________________
५०६ पारस्करगृह्यसूत्रम्।
[द्धिसूत्रकुर्यात्तथाकुर्यात्सदा पुनः । सपिंडीकरणादूर्ध्वमित्युक्तस्ततः प्रागेकोद्दिष्टविधिनेत्यर्थः । तथाच पेठीनसिः-सपिंडीकरणादूर्ध्वं यदा कुर्यात्तदापुनः । प्रत्यवं यो यथाकुर्यात्तथा सर्वाणि तानि विति तेनैवोक्तत्वात् । जातूकण्योऽपि-पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः । प्रत्यब्द प्रतिमासं च विधिरेष सनातनः इति । पुनर्मासिककरणमाह कात्यायन:-सपिण्डीकरणादू_ न दद्यात्प्रतिमासिकम् । एकोद्दिष्टविधानेन कुर्यादित्याह गौतमः । सपिण्डनादूर्ध्वमेकोद्दिष्टविधानेन प्रतिमासिकं न दद्याकि तु पार्वणविधानेनेति कात्यायनमतम् । गौतममते त्वेकोद्दिष्टविधानेनेति । अयं व्यवस्थितो विकल्पः । साग्निः पार्वणविधानेन निरग्निरेकोद्दिष्टविधिनेत्यर्थः । तथा च जाबाल:-असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत् । सपिण्डीकरणादूर्ध्व त्रिभिः सामान्यमिष्यते । पुलस्त्योऽपिएकोहिष्टं भवेत्तावद्यावपित्रोः सपिण्डनम् । सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं निवर्तते । इति । साग्निविषयमेतत् । गौतममतोक्तमेकोद्दिष्टं तु निरग्निविषयमित्यविरोधः । शौनकोऽपि-तदूध्वमेकोद्दिष्टविधानेन दद्यादिति । पार्वणत्वे विशेषमाह गौतमः-अदैवं पार्वणं श्राद्धं सोदकुम्भमधर्मकम् । दद्यात्प्रत्यान्दिकात्पूर्व संकल्पविधिनान्वहम् । अधर्मकं दातृभोक्तृधर्मशून्यम् । प्रत्याब्दिक श्राद्धात्पूर्व सपिण्डीकरणादूर्ध्वमित्यर्थः । अत्रैतत्संदिह्यते--सापिण्ड्यादूर्ध्वमासेपु किं प्रेतशब्दनिर्देश उत पितृशब्दस्येति । तत्रैक आहुः-सपिण्डीकरणादर्वाक्प्रेतशब्देन तं वदेत् । तदूर्ध्व पितृशब्देन निर्दिशेदित्यनेन पितृशब्द इति । अन्येत्वाहुः-पितृशब्दोच्चारस्य मासिकादन्यश्राद्धविषयत्वात्प्रेतशब्द एवेति । तथा च-यस्य संवत्सराक्सिपिण्डीकरणं भवेत् । प्रेतत्वं च पितृत्वं च भवेत्तस्य द्विरूपतेति । मासिकेषु प्रेतत्वमष्टकादौ पितृत्वमित्यर्थः । अतो यत्र युक्तं तबाह्यम् । पार्वणत्वेऽमौकरणमाह .-पाणौ हुतं तु नाश्नीयात्रेतोद्देशेषु सर्वदा । तद्धोमं च न वा कुर्यादनीयात्तु सपिण्डने । अस्यार्थः-साग्निना प्रेतोद्देशेषु मासिकेषु प्रेताय स्वाहेत्युद्देशेन पाणौ हुतं नाश्रीयात्कि त्वग्नौ क्षिपेत्सपिण्डने तु प्रेतश्राद्धत्वेऽपि हुतमन्नीयात् । तद्धोमं च नवेति निरग्निविषयम् । वाशब्दस्य व्यवस्थार्थत्वात् । निरग्नेरेकोद्दिष्टत्वादग्नौकरणाभाव इति । तथा च कात्यायना-हस्ते हुतं यदानीयाद्राह्मणो ज्ञानदुर्बलः । नष्टं भवति तच्छ्राद्धमिति शातातपोऽब्रवीत् । स्मृतिरपि-पितृविप्रकरे होमः सामेरपि भवेदिह । अग्नौकरणशेष हि पित्र्यव्राह्मणभोजने । लौकिकेऽसौ क्षिपदन्नं श्रद्धेष्वत्र करे हुतम् । पार्वणादौ तदनीयादिति । पठन्ति च-साग्निकेन तु विप्रेण यदन्नं हूयते करे । तदन्नं निक्षिपेदनौ भुक्त्वा घान्द्रायणं चरेदिति । अथवा सूत्रे प्रेतशब्दग्रहणं त्रिवर्षपर्यन्तमादिकश्राद्धस्याशुद्धत्वज्ञापनार्थम् । तथा च वृद्धयाज्ञवल्क्या-सपिण्डीकरणादूर्ध्व यावब्दत्रयं भवेत् । वहिः श्राद्धं प्रकर्तव्यं भूरिभोजनवर्जितम् । एतच्च द्वादशाहसपिण्डनविषयम् । तथा च स्मृतिःसपिण्डीकरणादू यावदव्दत्रयं भवेत् । तावदेव न भोक्तव्यं वर्जयित्वा क्षयेऽहनि । पठन्ति च-- एकादशाहमारभ्य यावदन्दत्रयं भवेत् । तावच्छाद्धं न गृह्णीयादितिशातातपोऽब्रवीत् । इति । अत्रैक आहुः-त्रिवर्पपर्यन्तश्राद्धं गृहे कार्यमिति । तन्न । (न) कुर्यात्तद्देष्विति । प्रेतमशुद्ध श्राद्धम् । अत्रैके प्रत्यवतिष्टन्ते-आन्दिके पादकृच्छ्रः स्यादेकाहः पुनराब्दिके। अत ऊर्व न दीपः स्यात्प्रमाणामावात् बहिः श्राद्धं प्रकुर्वीतेति वचनात् च । पठन्ति च-त्रैवर्षिकं च प्रेतं स्याच्छसस्य वचन यथेति वचनावार्षिकमेव शुद्धमिति । तन्न । उक्तवचनविरोधात् । किं चैतद्वचनं प्रायश्चित्ताभावं बोधयति न शुद्धत्वं विदधाति वचनान्तरविरोधात् । तथा च भारद्वाजः-प्राणायामत्रयं वृद्धावहोरानं सपिण्डन इति । अतश्च सदाचारानुरोधादान्दिके पादच्छं स्यादित्येतद्वचनमेवं व्याख्येयम्-आन्दिके पूरकानन्तरं कर्तव्ये मासिके । सपिण्डीकरणे पुनरहोरात्रस्योक्तत्वात् पुनरान्दिकं सपिण्डीकरणम् । अतश्च वर्षान्ते मृताहे एव सपिण्डीकरणं कृत्वान्दिकमिति क्रमः । तथा च