________________
इण्डिका ६] परिशिष्टम् ।
५०९ मिश्राः पिण्डा नान्दीमुखान पितॄनावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्यस्थाने नान्दीमुखान् पितृन्वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातो नान्दीमुखाः पितरः पितामहाः प्रपितामहा मातामहाः प्रमातामहा वृद्धप्रमातामहाश्व प्रीयन्तामिति न वधां प्रयुञ्जीत युग्मानाशयेदन ॥ ६॥
(कर्कः)-आभ्यु' 'चारः' इति । पुत्रजन्मादावभ्युदये यच्छ्राद्धं तदाभ्युदयिकमुच्यते तत्र प्रदक्षिणमुपचारः । प्रदक्षिणग्रहणात् यज्ञोपवीतिना प्राक्संस्थमुदक्संस्थं वा प्राङ्मुखेन वा कर्तव्यतादि भवेत् । 'पूर्वाहे' नापराहे । 'पित्र्य' 'जपः । स चायमनसु यः पितृमन्त्रजपः स प्रतिपिध्यते नत्वायन्तुन इत्ययम् , पित्र्यमन्त्र इति संज्ञाशब्दत्वात् । अस्य च जपा(?)वाहनार्थत्वात् । 'ऋजवो दर्भाः' पित्र्ये द्विगुणाः प्राप्नुवन्ति ते च प्रतिषिध्यन्ते जवः प्रत्येतव्याः। 'यवस्तिलार्थाः। यस्तिलार्थः स सर्वो यवैः कर्तव्यः । तदन्न द्रव्याभिधायकत्वात् तन्मन्त्रो यवोसीति यथार्थमूहितव्यः । 'संपन्नमिति तृप्तिप्रश्नः । तृप्ताः स्थेत्यस्य स्थाने संपन्नमित्ययं प्रश्नो भवति । 'दधिवदराक्षतमिश्राः पिण्डाः' दधिवद्राक्षतमिश्रेणान्नेन पिण्डा देयाः। नान्दी 'य्यस्थाने ' अक्षय्योदकस्थाने नान्दीमुखाः पितरः प्रीयन्तामिति प्रयोगो भवति । 'नान्दी "प्रीयन्तामिति नान्दीमुखान् पितॄन् वाचयिष्य इति पृच्छति वाच्यतामिति ब्राह्मणैरनुज्ञातो नान्दीमुखाः पितर इतीमं मन्त्रमुदाहरेत् । 'न स्वधां प्रयुक्षीत' स्वधोदाहरणप्रतिषेधात् , तत्सारूप्यात् नान्दीमुखान् पितन् वाचयिष्य इति तत्स्थाने प्रयोगः कर्तव्यः । तत्र केचित्स्वघोदाहरणप्रतिषेधात् अस्तु स्वघेत्युच्यमान इति चोपदेशात्कुशेष्वपां निषेकं नेच्छन्ति । तद्युक्तम् । मन्त्रनिषेकयोः शेषशेषित्वाभावात् । तस्मात्तस्मिन् काले निषेक इति । 'युग्मानाशयेदत्र ' आभ्युदयिके युग्मानाशयेदिति ॥६॥
(गदाधरः)-वृद्धिप्राद्धमाह 'आभ्युदयिके प्रदक्षिणमुपचारः ' पुत्रजन्मविवाहादौ अभ्युदये यच्छ्राद्धं तदाभ्युदयिकशब्देनोच्यते । तत्र प्रदक्षिणमुपचारः । प्रदक्षिणग्रणेन यज्ञोपवीतिना प्राक्संस्थमुदक्संस्थं वा प्राड्मुखेन वा कार्यमिति लभ्यते । शातातपः, अनिष्वा पितृयज्ञेन वैदिकटिंचिदाचरेत् । तत्रापि मातरः पूर्व पूजनीयाः प्रयत्नतः ॥ अकृत्वा मातृयागन्तु वैदिकं यः समाचरेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातर इति । मातृगणस्तु भविष्यपुराणे निरूपितः-गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सहेति ॥ विष्णुपुराणे-कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनः । शुभकर्मणि वालानां चूडाकर्मादिक तथा ॥ सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने। नान्दीमखान्पितनादौ तर्पयेत्प्रयतो गृहीति ।। जावालिः-यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः । पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत् । मातृश्राद्धं तु पूर्व स्यापितॄणान्तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतमिति । वैदिककर्मसु प्रतिप्रयोग श्राद्धावृत्तिप्रसक्तावाह कात्यायन:असकृद्यानि कर्माणि क्रियेरन्कर्मकारिभिः । प्रतिप्रयोगनैताः स्युर्मातरः श्राद्धमेव चेति । सत्यपि वैदिककर्मत्वेऽष्टकादिपु न श्राद्धं कर्तव्यमित्याह कात्यायनः-नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिप्यते । न सोष्यन्तीजातकर्मप्रोपितागतकर्मसु । 'पूर्वाहे' एतदाभ्युदयिक पूर्वाहे भवति नापराहे । पुत्रजन्मादौ तु तत्काल एव । 'पिच्यमन्त्रवर्जनपः । अयञ्चाभत्सु यो जपः स निपिध्यते नत्वायन्तु न