________________
पारस्करगृह्यसूत्रम्
[ श्राद्धसूत्र
वर्ज्यकालमाह गार्ग्यः--नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । ऊनश्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् । मरीचिः - द्विपुष्करे च नंदासु सिनीवाल्यां भृगोर्दिने । चतुर्दश्यां च नोनानि कृत्तिकासु त्रिपुष्कर इति । अत्र केचिद्विवदन्ते - आद्यमेकादशेऽहनीत्येकादशाह श्राद्धं क्षत्रियादीनामाशौ - चमध्ये भवतीति । आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः । एकादशेऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं तु पृथक् पृथगिति वचनाभ्यामेकादशाहे विहितत्वादिति । अन्ये त्वाहुः -- एकादशेऽहनीत्यस्याशौचान्तादिनोपलक्षकत्वाचातुवर्ण्यस्याप्याशौचान्त एवेति । अन्यथा विप्रस्याशौचान्ते क्षत्रियादीनामाशौचमध्य इत्यर्धजरतीयन्यायापत्तेरिति । आद्यं श्राद्धमशुद्धोऽपीत्यस्य मासिकापेक्षया नवश्राद्धस्यैवाद्यत्वान्नवश्राद्धविषयत्वं, नवश्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनीति कार्ष्णाजिनिपाठादिति निबन्धकृतां विरोधः । तदेतद्विचारणीयम् । किमाशौचमध्ये करणं विचारसहं कि वाशौचान्त इति । उभयपक्षस्यापि वाचनिकत्वात् । तथा ह्याशौचमध्ये आह कात्यायनः --- एकादशेऽह्नि यच्छ्राद्धं प्रत्येकं तत्समाचरेत् । आशौचेषु च श्राद्धेषु विप्रो भोक्ता न जायते । विप्रं कुशमयं कृत्वेति प्रागुक्तम् । गालवोऽपि -- ti दशेऽह्नि यच्छ्राद्धं तदेकोद्दिष्टमाचरेत् । यदि कर्ता न कुर्वीत पुनः संस्कारमर्हति । अन्यच -- एकादशे - ऽह्नि यच्छ्राद्धं तत्कुर्याद्वृषपूर्वकम् । सर्वेषामेव वर्णानां सूतकान्ते पृथक्पृथगिति । सापिण्ड्ये विष्णुरपि
1--एका
वह शूद्रस्य द्वादशेऽहनि कीर्तितम् । इति । आशौचान्ते त्वङ्गिराः -- एकादशेह्नि विप्राणां क्षत्रियाणां त्रयोदशे । वैश्यानां षोडशे श्राद्धमेकत्रिशे च शूद्रके । श्राद्धमेकादशाहिक मासिकादन्यन्नवमाद्यं च । मात्स्योऽपि -- क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् । द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत् । तथा--- अशौचानन्तरं पुत्रो वृषोत्सर्गादिपूर्वकम् । आरभेत शुचिर्भूत्वा श्राद्धमेकादशाह्निकम् । अनिरपि - प्रेतार्थं सूतकान्ते तु ब्राह्मणान्भोजयेद्दश । आद्यश्राद्धनिमित्तेन एक चैकादशेऽहनीति । दशैकं चेत्यन्वयः । एवं वचनविप्रतिपत्तौ व्यवस्थीयते - एकादशाहे श्रद्धयं प्राप्नोति । एकमन्त्यनवश्राद्धं द्वितीयमाद्यश्राद्धं तृतीयमपकर्षे मासिकम् । तत्रापकर्षे ब्राह्मण एकादशाहेऽन्त्यनवश्राद्धमाद्यं चेति द्वयं कृत्वा प्रथममासिकादिश्राद्धचतुर्दशकं च कृत्वा द्वादशाहे सपि - ण्डीकरणं कुर्यात् । अनपकर्षे त्वेकादशाहे नवमाद्यं चेति द्वयं कृत्वा द्वादशाहादौ विहितस्वस्वकाले मासिकादिषोडशकं कुर्यादिति । क्षत्रियादिभिस्त्वन्त्यनवश्राद्धमाद्यं श्राद्धं चेत्येकादशाहे नियमित - त्वादाशीमध्ये द्वयं कृत्वाऽऽशौचान्ते प्रथममासिकादिपोडशकमपकर्षे कर्तव्यम् । आशौचमध्ये पूरकपिण्डासमाप्तौ मासिकानामविहितत्वादाशौचान्तेऽन्तिमपिण्डदानस्य विहितत्वाच्च । तथा च मरीचिः--आशौचान्तेष्वतः सम्यक् पिण्डदानं समाप्यते । ततः श्राद्धं प्रदातव्यं सर्ववर्णेष्वयं विधिः । हरिनाथोऽपि --- देयस्तु दशमः पिण्डो राज्ञां वै द्वादशेऽहनि । वैश्यानां पञ्चदशके देयस्तु दशमस्तथा । पिण्डः शूद्रेण दातव्यो दिनान्यष्टौ नवाथवा । संपूर्णे च ततो मासे पिण्डशेषं समापयेदिति । अनपकर्षे तु यथाकालं मासिकमिति । अतश्च येषु निवन्धेष्वेकादशाहे क्षत्रादीनां श्राद्धं विहितं तन्नवश्राद्धाद्यश्राद्ध विषयम् । येष्वाशौचान्ते प्रतिपादितं तन्मासिकादिश्राद्धपोडश कविपयमित्येवं कल्पनेन निबन्धकृतामविरोधाद्देशाचारविषयत्वेन चेति सर्वमनवद्यम् ।
1
1
इति श्राद्धकाशिकायां सूत्रवृत्तौ सपिण्डीकरणम् ॥ ५ ॥
५०८
आभ्युदयिके प्रदक्षिणमुपचारः पूर्वाह्णे पित्र्यमन्त्रवर्ज जप ऋजवो दर्भा यवैस्तिलार्थाः संपन्नमिति तृप्तिप्रश्नः सुसंपन्नमितीतरे ब्रूयुर्दधिवदराक्षत