________________
कण्डिका ६]
परिशिष्टम् । इत्यन्तं पठेत् । ततः कर्मार्थ जलाभिमन्त्रणं, यद्देवा इति तिमृभिनम्भिः । ततः पाकमोक्षणम् । दुष्टदृष्ट्यादिशूद्रसंपर्कदोषाः पाकादीनां पवित्रताऽस्त्विति । देशकालपाकपात्रद्रव्यश्राद्धसंपदस्तु । अद्येत्यादि देशकालौ स्मृत्वा अमुकगोत्राणां मातृपितामहीप्रपितामहीनां नान्दीमुखीनां, तथाऽमुकगोत्राणां पितृपितामहप्रपितामहानां नान्दीमुखानां युग्मरूपाणां तथाऽमुकगोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां नान्दीमुखानां युग्मरूपाणां पार्वणत्रयविधिना आभ्युदयिकं श्राद्धमहं करिष्ये । सत्यवसुसंज्ञकानां विश्वेषां देवानामिदमासनम् । हस्तप्रक्षालनम् । उपग्रहविष्टः । गोत्राणां मातृपितामहीप्रपितामहीनां नान्दीमुखीनामिदमासनम् । हस्तप्रक्षालनमुपग्रहविष्टः । गोत्राणां पितृपितामहप्रपितामहानां नान्दीमुखानामिदमासनम् । हस्तप्रक्षालनमुपग्रहविष्टः । गोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानां नान्दीमुखानामित्यादि । सत्यवसुसंज्ञकान्विश्वान्देवानावाहयिष्ये । आवाहयेत्यनुज्ञातो 'विश्वेदेवास' इत्यावाहयेत् । ततो यवैरवकीर्य 'विश्वेदेवाः शृणुतेमम् । इति जपेत् ॥ 'आगच्छन्तु० भवन्तु ते । इति पठेत् । गोत्राः मातृपितामहीप्रपितामहीः नान्दीमुखीः आवाहयिष्ये । आवाहयेत्यनुज्ञातः 'उशन्तस्त्वा' इत्यनया आवाहयेत् । ततो यवैरवकीर्य ' आयन्तुनः' इति जपेत् । गोत्रान्पितृपितामहप्रपितामहान् नान्दीमुखानावाहयिष्ये । आवाहयेत्यनुज्ञात उशन्तस्त्वेत्यावाहयेत् । यवैरवकीर्य ' आयन्तुन ' इति जपेत् । गोत्रान्मातामहप्रमातामहवृद्धप्रमातामहान्सपत्नीकान्नान्दीमुखानावाहयिष्ये । आवाहयेत्यनुज्ञात आवाहनावकिरणजपाः पूर्ववत् । ततोऽर्घपूरणम् ' शन्नोदेवीः' इत्यनेन । ततो यवावपनम् । यवोऽसि सोमदेवत्य इति । इदमत्र चन्दनं पुष्पं च । अर्घ गृहीत्वा “ यादिव्या " इतिमन्त्रेण सत्यवसुसंज्ञका विश्वेदेवा एष वोऽर्घ इति दद्यात् । या दिव्या इति पठित्वा अमुकगोत्रा मातृपितामहीप्रपितामह्य एप वोऽर्घ इति । एवं सर्वत्र । प्रथमे पात्रे संत्रवान्समवनीय पितृभ्यः स्थानमसीति न्युन्जं पात्रं करोति । ततो गन्धपुष्पधूपदीपवाससां च प्रदानम् । सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहेति दत्त्वा । गोत्राभ्यो मातृपितामहीप्रपितामहीभ्यो नान्दीमुखीभ्यो यथादत्तबन्धाद्यर्चनम् । गोत्रेभ्यः पितृपितामहप्रपितामहेभ्यो नान्दीमुखेभ्यो यथादत्तं गन्धाधर्चनम् । गोत्रेभ्यो मातामहप्र० भ्यो० नान्दी० भ्यो यथाद० । आचमनम् । उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति । कुरुष्वेत्यनुज्ञातस्ततो मेक्षणेनाहुती जुहोति । अग्नये कव्यवाहनाय स्वाहा, सोमाय पितृमते स्वाहेति । निरनिकस्तु विप्रपाणौ जले वा कुर्यात् । हुतशेपं दत्वा पात्रमालभ्य जपति “पृथिवी ते पात्रं० स्वाहेति । इदं विष्णुर्वि० सुरे इत्यङ्गुष्ठमन्नेऽवगाह्य " अपहता" इति यवान्विकीर्य । एवं सर्वत्र उष्ण स्विष्टमन्नं दद्याच्छक्त्या वा। ततः पिन्यमन्त्रवर्ज जपः । अन्नप्रकिरणम् । आचमनम् । सकृत्सकद्राह्मणेभ्य उदकदानम् । ततः सप्रणवां गायत्री मधुव्वाता इति तृचं च पठेत् । ब्राह्मणाः संपन्नमिति तृप्तिप्रश्नः । सुसंपन्न मिति प्रतिवचनम् । शेषमन्नमप्यस्ति । इष्टैः सह मुज्यताम् । अपहता इत्युच्छिष्टसमीपे उल्लेखनम् । उदकोपस्पर्शनम् । साग्निकस्योल्मुकनिधानम् । अवनेजनम् । सकृदाच्छिन्नास्तरणम् । पिण्डदानम् । दुधिवदराक्षतमिदं यथोक्तम् । अत्र पितर इत्युक्त्वोदड्मुख आस्ते, आतमनात् । आवृत्त्यामीमदन्तेति जपः । ततोऽवनेजनम् । नीवीविसर्गः । नमोव इति पडलिकरणं घोरशोपवर्जम् । एतद्व इति सूत्रदानम् । पिण्डानामभ्यर्चनादिनैवेद्यान्तम् । आचमनम् । ततः सुप्रोक्षितादि ऊर्जमित्युदकनिषेकान्तम् । नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्योदकदानम् । तत ऊर्जमित्युदकनिपेकान्तं स्वधावाचनवम् पात्रोत्तानकरणम् । ततो दक्षिणादानादिगृहप्रवेशनान्तम् ॥ ६॥
इति नवकण्डिकागदाधरभाध्ये भाभ्युदयिकाद्धप्रयोगः ।।