________________
५१२ पारस्करगृह्यसूत्रम।
[श्राद्धसूत्र(श्राद्धका० )-इत्यं पार्वणैकोद्दिष्टसपिण्डनश्राद्धेप्वप्रदक्षिणादिधर्मानुपदिश्येदानी स्त्रीकृतत्वेन तद्विपरीतप्रदक्षिणादिधर्मान्प्रतिपिपादयिपुराभ्युदयिकश्राद्धमारभते ' आभ्युदयिक प्रदक्षिणमुपचारः' अभ्युदयो वृद्धिः इत्यनान्तरम् । अग्न्याधानाभिपेकादाविष्टापूर्ते स्त्रिया ऋतौ । वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथेति वृद्धगार्ग्यवचनात् । आदिगन्दः पुत्रजन्मविवाहाद्यर्थः । तथा च स एव-पुत्रोत्पत्तिप्रतिष्ठासु तन्मासीत्यागबन्धने । चूड़ायां च विवाहेपु वृद्धिश्राद्धं विधीयते । इति । ननु च नान्दीमुखं कर्माकं चेति संज्ञामदात्कथमाभ्युदयिक वृद्धिश्राद्धमिति । उच्यते-वृद्धिश्राद्धमेव नान्दीमुग्वमिति, संनाभेदः प्रयोगविशेषणार्थः । तथा च वृद्धवसिष्ठःपुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् । तत्र नान्दीमुखमिति विशेषः समुदाहृत इति । यत्तु कर्माङ्गमिति संज्ञान्तरं तदपि वृद्धिधर्मातिदेशन तद्रूपमेव संज्ञामदेऽपीत्यविरोषः । तथा च पारस्करः-निपेककाले सोमे च सीमन्तोन्नयने तथा । क्षेयं पुंसवने श्राद्ध कर्माचं वृद्धिवत्कृतम् । लौगाक्षिरपि-नामानचौलगोदानसोमोपनयपुंसवे । स्नानदानविवाहेपु नान्दीश्राद्धं विधीयते इति । अत्राभ्युदयिक इति वदता मातृस्थापनाद्यङ्गेपु प्रागुदक्संस्थतैवोक्ता दैविक्रत्वादिति गम्यते । अतएव प्राङ्मुखस्य कर्तुरुदक्संस्थतायामप्रादक्षिण्यमपि स्यादित्याहुः । तत्रापि प्रादक्षिण्यमेवेत्युदड्मुखस्यैव कर्तृत्वमित्यन्ये । अवानूचानाः प्रमाणम् । अत्रैतञ्चिन्त्यते-किं वृद्धिश्राद्धं दिनत्रये कार्यमुतैकदिन एवेति । तत्रैक आहुः-एकस्मिन्कर्माह एवेति । मातृभ्यः प्रथमं दद्यापितृभ्यस्तदनन्तरम् । ततो मातामहेभ्यश्च वृद्धौ श्राद्धत्रयं स्मृतम् । इति वचनादिति । तद्युक्तम् । अस्यापि त्रिदिनविधायकत्वप्रतिभानात् । तथा च स्मृतिः-मातृश्राद्धं तु पूर्वेद्यः कर्माहत्येव पैतृकम् । मातामह्यं चोत्तरेयुर्वृद्धौ श्राद्धत्रयं भवेत् । वसिष्ठोऽपि-पूर्वेद्युर्मातृकं श्राद्ध कर्माहे पैतृकं तथा । उत्तरेयुः प्रकुर्वीत मातामहगणस्य विति । नन्वेकदिनकरणं दिनत्रयाशक्तौ कर्माहे वेदितव्यमिति चेत् तदपि न । तत्रापि पूर्वेयुरेव विहितत्वात् । तथा च-पृथग्दिनेष्वशक्तश्चेदेकस्मिन्पूर्ववासरे । श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तांत्रिकमिति । तान्त्रिकमित्येकदिने विशिष्टविधिः । वृद्धमनुरपि-अलामे भिन्नकालानां नान्दीश्राद्धत्रयं बुधैः। पूर्वेयुरेव कर्तव्यं पूर्वाहे मातृपूर्वकमिति । यत्त्वेकदिन एवात्राचरन्ति तद्वचनादर्शननिबन्धनमित्यवधेयम् । जातकर्मादिविपयं वेत्यविरोधः । पठन्ति च-पुंसवने च सीमन्ते अन्नचौलोपनायने । गोदाने स्नान उद्वाहे नान्दीश्राद्धं पुरोहितम् । इति । अतश्चाविहितेपु पूर्वेधुरेवेति । तत्राकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः । इत्यादिवचनान्मातृपूजनस्य श्राद्धे पूर्वभागित्वात्तत्पूजने विरुद्धानीव वाक्यानि दृश्यन्ते । तत्र परिशिष्टम्-गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः । धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिका ह्येता वृद्धौ पूज्याश्चतुर्दशेति । चतुर्विंशतिमते तु-ब्रह्माण्याद्यास्तथा सप्त दुर्गाक्षेत्रगणाधिपाः । वृद्धौ वृद्धौ सदा पूज्याः पश्चान्नान्दीमुखान्पितन् । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथैन्द्री च चामुण्डा देवमातरः । तिस्रः पूज्याः पितुः पक्षे तिस्रो मातामहे तथा । इत्येता मातरः प्रोक्ता पितृवसावमीति(?) । अत्र यथाशाखं यथाजातिकुलं वा व्यवस्थेत्यविरोधः । तथा चतुर्विशतिमते-श्राद्ध आभ्युदये प्राप्ते देवतास्थापनं स्मृतम् । जातिधर्मकुलश्रेणि लोकानां वृद्धिकारकमिति । तत्र माध्यदिनशाखायामनुक्तत्वात्कि छन्दोगोक्तं कार्यमुतान्यस्मृत्युक्तमिति संदेहः । तत्रैक आहुः-परोक्तत्वात् यत्किचिदिच्छयेति । तथा च संग्रहकारः-सर्वेपामपि पक्षाणां स्वगृह्योक्तं विधीयते । स्वगृह्योक्तस्य चाभावे ग्रहणं स्वेच्छया भवेदिति । तद्युक्तम् । सूत्रपरिशिष्टयोरेककर्तृकत्वात्तस्यान्यशाखिविषयत्वात्पारस्करमतस्याश्रयणीयत्वाच । तथा च स्मृतिसंग्रहः- गृह्यादिस्मृतियेषां श्राद्धादावुपलभ्यते ।