Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 503
________________ कण्डिका ५] . परिशिष्टम् । ४९७ कुर्यादन्यथैकोद्दिष्टमेवेति राद्धान्तः । तथा च मत्स्यपुराणम्-प्रदानं यत्र तत्रैषां सपिण्डीकरणात्परम् । पार्वणेन विधानेन देयमग्निमता सदा । वृद्धयाज्ञवल्क्योऽपि-वैतानाग्निहे येषां मातापित्रोः क्षयेऽहनि । न तेषामधिकारः स्यादेकोद्दिष्टे कदाचन । सपिण्डीकरणादूर्ध्वमग्नियुक्तस्य पार्वणम् । अनग्नेस्तु क्रिया नान्या एकोद्दिष्टमृते कचित् । एकोदिष्टं विधिस्तेपां मन्त्रे वाजसनेयिनाम् । येषां माध्यन्दिनी शाखा ये द्विजा अग्निवर्जिताः । इति । नन्वे (व) तर्हि बबनयस्तु ये विप्रा ये चै(का)मय एव वा। तेषां सपिण्डनादूर्ध्वमेकोदिष्टं न पार्वणमिति स्मृत्यन्तरवचन विरुध्येत । मैवम् । अस्य वचनस्यान्यथार्थोपपत्तेः । तथा हि ये पितरः साग्नयो मृता भवन्ति तेषां निरग्निः सपिण्डनादूर्ध्वमेकोद्दिष्टं कुर्यात्तथा निरनयः पितरो मृताः साग्निपुत्रस्तदा सपिण्डनादूर्व मृताहे पार्वणं कुर्यादिति । तथा च मरीचिः-साग्निकौ तु पितापुत्रावमायां स्यात्पिता मृतः । पार्वणो हि विधिरतस्य प्रतिसंवत्सरं भवेत् । तथा-साग्निकस्य पितुः पुत्रोऽमावास्यायां मृतस्य च । पार्वणो हि विधिस्तस्य प्रतिसंवत्सरं भवेत् । ततः साग्निकः ततः न कश्चिद्विरोधः । अभिरम्यतामिति कोंक्तेऽभिरताः स्मइति श्राद्धिनः प्रतिवदेयुरित्यर्थः । अत्रैक आहुः--एक एव द्विजो भोज्यः पिण्डोऽप्येको विधीयत इति वचनादेक एव श्राद्धयेकोदिष्ट इति । तद्युक्तम् । तस्य वचनस्य प्रेतकोद्दिष्टविषयत्वात् । अभिरम्यतामिति वदेवयुस्तेऽभिरताः स्म हेति याज्ञवल्क्येन बहुत्वाभिधानात् । इतर इति सूत्रोपदेशाच । अत्रैतचिन्त्यते-कि क्षयाहश्राद्धं नित्यं कर्म कृत्वा कर्तव्यमुताकृत्वेति । तत्र नित्यं कृत्वैव श्राद्धमाचरन्तीति सदाचारः । वृद्धयाज्ञवल्क्येन तु श्राद्धानन्तरं नित्यं कर्म कुर्यादिति उक्तम् । तथा च-क्षयेऽहनि समासाद्य स स्नात्वा विधिपूर्वकम् । स्नानं सन्ध्यां प्रकुर्वीत नित्यकर्म न कारयेत् । नित्यं नैमित्तिकं काम्यं त्रिविधं धर्मलक्षणम् । निमित्तं तु व्यतिक्रम्य नित्यं कर्म न कारयेत् ।। जपं होमं तथा दानं तर्पणं देवतार्चनम् । क्षयेऽहनि समासाद्य न कुर्यात्पूर्वमेव हि । क्षयाहं तु समासाद्य न कुर्यात् प्राक तर्पणम् । पितृघाती स विज्ञेयो वदत्येवं पितामहः । इति तत्सदाचारविरोधाचिन्त्यम् । अथवा सामगयजुःशाखिनां पूर्व नित्यकर्म बदचानां पश्चादिति व्यवस्थेत्यविरोधः । सामगा याजुषाः पूर्व बह्वचाश्च तथान्तक इति तेनैवोक्तत्वात् । अथवा एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । इत्येकोद्दिष्टस्य नैमित्तिकत्वे नित्यान्नैमित्तिकं बलीय इति न्यायादेकोद्दिष्टमेव पूर्व पश्वान्नित्यं न क्षयाहनिमित्तकपार्वणमपीति व्यवस्था । तथा च वृद्धयाज्ञवल्क्य एक-एकोद्दिष्टनिवृत्ते तु तथा विप्रविसर्जने । नित्यकर्म ततः कुर्यात्तर्पणं देवतार्चनम् । नित्यं नैमित्तिकं चैव द्वावेतो परमार्थिनौ । नैमित्तिके व्यतीते तु ततो नित्यं समाचरेदिति । विश्वामित्रो। ऽपि-नैमित्तिकं यदा श्राद्धं पैतृकं कुरुते नरः । तदा नित्यं न कुर्वीत तीर्थश्राद्धं विना कचित् । नित्यनैमित्तिके प्राप्ते नित्यं न परिलवयेत् । आदौ नैमित्तिक कुर्यात्पश्वान्नित्यं समाचरेदिति । • अपि च पठन्ति-प्रत्यान्दिकनिवृत्ते तु पश्चान्नित्यं समाचरेत् । अनयोभिन्नतन्त्रत्वात्स्थालीपाकाग्निहोत्रवदिति ॥ ४ ॥ ॥ * ॥ इति श्राद्धकाशिकाया सूत्रवृत्तौ एकोद्दिष्टलाई समाप्तम् । ततः संवत्सरे पूर्णे त्रिपक्षे हादशाहे वा यदहर्वा वृद्धिरापद्येत चत्वारि पात्राणि सतिलगन्धोदकानि पूरयित्वा त्रीणि पितॄणामेकं प्रेतस्य । प्रेतपानं पितृपात्रेष्वासिञ्चति, ये समाना इति द्वाभ्याम् । एतेनैव पिण्डो व्याख्यातः । अत ऊईठन्संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यात् ॥५॥ ६३

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560