________________
५१४ पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रदिद्रव्योपलक्षको न समूलत्वज्ञापकः । तेनात्र दुर्वासाहचर्यादमूला ऋजुर्भा भवन्तीत्यर्थः । तथा च पुराणसमुचये-दधिदूर्वाक्षतमधुरान्नमित्रैः । अनुलेपनगन्धादि रक्तसूत्रं च शस्यते । वृद्धिश्राद्धमदैवतं स्यादुत सदैवतमिति । उभयथापि स्मृतिदर्शनात् । तथा हि-विष्वप्येतेषु युग्मांस्तु भोजयेब्राह्मणाञ्छचिः । प्रदक्षिणं तु सत्येन प्रदद्यादेवपूर्वकमिति । मार्कण्डेयोऽपि-वैश्वदेवविहीनं तत्केचिदिच्छन्ति सूरयः । इति । तदाभ्युदयिकम् । अत्रैक आहुः यथाशाखं व्यवस्थेति । एवं च सति तत्रापि किं श्राद्धत्रयेऽप्यविशेषेण देवतविकल्पः किं वा श्राद्धविशेष इति संदेहः । अत्राविशेषेणैव श्राद्धत्रयेऽपीत्येके । तदद्यम् । श्राद्धविशेषे अदैवस्य विकल्पितत्वात् । तथा च शातातपः-नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च।मातृश्राद्धं तु युग्मे स्याददेवं प्राड्मुखैः पृथक् । केवलमित्यर्थः। आचारतिलकेऽपि-पितरोऽन्वष्टकाश्राद्धं माता भुंक्त सदैवतं । वृद्धावदैवतं माता पितरश्च सदैवतमिति । तस्मान्मातृश्राद्ध एवादैवत इति विकल्प इति सिद्धम् । तथाच-आन्वष्टक्ये पितृभ्यश्च तस्त्रीभ्यश्च सदैवतम्। ताभ्यस्त्वदैवतं वृद्धौ तेभ्यश्चैव सदैवतमिति । यतु निष्वप्येतेष्विति वचनम् तहादशदेवत्यापेक्षयाऽन्यनवदेवत्येऽप्युपपद्यते इत्यविरोधः । 'यवैस्तिलार्थः अर्थः प्रयोजनम् । प्रतिनिध्युपलक्षणं चैतत् । तेनयवैस्तिलप्रतिनिधिर्यथा तथा स्वधादिपदेषु स्वाहादिपदानि प्रतिनिधातव्यानीत्यर्थः । तथा चेश्वरः-- कुर्यात्स्वाहा स्वधास्थाने वाचने प्रीयतामिति । वृद्धिाद्धेषु सर्वत्र नमो मे वृद्धिरिष्यत इति । न च यवैस्तिलार्था इति वदता यवप्रक्षेपमन्त्रोऽपि पितृपात्रेयु स्यादित्युक्तम् । तिलार्थस्यैव यवैरुपदिष्टत्वान्न मन्त्रस्येति । तिलोऽसीति प्रत्यक्षविरुद्धत्वाञ्च । अतश्च तिलोऽसीति मन्त्रे एव यवोऽसीत्यादिपदक्षेपः पितृपात्रेष्वपीति । तथा चाश्वलायनः—यवोऽसि सोमदेवत्यो गोसवो देवनिर्मितः । प्रलमद्भिः पृक्तः पृष्टा नान्दीमुखान्लोकान्प्रीणाहि नः स्वाहेति । पुराणसमुच्चयेऽपि-अस्मच्छब्दं न कुर्वीत आद्धे नान्दीमुखे कचिदिति । अत्रके वृद्धिश्राद्धे पित्रर्घपात्रं न्युजमित्याहुस्तद्विशेषवचनानवलोकननिवन्धनमित्युपेक्षणीयम् । तथा चेश्वरः-अपसव्यं पित्र्यमन्त्रा वामजानुनिपातनम् । न्युजपात्रं न कर्तव्यं वृद्धिश्राद्धेषु सर्वदा । वसिष्ठोऽपि-दत्त्वा पिण्डान्न कुर्वीत पिण्डपात्रमधोमुखमिति । तथा गुडधूपं प्रयत्नेन पुष्पाण्येवोत्तमानि चेति । 'संपन्नमिति तृप्तिप्रश्नः' तृप्ताः स्थेत्यत्र संपन्नमिति वदेदित्यर्थः । साकाङ्कत्वात्सुसंपन्नमिति प्रतिवचनम् । एतच्च पाकश्राद्ध एव नामे । तत्रैतद्सम्भवात् । तथा च आमश्राद्धमनङ्गुष्ठमग्नौकरणवर्जितम् । तृप्तिप्रश्नविहीनं तु कर्तव्यं मानवैध्रुवम् । इति । विहितं च विकल्पेनामश्राद्धम् । तथा च याज्ञवल्क्यः -आमश्राद्धं प्रकर्तव्यं वृद्धौ नान्दीमुखे सदा । पाकेन वा बहि:शाले सोदनं वदरं दधीति । अत्र यथाकुलं यथासम्भवं वा विकल्पः । अत्रैवचिन्त्यते-किमामश्राद्धे पिण्डदानमामेन कार्यमुत पाकेनेति । तत्रैक आहुः-आमश्राद्ध यदा कुर्याद्विधिज्ञः श्राद्धदुस्तदा । तेनानौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् । यत्प्रयाद्विजातिभ्यः शृतं वा यदि वाऽमृतम् । तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेदिति मत्स्यपुराणव्यासवचनाभ्यामामेन विहितत्वादामेनैवेति । तद्युक्तम् । आमश्राद्धं यदा कुर्यात्पिडदानं कथं भवेत् । गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वेति पाकेन विहितत्वात् । एवं तर्हि विकल्पोऽस्त्विति । न । व्यवस्थासंभवेष्टदोषदुष्टत्वात् । तस्माद्विजकर्तृके पाकेन शूदकर्तृके आमेनेति व्यवस्थेत्यन्ये । तन्नातीव शोभते । साग्निनिरग्न्योर्विपयानन्यवसायापत्तेः । तस्मात्साग्नेः पाकेनानौकरणं पिण्ड निरग्नेरामानेनेति व्यवस्था । अथवा यथाकुलमिति । यच्च आमेन पिण्डान्दद्यात् यो विप्रान्पक्केन भोजयेत् । पक्वेन कुरुते पि. ण्डान्विप्रेष्वाम प्रयच्छति । तावुभौ मनुना प्रोक्तौ नरकाहौँ न संशयः । तस्माद्विपर्यय विद्वान्न कुयोंच्छाद्धकर्मणीति । तच्छ्राद्धान्तरविषयम् । 'दधिवदराक्षतमिश्राः पिण्डा' अक्षता यवाः । मिश्रणं मिश्रादध्यादिनिर्मिश्रितोदनेन पिण्डा देया इत्यर्थः । वहुव्री[पलब्धेः। अत्रैक आहुः दध्यादित्रयमेव मे.