Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 524
________________ ५१ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र श्राद्धत्रयं स्मृतमित्यादि च । अतश्च नान्दीमुख्यो मातर: प्रीयन्तामित्यादिक्रमेण यथालिङ्गं प्रयोगः । अत्रैतत्संदिह्यते--किमत्र नवदैवत्यं श्राद्धभुत द्वादशदैवत्यमिति । उभयथा च वचनदर्शनात् । तथा हि — मातृभ्यः प्रथमं दद्यात्पितृभ्यस्तदनन्तरम् । ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतमित्यादि । चतुर्विंशतिमते तु — मातृपूर्वान् पितृन् पूज्य ततो मातामहीस्तथा । मातामहं ततः केचिदेव स्तु भोजयेत् । पुराणसमुच्चयेऽपि - शस्तं नान्दीमुखश्राद्धं पिण्डैर्द्वादशभिस्तदा । तथाऽपि दूर्वाक्षतयवैर्वेदरेण विमिश्रितैः । पिण्डा नान्दीमुखे देया मातृपूर्वाश्च द्वादशेति । एवं विप्रतिपत्तौ यथाशाखं यथा कुलदेश वा व्यवस्थेत्यविरोधः । तुल्यविकल्पो वा । अथवा - धनधान्यपुत्रपश्वादिवृद्धयर्थं क्रियमाणं वृद्धिश्राद्धम्। अग्न्याधानाद्यभ्युदयनिमित्तमाभ्युदयिकमिति भेदः । तत्र वृद्धिश्राद्धं द्वादशदैवत्यमाभ्युदयिकं नवदैवत्यमिति व्यवस्थेति । अन्वष्टकायां यच्छ्राद्धं यच्छ्राद्धं वृद्धिहेतुकम् । पित्रादीनां पृथग्दान स्त्रीणां पिण्डः पृथक्पृथगित्यत्र वृद्धिहेतुकमित्यभिधानात् । तथा शरीरोपचये श्राद्धमर्योपचय एव च । पुष्ट्यर्थमिति विज्ञेयमौपचारिकमुच्यते । तथा — नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छा श्राद्धानि कुर्वीत नवसस्यागमे तथेति वचनादिति । ' न स्वधां प्रयुञ्जीत ' निषेधान्तरोपलक्षणं चैतत् । तेन शर्मादिकमप्यत्र न प्रयुञ्जीतेत्यर्थः । तथा च पुराणसमुच्चये -- न स्वधा शर्म वर्मेति पितृनाम न चोच्चरेत् । न कर्म पितृतीर्थेन न कुशा द्विगुणीकृताः । न तिलैर्नापसव्येन पित्र्यमत्रविवर्जितम् । अस्मच्छन्दं न कुर्वीत श्राद्धे नान्दीमुखे कचिदिति । अतश्च नान्दीमुखपितरमुकगोत्रेत्यादिप्रयोगः । अन्ये तु पार्वणवन्नामशर्मादिकमपि प्रयुञ्जते तन्निषेधदर्शनात्कथमिति वाच्यम् । पार्वणवदित्यतिदेशाद्वा तद्विधिः । प्रकृते स्वधावाचने स्वधां न प्रयुञ्जीतेति निषेध इति । तदयुक्तम् । सामान्येनाभ्युदयिके तन्निषेधात् । ' युग्मानाशयेदत्र ' अत्राभ्युदयिके युग्मान् द्विचतुरादीन् विप्रानाशयेद्भोजयेदित्यर्थः । अस्य दैविकत्वाद्देवेयुग्मान् यथाशक्तीति परिभाषयैव युग्मत्वप्राप्तौ विशिष्टविष्यर्थे युग्मग्रहणम् । तेन पित्र्येऽपि युग्मानेव प्रातर्निमन्त्र्याशयेदित्यर्थः । तथा च कात्यायन:: - प्रातरामन्त्रितान्विप्रान्प्राङ्मुन्नयतस्तथेति । अन्यच्च — जेष्टोत्तरकारान्युग्मान्करायाग्रपवित्रकान् । कृत्वार्घ संप्रदातव्यं नैकैकस्यात्र दीयत इति । युग्मानिति पुंस्त्वमविवक्षितम् । तेन पुमभावे स्त्रियोऽपीत्यर्थः । तथा च - मातृश्राद्धे तु विप्राणामला पूजयेदपि । पतिपुत्रान्विता भव्या योषितोऽष्टौ कुलोद्भवाः । इति वृद्धवसिष्ठवचनात् । शङ्खोऽपि - पित्रादित्रयपत्नीस्तु भोज्यामातृप्रतिद्विजैः । स्त्रीणामेव तु तद्यस्मान्मातृ श्राद्धमतः स्मृतमि ति । आशयेदित्यपि विशिष्टविध्यर्थम् । तृप्तिप्रश्नेनैव भोजनोपलब्धेः, अतश्च गुडशर्करादिना मधुरानं भोजयेदिति विशिष्टविधिरित्यर्थः । तथा च भविष्यत्पुराणम् - ब्राह्मणेभ्यस्ततो दद्याद्भोजनं मधुरं खग । गुडमिश्रं सितायुक्तं जवं चोदनोत्तरम् । सरलान्नोदकाचैव नवाम्लकटुकास्तथा । कृष्णात्रेयोऽपि - अत्र श्राद्धेषु दातव्यं न मांसं पितृपूजने । इति । अपि च- अपसव्यं जानुपातमम्लं मांसं च वारिजम् । रक्तं विवर्जयेत्समूलांश्च तिलानपीति । तथा द्राक्षामलकमूलानि यवान्वाथ निवेदयेत् । तानेव दक्षिणार्थं तु दद्याद्विप्रेषु सर्वदेति ब्रह्मपुराणम् । अतश्च - द्राक्षामलकमूलयवनिष्क्रयिणीं दक्षिणां युवाभ्यां संप्रदद इत्यादिप्रयोगः नैकैकस्यात्र दीयत इत्युक्तेः ॥ ॥ अथाभ्युदयिकश्राद्धसंदेहो निरस्यते । तत्र कात्यायनः -- स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु । पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् । अस्यार्थः- पिण्डशब्दः श्राद्धं लक्षयति । आउद्वहनादित्याङभिविधौ । ततश्च पुत्रस्य निषेकादिप्रथमविवाहपर्यन्तेषु संस्कारकर्मसु पिता स्वमातृस्वपितृस्वमातामहेभ्यः श्राद्धं दद्यान्न पुत्रमातृमातामहादिभ्यः । तस्य पितुरभावे तेषां पितुमात्रादीनामेव नवानां तत्क्रमाद्येन क्रमेण पित्रा दत्तं तेनैव क्रमेणाधिकारी ज्येष्ठभ्रात्रादिरपि दद्यादिति । नन्वेवं सति संस्कार्यस्य पुत्रादेमृतपित्रोः श्राद्धादौ मुख्याधिकारित्वात्तदतिक्रमो न युक्त इति । न च जीवत्पित्रोर्योऽनुष्ठानक्रमः समृतपित्रोरप्युचित इति वाच्यम् । प्रेतेभ्यो दद्या

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560