Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 516
________________ ५१० पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र इत्ययम् । उदीरतामिति त्रयोदशचे पित्र्यमिति पित्र्यमन्त्रसंज्ञा तस्यैव श्रवणात् । 'ऋजवो दर्भाः' अत्र ऋजवो दर्भा भवन्ति न द्विगुणा: ' यवैस्तिलार्थाः ' अत्र तिलार्थाः सर्वे यवैः कार्याः । तत्र मन्त्रेऽपि rasसीत्यूहः कार्यो मुख्यद्रव्याभिधायकत्वात् । ' संपन्नमिति तृप्तिप्रश्नः' तृप्ताः स्थेति पृच्छतीत्यत्र तृप्ताः स्थेत्यस्य स्थाने संपन्नमित्ययं प्रश्नो भवति । तथा च छन्दोगपरिशिष्टे - संपन्नमिति तृप्ताः स्थप्रश्नस्थाने विधीयते । सुसंपन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् इति ।' सुसम्पपिण्डाः ' दना वदरीफलैरक्षतैश्व मिश्राः पिण्डा अत्र देया: । ' नान्दी 'पृच्छति' व पितॄनावाहयिष्य इत्यस्य स्थाने नान्दीमुखान्पितनावाहयिष्यइत्ययं प्रश्नो भवति । 'आवा स्थाने' प्रयोगो भवतीति शेषः । 'नान्दी "पृच्छति' पितॄन्वाचयिष्यइत्यस्य स्थाने इत्यर्थः । C वाच्यता'‘प्रीयन्तामिति । द्विजैर्वाच्य तामित्यनुज्ञातो नान्दीमुखाः पितर इत्यादिप्रीयन्तामित्यन्तं पठेत् । 'न स्वधां प्रयुञ्जीत ' स्वधोच्चारणन्न कुर्यादित्यर्थः । ‘युग्मानाशयेदत्र ' अत्रास्मिन्नाभ्युदयिके युग्मान्त्राह्मणान्भोजयेत् । इति नवafusकागदाधरभाष्ये पष्ठी कण्डिका ॥ ६ ॥ ॥ * ॥ ॥ ॐ ॥ 11 11 अथ प्रयोगः । तत्र पूर्वं देशकालौ स्मृत्या अमुकनिमित्तं मातृपूजापूर्वकं बसोर्द्धारा पूर्वकं च नान्दीश्राद्धमहं करिष्य इति संकल्पः । ततः क्षालितैः शुक्लतण्डुलैः पीठस्योपरि गौर्यादिपोडशमातृः स्थापयेत् । तद्यथा ॐ भूर्भुवः स्वः गणपतिं स्थापयामि । एवङ्गौरीं स्थापयामि, पद्मां, शचीं, मेधा, सावित्रीं, विजयां, जयां, देवसेनां; स्वधां स्वहां, मातृः, लोकमातः, धृर्ति, पुष्टिं तुष्टिम्, आत्मनः कुलदेवतां, स्थापयामि । तत आसां मनोजूतिरिति प्रतिष्ठापनं च । ततः पूजा, गणपतिसहितपोडशमातृभ्यो नमः गन्धं समर्पयामि । पुष्पं धूपं नैवेद्यं ताम्बूलं दक्षिणाः । गणपतिसहितानां पोडशमातृणां पूजनविधेर्यन्यूनं यदतिरिक्तं तत्परिपूर्णमस्तु । इति मातृपूजनम् ॥ ॥ अथ वसोर्द्धारा पूजनम् । द्रवीभूतं घृतं गृहीत्वा कुड्यादिपु वसोः पवित्रमसीति धाराः पञ्च सप्त वा उदक्संस्थाः कुर्यात् । मनोजूति - रिति प्रतिष्ठापूर्वकं वसोर्द्धारा देवताभ्यो नम इति पश्चोपचारैः पूजयेत् । इति वसोर्द्धाराकरणम् । अथ नान्दीश्राद्धम् । तच्च यथाकुलदेशाचारेण सपिण्डकमपिण्डकं वा कार्यम् । तदुक्तं भविष्यपुराणे, पिण्डनिर्वपणं कुर्यान्न वा कुर्याद्विचक्षणः । वृद्धिश्राद्धे कुलाचारो देशकालाद्यवेक्ष्य हि ॥ अपिण्ड - केऽग्नौकरणादीनामपि निषेधः । तथाहि, अग्नौकरणमर्घ चावाहनं चावनेजनम् । पिण्डश्राद्धे प्रकुर्वीत पिण्डीने निवर्तते । पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते । स्वधावाचनलोपोऽस्ति विकिरस्तु न लुप्यते । अक्षय्यं दक्षिणा स्वस्ति सौमनस्यं यथास्थितमिति ॥ ॥ तच सपिण्डकमाभ्युदयिकं लिख्यते । आचमनम् प्राणायामः वैश्वदेवार्थे मात्राद्यर्थे पित्राद्यर्थे सपत्नीकमातामहाद्यर्थे च द्वौ द्वौ विप्रौ युग्माः शक्तितो भोज्याः । अमूला ऋजवो दर्भाः । यज्ञोपवीती प्राङ्मुखो दद्यात् । तिलार्थे यवाः । नान्दीमुखाः सत्यवसुसंज्ञका विश्वेदेवा एतद्वः पाद्यम्पादावनेजनं पादप्रक्षालनम् एपोऽर्घः इदमत्र चन्दनं पुष्पं च । अमुकगोत्राः मातृपितामहप्रपितामहाः नान्दीमुख्यः एतद्वः पाद्यम् पादावनेजनं पादप्रक्षालनम् । एष वोऽर्घः इदमत्र चन्दनं पुष्पम् | अमुकगोत्राः पितृपितामहप्रपितामहाः नान्दीमुखाः युग्मरूपाः एतद्वः पाद्यं पादावनेजनं पादप्रक्षालनम् । एप वोऽर्घः इदमत्र चन्दनं पुष्पम् । अमुकगोत्राः मातामहप्रमातामहवृद्धप्रमातामहाः नान्दीमुखा युग्मरूपा एतद्वः पाद्यं पादावनेजनं पादप्रक्षालनम् । एष वोऽर्घः इ० । तत आचमनं दिग्बन्धनम् | अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । तथा वर्हिपदः पान्तु याम्यां ये पितरस्तथा । प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः । ऊर्ध्वतस्त्वर्यमा रक्षेत्कव्यवाडनलोऽप्यधः । रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः । सर्वतश्चाधिपस्तेपां यमो रक्षां करोतु मे । तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् । पति वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः । निहन्मि सर्व यदमे - ध्यवदित्यादि सर्वे इत्यन्तेन मन्त्रेण नीवीबन्धनम् । श्राद्धभूमौ गयामित्यारभ्य गयायै नमः

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560