________________
५१०
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
इत्ययम् । उदीरतामिति त्रयोदशचे पित्र्यमिति पित्र्यमन्त्रसंज्ञा तस्यैव श्रवणात् । 'ऋजवो दर्भाः' अत्र ऋजवो दर्भा भवन्ति न द्विगुणा: ' यवैस्तिलार्थाः ' अत्र तिलार्थाः सर्वे यवैः कार्याः । तत्र मन्त्रेऽपि rasसीत्यूहः कार्यो मुख्यद्रव्याभिधायकत्वात् । ' संपन्नमिति तृप्तिप्रश्नः' तृप्ताः स्थेति पृच्छतीत्यत्र तृप्ताः स्थेत्यस्य स्थाने संपन्नमित्ययं प्रश्नो भवति । तथा च छन्दोगपरिशिष्टे - संपन्नमिति तृप्ताः स्थप्रश्नस्थाने विधीयते । सुसंपन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् इति ।' सुसम्पपिण्डाः ' दना वदरीफलैरक्षतैश्व मिश्राः पिण्डा अत्र देया: । ' नान्दी 'पृच्छति' व पितॄनावाहयिष्य इत्यस्य स्थाने नान्दीमुखान्पितनावाहयिष्यइत्ययं प्रश्नो भवति । 'आवा स्थाने' प्रयोगो भवतीति शेषः । 'नान्दी "पृच्छति' पितॄन्वाचयिष्यइत्यस्य स्थाने इत्यर्थः । C वाच्यता'‘प्रीयन्तामिति । द्विजैर्वाच्य तामित्यनुज्ञातो नान्दीमुखाः पितर इत्यादिप्रीयन्तामित्यन्तं पठेत् । 'न स्वधां प्रयुञ्जीत ' स्वधोच्चारणन्न कुर्यादित्यर्थः । ‘युग्मानाशयेदत्र ' अत्रास्मिन्नाभ्युदयिके युग्मान्त्राह्मणान्भोजयेत् । इति नवafusकागदाधरभाष्ये पष्ठी कण्डिका ॥ ६ ॥
॥ * ॥
॥ ॐ ॥
11 11
अथ प्रयोगः । तत्र पूर्वं देशकालौ स्मृत्या अमुकनिमित्तं मातृपूजापूर्वकं बसोर्द्धारा पूर्वकं च नान्दीश्राद्धमहं करिष्य इति संकल्पः । ततः क्षालितैः शुक्लतण्डुलैः पीठस्योपरि गौर्यादिपोडशमातृः स्थापयेत् । तद्यथा ॐ भूर्भुवः स्वः गणपतिं स्थापयामि । एवङ्गौरीं स्थापयामि, पद्मां, शचीं, मेधा, सावित्रीं, विजयां, जयां, देवसेनां; स्वधां स्वहां, मातृः, लोकमातः, धृर्ति, पुष्टिं तुष्टिम्, आत्मनः कुलदेवतां, स्थापयामि । तत आसां मनोजूतिरिति प्रतिष्ठापनं च । ततः पूजा, गणपतिसहितपोडशमातृभ्यो नमः गन्धं समर्पयामि । पुष्पं धूपं नैवेद्यं ताम्बूलं दक्षिणाः । गणपतिसहितानां पोडशमातृणां पूजनविधेर्यन्यूनं यदतिरिक्तं तत्परिपूर्णमस्तु । इति मातृपूजनम् ॥ ॥ अथ वसोर्द्धारा पूजनम् । द्रवीभूतं घृतं गृहीत्वा कुड्यादिपु वसोः पवित्रमसीति धाराः पञ्च सप्त वा उदक्संस्थाः कुर्यात् । मनोजूति - रिति प्रतिष्ठापूर्वकं वसोर्द्धारा देवताभ्यो नम इति पश्चोपचारैः पूजयेत् । इति वसोर्द्धाराकरणम् । अथ नान्दीश्राद्धम् । तच्च यथाकुलदेशाचारेण सपिण्डकमपिण्डकं वा कार्यम् । तदुक्तं भविष्यपुराणे, पिण्डनिर्वपणं कुर्यान्न वा कुर्याद्विचक्षणः । वृद्धिश्राद्धे कुलाचारो देशकालाद्यवेक्ष्य हि ॥ अपिण्ड - केऽग्नौकरणादीनामपि निषेधः । तथाहि, अग्नौकरणमर्घ चावाहनं चावनेजनम् । पिण्डश्राद्धे प्रकुर्वीत पिण्डीने निवर्तते । पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते । स्वधावाचनलोपोऽस्ति विकिरस्तु न लुप्यते । अक्षय्यं दक्षिणा स्वस्ति सौमनस्यं यथास्थितमिति ॥ ॥ तच सपिण्डकमाभ्युदयिकं लिख्यते । आचमनम् प्राणायामः वैश्वदेवार्थे मात्राद्यर्थे पित्राद्यर्थे सपत्नीकमातामहाद्यर्थे च द्वौ द्वौ विप्रौ युग्माः शक्तितो भोज्याः । अमूला ऋजवो दर्भाः । यज्ञोपवीती प्राङ्मुखो दद्यात् । तिलार्थे यवाः । नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवा एतद्वः पाद्यम्पादावनेजनं पादप्रक्षालनम् एपोऽर्घः इदमत्र चन्दनं पुष्पं च । अमुकगोत्राः मातृपितामहप्रपितामहाः नान्दीमुख्यः एतद्वः पाद्यम् पादावनेजनं पादप्रक्षालनम् । एष वोऽर्घः इदमत्र चन्दनं पुष्पम् | अमुकगोत्राः पितृपितामहप्रपितामहाः नान्दीमुखाः युग्मरूपाः एतद्वः पाद्यं पादावनेजनं पादप्रक्षालनम् । एप वोऽर्घः इदमत्र चन्दनं पुष्पम् । अमुकगोत्राः मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखा युग्मरूपा एतद्वः पाद्यं पादावनेजनं पादप्रक्षालनम् । एष वोऽर्घः इ० । तत आचमनं दिग्बन्धनम् | अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । तथा वर्हिपदः पान्तु याम्यां ये पितरस्तथा । प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः । ऊर्ध्वतस्त्वर्यमा रक्षेत्कव्यवाडनलोऽप्यधः । रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः । सर्वतश्चाधिपस्तेपां यमो रक्षां करोतु मे । तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् । पति वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः । निहन्मि सर्व यदमे - ध्यवदित्यादि सर्वे इत्यन्तेन मन्त्रेण नीवीबन्धनम् । श्राद्धभूमौ गयामित्यारभ्य गयायै नमः