वा विल्वप्रमाणकम् । दद्यात्पितामहादिभ्यो दर्भमूले यथाक्रममिति । पठन्ति च - जनन्यां विद्यमानायां यजेद्यस्तु पितामहीम् । मातृन्नः स च विज्ञेयो वृद्धिश्रद्धादृते कचिदिति । अतश्च जीवत्पित्रादिपङ्गित्रिकस्य वृद्धिश्राद्धेऽधिकार इति सिद्धम् । अत्रैक महु:-- पितृमातृमातामहानां मध्ये यो जीवति तद्वर्ग परित्यज्य पार्वणद्वयमेकं वा यथासंभवं कर्तव्यम् । त्रिषु जीवत्सु मातृपूजनमेव न श्राद्धमिति । तथा च पितृवर्गे मातृवर्गे तथा मातामहस्य च । जीवेद्यदिच वर्गादिस्तं वर्ग तु परित्यजेदिति । तथा सपितुः पितृकृत्येषु अधिकारो न विद्यते । न जीवन्तमतिक्रम्य किचिदद्यादिति श्रुतिः । तथा - पित्र्यं जीवत्पितुन तमन्ना होमोऽपि पाक्षिकः । न जीवन्तमतिक्रम्य