________________
५०७
कण्डिका ५)
परिशिष्टम्। जाबालि:--पूणे संवत्सरे वृत्ते मृताहे पुनराब्दिकम् । सपिण्डीकरणं कृत्वा कुर्यात्पुत्रस्तु नेतरः। तथा च-पूर्णे संवत्सरे कुर्यात्सपिण्डीकरणं सुतः । एकोद्दिष्टं तु तत्रैव मृतेऽहनि समापयेत् । गाल:-ततः संवत्सरे पूर्णे द्वे श्राद्धे मृतवत्सरे । इति । तथा च पूणे संवत्सरे चान्द्रायणं नवे मिश्रके प्राजापत्यं पुराणेष्वेकाह इत्यर्थः । एषां लक्षणं त्वेकोद्दिष्टप्रकरणेऽभिहितम् । तथा च हारीतः-चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयते । इति । पुराणेष्विति बहुत्वं त्रित्वपरम् । तत ऊर्वं न दोष इत्यर्थः । चतुर्थस्य शुद्धत्वात् । तथा च मासिकान्युपक्रम्याह रेणुः-दशमैकादशे मासि द्वादशे न्यूनवत्सरे । ततो परेधुरब्दान्तसपिण्डीकरणं भवेत् । ततोऽपरेऽब्दे द्वितीयवत्सरादौ तथान्दिकम् । तृतीयवत्सरादौ स्यात्प्रत्याब्दिकमिति कम इति । अपि च पठन्ति-सपिण्डीकरणादूचं यावदन्दत्रयं भवेत् । तावद्विषो न भोक्तव्यो यदि व्याससमोऽपि च । तथा सपिण्डीकरणादूबै काम्यश्राद्धेषु भोजयेत् । संवत्सराश्च चत्वारो वर्जनीयाः क्षयेऽहनि । प्रथमेऽब्दे तु मांसानि द्वितीयेऽस्थीनि चैव हि । तृतीये रुधिरं प्रोक्तं चतुर्थेऽन्नं विशुध्यतीति । द्वादशाहसापिण्ड्यविषयमेतत् । कात्यायन:--अशुद्धेषु च श्राद्धेषु विप्रो भोक्तान जायते । विप्रं कुशामयं कृत्वा पाने कन्यं निवेदयेत् । प्रेतोक्तपिण्डदानं च कर्तव्यमिति नान्यथेति । अत्र च प्रेतायानं दद्यादिति सूत्रयता अथोदककर्मेत्युपक्रम्यैकादश्यामयुग्मान ब्राह्मणान् भोजयेदियादिना गृह्योक्तं प्रेतश्राद्धमत्रोपयुक्तमिति नात्र पुनरुक्तमिति ज्ञापितम् । तेन मासिकादिषोडशकं कृत्वा सपिण्डयेदित्युक्तं भवति । अन्यथा प्रेतश्राद्धान्यनुक्त्वा सपिण्डीकरणं कथमसूत्रयिष्यत् । मासिकान्याह याज्ञवल्क्यः -मृतेहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि । अस्यार्थः-अब्दपर्यन्तं मासि मासि मृताहे स्यादुतैकादशाहेति । अत्रैक आहुःआद्यमासिकमेकादशाहे द्वितीयादिकं तु प्रतिमासं मृताह इति । तथा च रेणुः-प्रतिमासं मृताहे स्युदशैतानि वत्सरम् । उत्कृष्यते हि तत्राद्यं कुर्यादेकादशेऽह्नि तदिति । अन्ये त्याहुः-एकादशाहे श्राद्धद्वयं कार्यमेकं प्रथममासिकत्वेनापरमेकादशाहिकत्वेनेति । तत्र नाद्यः, प्रथममासिकस्य द्वादशाहादिकालेषु विहितत्वात् । तथा च गोभिला-मरणाद्वादशेऽह्नि स्यान्मास्यूने वोनमासिकमित्यादि । न द्वितीयः, नवैकादशाहश्राद्धाभ्यामेव श्राद्धद्वयोपलब्धेः । तयोरेवैकादशेऽह्नि नियमितत्वाच्च । तथा चात्रिः-प्रेताथै सूतकान्ते तु नाह्मणान्भोजयेद्दश । आद्यश्राद्धनिमित्तेन चैकमेकादशेऽहनीति । एकादशेऽह्नि दशैकं चेत्यन्वयः । तथा-प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमेऽपि वा । नवमैकादशे चैव तन्नवश्राद्धमुच्यते । तस्मानवश्राद्धमाद्यं चैकादशाहे, प्रथममासिकं तु द्वादशाहादाविति युक्तम् । तथा च कार्णाजिनिः-ऊनान्यूनेषु मासेषु विषमाहे समेऽपि वा । त्रैपक्षिक त्रिपक्षे स्यान्मृताहेष्वितराणि तु । ऊनान्यूनमासिकोनषण्मासिकोनाब्दिकानि । अपि च पठन्ति-आद्यं त्रैपक्षिकं चैव ऊनषण्मासिकं विना । अन्यानि मासिकानि स्युः स्वस्वकाले यथाविधीति । आद्यमूनमासिकं प्रथममासिकमित्यर्थः । एषां कालमाह गालवः-ऊनषण्मासिकं पष्टे मास्यन्यूनेन मासिकम् । त्रैपक्षिकं त्रिपक्षे स्यादूनाव्दं द्वादशे तथेति । एषां मृताहेष्वनियम इत्यर्थः । तथा च क्रतुः-सार्ध एकादशे मासे तथा सार्धे तु पञ्चमे । ऊनाब्दिकोनषण्मासे भवेतां श्राद्धकर्मणीति । पक्षान्तरमाह गौतमः-एकद्वित्रिदिनैन्यूने त्रिभागेनोन एव वा। श्राद्धान्यूनान्दिकादीनि कुर्यादित्याह गौतमः--एकद्वित्रिदिनैन्यून इति एकोनत्रिंशदष्टाविंशतिसप्तविंशतिदिने क्रमेणोनाब्दिकोनषण्मासिकाद्यमासिकानि कर्तव्यानीत्यर्थः । त्रिभागेनोन इत्येकविंशदिने वा तानि कार्याणीति यथाशक्ति विकल्पः, अनुकल्पो वा । द्वादशाहे यदायमासिकविधानं तहिजकर्तृविषयम् । क्षत्रियादीनां त्राशौचान्ते शरीरपूरकपिण्डसमाप्तावेव मासिकश्राद्धस्य वक्ष्यमाणत्वान् । ऊनानां