________________
कण्डिका ६] परिशिष्टम् ।
५१३ कर्तुमर्हन्ति ते सर्व पारस्करमुनीरितमिति । परेषां करोतीति हि व्युत्पत्तेः । अतश्च गौर्यादय एवात्र शाखायामिति । तत्प्रकारमाह स एव-प्रतिमासु च शुद्धासु लिखित्वा वा पटादिषु । अपि चाक्षवपुजेपु नैवेद्यैश्च पृथग्विधैरिति । शुद्धासु रजतादिधातुमयीषु । अक्षतपुजा यवमुष्टयः । यथासम्भवं यथाकुलं च विकल्पः । व्यवस्थितविकल्पो वा । जातकर्मणि वालानां नामाह्वयनकर्मणि । निरीक्षणे प्राशने चयवस्थं मातृपूजनमिति वचनात् । अत एव पृथग्विधैरित्युक्तम् । गन्धताम्बूलववादिश्वशब्दार्थः। तथा कुड्यलग्ना वसोर्धारां सप्तधारां धृतेन तु । कारयेत्पंचधारां वा नातिनीचां न चोच्छ्रिताम् । कारयेदिति स्वार्थेणिच् । स्वकर्तृत्वानियमार्थों वा । नातिनीचां न चोछितामिति मातृसंमितामेव न तासामध अवं वाधिकामित्यर्थः । कालमाह-पूर्वाहे श्राद्धं कुर्यादिति शेषः । एतच्च सकलं दैवधर्मोपलक्षणम् । तेनोपवीतिप्रागुड्मुखदक्षिणजानुपातदेवतीर्थप्रागुदक्संस्थाननमस्कारादिदेवधर्मः सर्वोत्र प्राप्नोतीत्यर्थः । तथा च प्रचेताः-अपसव्यं न कुर्वीत न कुर्याद्प्रदक्षिणम् । प्राङ्मुखो देवतीथेन क्षिप्रं देशविसर्जनम् । दक्षिणं पातयेजानु देवान्परिचरेत्सदा । निपातो नहि सव्यस्य जानुनो विद्यते कचित् । यथैवोपचरेदेवांस्तथा वृद्धौ पितॄनपि । दध्यक्षतैः सवरैः प्राङ्मुखोदुङ्मुखोऽपि वा । तथा-पूर्वाहे दैविकं श्राद्धमपराहे तु पैतृकम् । एकोदिष्टं तु मध्याह्ने प्रातद्धिनिमित्तकम् । इति । दैविकं द्वादश्यादिषु वैष्णवम् । तथा च विश्वामित्रः-देवानुद्दिश्य क्रियते यत्तु दैविकमुच्यते । तन्नित्यश्राद्धवत्कुर्याहादश्यादिपु यत्नतः । इति । ननु च प्रातद्धिनिमित्तकमित्यनेन प्रातरेवास्य विहितत्वात्कथं पूर्वाह इति । उच्यते-प्रातःशब्देन पूर्वाहस्यैवोक्तत्वात् इति वक्ष्यमाणत्वात् । एवं च सति पूर्वाहः किं द्वेधा विभक्तेऽह्नि आद्यः किं त्रेधा विभागाद्वा । उच्यते-देवमानुषपित्र्यकालापेक्षया विभागौचित्यात्रिधा विभाग एव ग्राह्य इत्यदोषः। तथा च श्रुतिः--पूर्वाहो देवानां मध्यंदिनं मनुध्याणामपराह्नः पितृणामिति । नन्वेवमपि श्रृंतिरेव पुनरह्नः पूर्वाहो देवा अपराहः पितर इति द्विधैवाह, तत्कथं त्रिधा विभाग एवेति । मैवम् । सामान्येनास्याः श्रुतेराभ्युदयिकादन्यपित्र्यविषयत्वात् । यत्तु पितृनप्यत्र देववदित्यतिदेशेन प्रागावर्तनादः कालं विद्यादिति गोभिलसूत्रेण च द्विधा विभागेन मध्याह्रोऽभिहितः स पाकयज्ञादिदैवकर्मविषयः । अन्यथाऽपराहे पाकयज्ञसंभवात् । तस्मात्रिभाग एव ग्राह्य इति सिद्धम् । तथा च गाय:- ललाटसंमिते भानौ प्रथमः प्रहरः स्मृतः । 'स एवाद्धयर्धसंयुक्तः प्रातरित्यभिधीयते । अध्यधमधिकार्ध सार्धप्रहर इत्यर्थः । अग्न्याधानाभ्युदयिके तु गालवः-पार्वणं चापराहं तु वृद्धिश्राद्धं तथाग्निकमिति । अग्न्याधाननिमित्तमपराह इत्यर्थः । 'पित्र्यमन्त्रवर्ज जपः । मधुमतीपितृसंहितयोरुपलक्षणं चैतत् । तथा च मनुकात्यायनौ-मधुव्वाते जपस्थाने कुर्यात्तत्र प्रयत्नतः । उपास्मै गायतेत्यादि ऋचः पञ्च जपेत्तथा । मधुमध्विति यस्तत्र त्रिर्जपोशितुमिच्छताम् । गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्जितः। न चामत्सु जपेदन कदाचित्पितृसंहिताम् । अन्य एव जपः कार्यः सोमसामादिकः शुभः । इति । पित्र्यमन्त्रा अग्नत्सु जपेदित्यत्रोक्तास्तान्वर्जयित्वा जपः कर्तव्य इत्यर्थः । अत्र जपत्वाविशेपादुशन्तस्त्वायन्तु न इत्यादीनामपि प्रतिषेध इति केचित् । आवाहनार्थत्वादनयोन प्रतिषेध इत्यन्ये । एवं च सति-ब्राह्मणानामग्निस्थानीयवातच्छरीरवर्तिपित्रावाहनस्य मन्त्रेणैवोचितत्वाच विधिरेव युक्तः । अन्यथा मन्त्रक्रियाणाममन्त्रफत्वेनाफलत्वापत्तेः । अत्रैतचिन्त्यते--किं वस्वादिप्रयोगः कर्तव्य उत नेति । अत्र शेपं पार्वणवदित्यतिदेशेन प्राप्नोतीति । तद्युक्तम्-पितॄणामप्यत्र देवरूपत्वात् । तथा च स्मृतिः-पितॄणां रूपमास्थाय देवा अन्नमदन्ति ते । तस्मात्सव्येन दातव्यं वृद्धिपूर्वेपु दातृभिः । नान्दीमुखेति प्रयोगस्य तत्प्रतिनिधिरूपत्वाच्च । तथा युक्तम्-तत्र नान्दीमुखमिति शेपः समुदाहृतः । अपि च चतुर्विंशतिमते-नान्दीमुखमिति शपः संपादितो नान्य इत्यर्थः । 'ऋजवो दर्भाः' दर्भशब्दोऽत्र दूर्वा
६९