Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 519
________________ कण्डिका ६] परिशिष्टम् । ५१३ कर्तुमर्हन्ति ते सर्व पारस्करमुनीरितमिति । परेषां करोतीति हि व्युत्पत्तेः । अतश्च गौर्यादय एवात्र शाखायामिति । तत्प्रकारमाह स एव-प्रतिमासु च शुद्धासु लिखित्वा वा पटादिषु । अपि चाक्षवपुजेपु नैवेद्यैश्च पृथग्विधैरिति । शुद्धासु रजतादिधातुमयीषु । अक्षतपुजा यवमुष्टयः । यथासम्भवं यथाकुलं च विकल्पः । व्यवस्थितविकल्पो वा । जातकर्मणि वालानां नामाह्वयनकर्मणि । निरीक्षणे प्राशने चयवस्थं मातृपूजनमिति वचनात् । अत एव पृथग्विधैरित्युक्तम् । गन्धताम्बूलववादिश्वशब्दार्थः। तथा कुड्यलग्ना वसोर्धारां सप्तधारां धृतेन तु । कारयेत्पंचधारां वा नातिनीचां न चोच्छ्रिताम् । कारयेदिति स्वार्थेणिच् । स्वकर्तृत्वानियमार्थों वा । नातिनीचां न चोछितामिति मातृसंमितामेव न तासामध अवं वाधिकामित्यर्थः । कालमाह-पूर्वाहे श्राद्धं कुर्यादिति शेषः । एतच्च सकलं दैवधर्मोपलक्षणम् । तेनोपवीतिप्रागुड्मुखदक्षिणजानुपातदेवतीर्थप्रागुदक्संस्थाननमस्कारादिदेवधर्मः सर्वोत्र प्राप्नोतीत्यर्थः । तथा च प्रचेताः-अपसव्यं न कुर्वीत न कुर्याद्प्रदक्षिणम् । प्राङ्मुखो देवतीथेन क्षिप्रं देशविसर्जनम् । दक्षिणं पातयेजानु देवान्परिचरेत्सदा । निपातो नहि सव्यस्य जानुनो विद्यते कचित् । यथैवोपचरेदेवांस्तथा वृद्धौ पितॄनपि । दध्यक्षतैः सवरैः प्राङ्मुखोदुङ्मुखोऽपि वा । तथा-पूर्वाहे दैविकं श्राद्धमपराहे तु पैतृकम् । एकोदिष्टं तु मध्याह्ने प्रातद्धिनिमित्तकम् । इति । दैविकं द्वादश्यादिषु वैष्णवम् । तथा च विश्वामित्रः-देवानुद्दिश्य क्रियते यत्तु दैविकमुच्यते । तन्नित्यश्राद्धवत्कुर्याहादश्यादिपु यत्नतः । इति । ननु च प्रातद्धिनिमित्तकमित्यनेन प्रातरेवास्य विहितत्वात्कथं पूर्वाह इति । उच्यते-प्रातःशब्देन पूर्वाहस्यैवोक्तत्वात् इति वक्ष्यमाणत्वात् । एवं च सति पूर्वाहः किं द्वेधा विभक्तेऽह्नि आद्यः किं त्रेधा विभागाद्वा । उच्यते-देवमानुषपित्र्यकालापेक्षया विभागौचित्यात्रिधा विभाग एव ग्राह्य इत्यदोषः। तथा च श्रुतिः--पूर्वाहो देवानां मध्यंदिनं मनुध्याणामपराह्नः पितृणामिति । नन्वेवमपि श्रृंतिरेव पुनरह्नः पूर्वाहो देवा अपराहः पितर इति द्विधैवाह, तत्कथं त्रिधा विभाग एवेति । मैवम् । सामान्येनास्याः श्रुतेराभ्युदयिकादन्यपित्र्यविषयत्वात् । यत्तु पितृनप्यत्र देववदित्यतिदेशेन प्रागावर्तनादः कालं विद्यादिति गोभिलसूत्रेण च द्विधा विभागेन मध्याह्रोऽभिहितः स पाकयज्ञादिदैवकर्मविषयः । अन्यथाऽपराहे पाकयज्ञसंभवात् । तस्मात्रिभाग एव ग्राह्य इति सिद्धम् । तथा च गाय:- ललाटसंमिते भानौ प्रथमः प्रहरः स्मृतः । 'स एवाद्धयर्धसंयुक्तः प्रातरित्यभिधीयते । अध्यधमधिकार्ध सार्धप्रहर इत्यर्थः । अग्न्याधानाभ्युदयिके तु गालवः-पार्वणं चापराहं तु वृद्धिश्राद्धं तथाग्निकमिति । अग्न्याधाननिमित्तमपराह इत्यर्थः । 'पित्र्यमन्त्रवर्ज जपः । मधुमतीपितृसंहितयोरुपलक्षणं चैतत् । तथा च मनुकात्यायनौ-मधुव्वाते जपस्थाने कुर्यात्तत्र प्रयत्नतः । उपास्मै गायतेत्यादि ऋचः पञ्च जपेत्तथा । मधुमध्विति यस्तत्र त्रिर्जपोशितुमिच्छताम् । गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्जितः। न चामत्सु जपेदन कदाचित्पितृसंहिताम् । अन्य एव जपः कार्यः सोमसामादिकः शुभः । इति । पित्र्यमन्त्रा अग्नत्सु जपेदित्यत्रोक्तास्तान्वर्जयित्वा जपः कर्तव्य इत्यर्थः । अत्र जपत्वाविशेपादुशन्तस्त्वायन्तु न इत्यादीनामपि प्रतिषेध इति केचित् । आवाहनार्थत्वादनयोन प्रतिषेध इत्यन्ये । एवं च सति-ब्राह्मणानामग्निस्थानीयवातच्छरीरवर्तिपित्रावाहनस्य मन्त्रेणैवोचितत्वाच विधिरेव युक्तः । अन्यथा मन्त्रक्रियाणाममन्त्रफत्वेनाफलत्वापत्तेः । अत्रैतचिन्त्यते--किं वस्वादिप्रयोगः कर्तव्य उत नेति । अत्र शेपं पार्वणवदित्यतिदेशेन प्राप्नोतीति । तद्युक्तम्-पितॄणामप्यत्र देवरूपत्वात् । तथा च स्मृतिः-पितॄणां रूपमास्थाय देवा अन्नमदन्ति ते । तस्मात्सव्येन दातव्यं वृद्धिपूर्वेपु दातृभिः । नान्दीमुखेति प्रयोगस्य तत्प्रतिनिधिरूपत्वाच्च । तथा युक्तम्-तत्र नान्दीमुखमिति शेपः समुदाहृतः । अपि च चतुर्विंशतिमते-नान्दीमुखमिति शपः संपादितो नान्य इत्यर्थः । 'ऋजवो दर्भाः' दर्भशब्दोऽत्र दूर्वा ६९

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560