________________
कण्डिका ६ ] परिशिष्टम् ।
५१५ लयित्वा देया इति। तदयुक्तम् । शाल्यनस्य विहितत्वात् । तथा चाङ्गिराः-शाल्यन्नं मधुसंयुक्तं बदराणि यवास्तथा । मिश्राणि कृत्वा चत्वारि पिण्डाच्छ्रीफलसंमितान् । दद्यादिति । कात्यायनोऽपिसर्वस्मादन्नमुद्भत्य व्यञ्जनैरुपसिच्य च । संयोज्य यवकर्कन्धुधिभिः प्राङ्मुखस्ततः । इति । पिण्डग्रहणमपिण्डकव्युदासार्थम् । एतच्च साग्निविषयम् । तथा च निगमः-आहिताग्नेः पित्रचनं पिण्डैरेवेति । योऽग्नौ तु विद्यमाने हि वृद्धौ पिण्डान्न निर्वपेत् । पतन्ति पितरस्तस्य नरके स तु पच्यते । इति । यत्तु-पिण्डनिर्वपणं कुर्यान्न वा कर्यान्नराधिपति भविष्यवचनम् यच्च-वृद्धौ विकल्पेन पिण्डदानं बुधैः स्मृतमिति वचनम् तन्न निरग्निविषयम् । तथा च यावत्यन्नाग्निसंवन्ध उत्पन्नाग्निस्तथैव च । तावद्वृद्धिषु सर्वासु संकल्पश्राद्धमाचरेत् । संकल्पश्राद्धमपिण्डकम् । अत्र विशेष:पिण्डहीनेऽपि कर्तव्यं विकिरं पात्रपूरणम् । अग्नौकरणमधैं चेत्येतच्छ्राद्धचतुष्टयम् । वर्जने पिण्डहीनेऽपि सर्वमर्धादिकं भवेत् । कुशान्स्थाप्य स्वधां कुर्याक्षिपेदनौ जलेऽपि वेति । यत्तु-संकल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणमित्यादि तत् श्राद्धान्तरविषयमपिण्डकयथादेशकुलाचारविषयं वा । वृद्धिश्राद्धे कुलाचारदेशकालाद्यपेक्ष्य हीति भविष्यद्वाक्यशेषात् । अत्रैतच्चिन्त्यते---किमत्रावनेजनमुदकेन देयमुतान्यद्रव्येणेति । तत्रैक आहुः-तत्पात्रक्षालनेनाथ पुनरण्यवनेजयेदित्यनेन पिण्डपात्रक्षालनजलेनैवेति । अन्ये त्वाः-क्षालनोदकस्य छन्दोगविषयत्वादुदकेनैवेति । तदुभयमपि विशेषवचनानुपलब्धिनिबन्धनमित्यवधेयम् । क्षालनोदकस्य प्रत्यवनेजनविषयत्वाक्षीरेण विशिष्टविधानाश्चेति । तथा-प्राङ्मुखस्त्वथ दर्भेषु दद्यात्क्षीरावनेजनम् । दधिबदरयवमधुयुक्तं श्रीफलसंनिभम् । तथाऽझय्योदकस्थाने दद्यात्क्षीरयवोदकमिति ब्रह्मपुराणवचनात् । अतश्च क्षीरेणैवेति । पुनश्चिन्त्यते-पिण्डदानमपि किं देवतीर्थेनाहोस्वित्प्राजापत्येनेति । तत्रैक आहुः-दध्यक्षतैः सवदरैः प्राङ्मुखो वाऽप्युदङ्मुखः । देवतीर्थेन वा पिण्डान्दद्यात्कायेन वा नृपेत्यनेनोभयतीर्थस्य विहितत्वाद्विकल्प एवेति । अन्ये त्वाः-छन्दोगा देवतीर्थेन वाजसनेयिप्रभृतयः प्राजापत्येनेति । तथा च मार्कण्डेय:-नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । प्राजापत्येन तीर्थेन यच्च किंचित्प्रदीयते । इति अवानूचानाः प्रमाणम् । पिण्डोदकव्यतिरिक्तं देवतीर्थेन, पिण्डोदकं प्राजापत्येनेति व्यवस्था वा । अत्र विशेषमाह स्मृतिः-बहुमातृकपुत्रो यः श्राद्धेष्वन्वष्टकादिषु । सर्वासां नाम संकीर्त्य पिण्डमेकं स निर्वपेत् । पुराणसमुच्चये-एकस्य बहवो भार्या एकः पुत्रस्तथा यदि । एकेनापि सपुत्रास्ताः सर्वासां पिण्डदस्तु सः । वह्वीनामेकपत्नीनामेकाचे पुत्रिणी भवेत् । तेन पुत्रेण पुत्रिण्यः सर्वास्ता मनुरब्रवीत् । इति । अत्रैतत्संदिह्यते--किमर्षदाने पिण्डवदेकस्मिन्सर्वासामुद्देशः किं वा पृथगिति । तत्रैक आहुः-अर्घपिण्डाङ्गत्वेदानी प्रधानकर्मत्वानुरोधेन पिण्डवद्विधानमेवेति । तदयुक्तम् । अर्धदानस्य पृथत्त्वेनापदेशात् । तथा च गालवः-अनेका मातरो यस्य श्राद्धे चापरपाक्षिके । अर्घदानं पृथकुर्यात्पिण्डमेकं च निवपेदिति । अपरपाक्षिक इति श्राद्धान्तरोपलक्षणम् । अत्रके दाक्षिणात्याः-वृद्धिश्राद्धेषु प्रपितामहमारभ्यावाचीनं पिण्डदानादि प्रयोगमाचरन्ति । नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यं समुच्चरेद्विद्वानन्यत्र पितृपूर्वकमिति वचनादिति । तदनुचितम् । नान्दीमुखाः पितरः पितामहाः प्रपितामहाः श्राद्धकर्मणि । तस्माच्छ्राद्धेषु सर्वेषु वृद्धिमत्स्वितरेषु च । मूलमध्यानदेशेषु ईपरसक्तांश्च निर्वपेदिति । उत्तरोत्तरपुत्रपौत्रादिभिः समृतः । अधराणामग्रमध्यमूलक्रमेणाधोदानेनाधरः पुत्रादिमिहींनो भवेदित्यर्थः । तस्मादत्र शाखायां तन्नोचितमिति । यत्तु नान्दीमुखे विवाहे चेति वचनं तदन्यशाखिविषयं देशकुलधर्मादिविपयं वेत्यर्थः । अत्रैतचिन्त्यते-वेदिकायां रेखात्रयं पिण्डदानं च किमुदक्संस्थं कर्तव्यमुत दक्षिणासंस्थमिति । अत्रैक आहुः-अप्रदक्षिणत्वेऽपि अस्य श्राद्धस्य दैविकत्वादुदक्संस्थमेवेति । तद्युक्तम् । आभ्यु