________________
कण्डिका ६]
परिशिष्ठम्। किंचिद्दद्यादिति श्रुतिः । इति । जीवत्पितृकस्य होमान्तमनारम्भो वेत्यादिवचनेभ्य इति । यत्तुउद्धाहे पुत्रजनने पित्र्येश्यां सौमिके मखे । तीर्थे ब्राह्मणमायाते षडेते जीवतः पितुरिति मैत्रायणीयपरिशिष्टं, तन्मैत्रायणीयशाखिनां साग्नीनामेव । न जीवल्पितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । येभ्य एव पिता दद्यात्तेभ्यः कुर्यात्तु साग्निकः । इति सुमन्तुवचनेन निरनेर्जीवपितृकस्य श्राद्धानधिकारादिति । अत्रोच्यते-~-यदुक्तं पितृवर्गे मातृवर्गे तथा मातामहस्य चेत्यादि । तन्न । जीवद्वर्गपरित्यागस्य तीर्थब्राह्मणसंपत्त्यादौ निरग्निजीवपितृकविषयत्वेन चरितार्थत्वात् । तथा चाधिकारमाह-महानदीषु सर्वासु तीर्थेपु च गयां विना । जीवत्पिताऽपि कुर्वीत श्राद्धं पार्वणधर्मवदिति । यच्चोक्तत्रिषु जीवसु मातृपूजनेनैव श्राद्धसिद्धिरिति तदप्यसंगतम् । अगिनः श्राद्धस्य लोपेऽङ्गस्य मातृपूजनस्य प्रवृत्तावाश्रयोपपत्तेः। न च श्राद्धमन्तरेण मातृपूजायाः कर्मणोङ्गत्वम्। यच्चाभ्यधायि-सपितुः पितृकृत्येष्वित्यादिनिषेधस्तस्य वृद्धिश्राद्धादन्यश्राद्धविषयत्वात् । तथा च क्रतुः-अष्टकासुच संक्रान्तौ मन्वादिपु युगादिषु । चन्द्रसूर्यग्रहे पाते स्वेच्छया पूज्ययोगतः । जीवत्पिता नैव कुर्याच्छ्राद्धं काम्यं तथाऽखिलम् । अखिलमिति व्यतीपातो जन्मनक्षं चन्द्रसूर्यग्रही तथा । तिथिनक्षत्रवारांश्च उद्दिश्याभ्युदयं तथा । एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिरित्यादिकम् । अभ्युदय आराममहादानाद्युत्सवः । यत्त्वाम्नातं- जीवपितृकः कुर्याच्छ्राद्धमग्निमृते द्विजः । इत्यनेन निरग्निजीवरिपतृक • इत्यनेन साग्निजीवपितृकस्य श्राद्धविधानम् । तस्याष्टकादिनियतश्राद्धविषयं न सामान्येन सर्व
श्राद्धविषयम् । गयापरपक्षादिश्राद्धनिषेधानुपपत्तेः । यदप्युक्तं-जीवपितृकस्य होमान्तमनारम्भो वेति तत्साग्नेः पिण्डपितृयज्ञादिनिषेधविषयं नाभ्युदायिकस्येति । तेभ्यः पूर्वतरा ये वै इत्यादिनाभ्युदयिकस्य प्रतिप्रसवोपपत्तेः । तस्मान्जीवत्पित्रादित्रिकस्याभ्युदयिकं श्राद्धं कर्तुमुचितमिति सिद्धम् । 'नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने ' अत्र नान्दीमुखान्पितृनावाहयिष्य इत्यनेनैव नान्दीमुखत्वप्राप्तौ पुनस्तहणं सर्वत्र प्रयोगार्थम् । तदुक्तम्-तत्र नान्दीमुखमिति विशेषः समुदाहृत इति । प्रकृतिश्राद्धेष्वक्षय्योदकदानं तु अर्घदानवदिष्यते । षष्ठयैव नित्यं तस्कुर्यान्न चतुझं कदाचनेति कात्यायनेन षष्ठीतत्रयोविहितत्वादन्न तनिषेधो वाचनिकः । तेन प्रथमाविभक्या तन्त्रेण चाक्षय्योदकदानमत्र क्षीरयवोदकैर्भवतीत्यर्थः । तथा च तथाऽक्षय्योदकस्थाने दद्यात्क्षीरयवोदकमिति। पितृग्रहणं स्वपितृपाप्त्यर्थम् । तेन जीवत्पित्रादिकोऽपि स्वमातृमातामहादिभ्य एव दद्यान्न पितृसंवन्धिभ्य इत्यर्थः । अत्रैक आहुः-अनग्निकोऽपि कुर्वीत जन्मादौ वृद्धिकर्मणि । येभ्य एव पिता दद्यात्तानेवोद्दिश्य पार्वणमित्यादिवचनेषु यत्तच्छब्दनिर्देशापितृभ्य एव दद्यान्न स्वपितृभ्य इति । तद्युक्तम् । स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मस्विति कात्यायनेन-प्रादुर्भावे पुत्रपुन्योर्ग्रहणे चन्द्रसूर्ययोः । स्नात्वाऽनन्तरमात्मीयान्पितॄन् श्राद्धेन तर्पयेदिति कार्णाजिनिना च स्वपितृभ्य एवं श्राद्धविधानात् । न च मातृमातामहादिकं परित्यज्य पितृसंबंधिभ्यो दातुमुचितम् । अतश्च स्वपितृभ्य एवेति सूक्तम् । 'नान्दीमुखान्पितृत्वाचयिष्य इति पृच्छति' वाच्यतामित्यनुज्ञातो नान्दीमुखाः पितरः पितामहाः नान्दीमुखाः मातामहाः प्रमातामहाः वृद्धप्रमातामहाश्च प्रीयन्तामिति । अत्र च प्रथमोद्दिष्टनान्दीमुखशब्देन वृद्धप्रमातामहादित्रिकस्यैव नान्दीमुखत्वं मा भूदित्यश्रुमुखानामपि तत्प्राप्त्यर्थे पुनर्नान्दीमुखग्रहणम् । एवं मातामहेष्वपि । अत एव मने पितरः पितामहा इति बहुत्वमुक्तम् । चकारो मातृवर्गप्राप्त्यर्थः । तथा च ब्रह्मपुराणम्-मातामहेभ्यश्च तथा नान्दीवकेभ्य एव च । अथ नान्दीमुखीभ्यश्च मातृभ्यः श्राद्धमुत्तममिति। ननु चाभ्युदयिक मातृश्राद्धस्य पूर्वभाविवापितृग्रहणं किमर्थमुच्यते । अग्निहोत्रं जुहोति यवागू पचतीति वत्पाठोऽर्थेन वाध्यत इत्यदोपः। तथा च शाट्यायन:नान्दीमुखीभ्य इत्यादि । मातृश्राद्धं तु पूर्व स्यात्पितॄणां तदनन्तरम् । ततो मातामहानां च वृद्धा