________________
कण्डिका ५] . परिशिष्टम् ।
४९७ कुर्यादन्यथैकोद्दिष्टमेवेति राद्धान्तः । तथा च मत्स्यपुराणम्-प्रदानं यत्र तत्रैषां सपिण्डीकरणात्परम् । पार्वणेन विधानेन देयमग्निमता सदा । वृद्धयाज्ञवल्क्योऽपि-वैतानाग्निहे येषां मातापित्रोः क्षयेऽहनि । न तेषामधिकारः स्यादेकोद्दिष्टे कदाचन । सपिण्डीकरणादूर्ध्वमग्नियुक्तस्य पार्वणम् । अनग्नेस्तु क्रिया नान्या एकोद्दिष्टमृते कचित् । एकोदिष्टं विधिस्तेपां मन्त्रे वाजसनेयिनाम् । येषां माध्यन्दिनी शाखा ये द्विजा अग्निवर्जिताः । इति । नन्वे (व) तर्हि बबनयस्तु ये विप्रा ये चै(का)मय एव वा। तेषां सपिण्डनादूर्ध्वमेकोदिष्टं न पार्वणमिति स्मृत्यन्तरवचन विरुध्येत । मैवम् । अस्य वचनस्यान्यथार्थोपपत्तेः । तथा हि ये पितरः साग्नयो मृता भवन्ति तेषां निरग्निः सपिण्डनादूर्ध्वमेकोद्दिष्टं कुर्यात्तथा निरनयः पितरो मृताः साग्निपुत्रस्तदा सपिण्डनादूर्व मृताहे पार्वणं कुर्यादिति । तथा च मरीचिः-साग्निकौ तु पितापुत्रावमायां स्यात्पिता मृतः । पार्वणो हि विधिरतस्य प्रतिसंवत्सरं भवेत् । तथा-साग्निकस्य पितुः पुत्रोऽमावास्यायां मृतस्य च । पार्वणो हि विधिस्तस्य प्रतिसंवत्सरं भवेत् । ततः साग्निकः ततः न कश्चिद्विरोधः । अभिरम्यतामिति कोंक्तेऽभिरताः स्मइति श्राद्धिनः प्रतिवदेयुरित्यर्थः । अत्रैक आहुः--एक एव द्विजो भोज्यः पिण्डोऽप्येको विधीयत इति वचनादेक एव श्राद्धयेकोदिष्ट इति । तद्युक्तम् । तस्य वचनस्य प्रेतकोद्दिष्टविषयत्वात् । अभिरम्यतामिति वदेवयुस्तेऽभिरताः स्म हेति याज्ञवल्क्येन बहुत्वाभिधानात् । इतर इति सूत्रोपदेशाच । अत्रैतचिन्त्यते-कि क्षयाहश्राद्धं नित्यं कर्म कृत्वा कर्तव्यमुताकृत्वेति । तत्र नित्यं कृत्वैव श्राद्धमाचरन्तीति सदाचारः । वृद्धयाज्ञवल्क्येन तु श्राद्धानन्तरं नित्यं कर्म कुर्यादिति उक्तम् । तथा च-क्षयेऽहनि समासाद्य स स्नात्वा विधिपूर्वकम् । स्नानं सन्ध्यां प्रकुर्वीत नित्यकर्म न कारयेत् । नित्यं नैमित्तिकं काम्यं त्रिविधं धर्मलक्षणम् । निमित्तं तु व्यतिक्रम्य नित्यं कर्म न कारयेत् ।। जपं होमं तथा दानं तर्पणं देवतार्चनम् । क्षयेऽहनि समासाद्य न कुर्यात्पूर्वमेव हि । क्षयाहं तु समासाद्य न कुर्यात् प्राक तर्पणम् । पितृघाती स विज्ञेयो वदत्येवं पितामहः । इति तत्सदाचारविरोधाचिन्त्यम् । अथवा सामगयजुःशाखिनां पूर्व नित्यकर्म बदचानां पश्चादिति व्यवस्थेत्यविरोधः । सामगा याजुषाः पूर्व बह्वचाश्च तथान्तक इति तेनैवोक्तत्वात् । अथवा एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । इत्येकोद्दिष्टस्य नैमित्तिकत्वे नित्यान्नैमित्तिकं बलीय इति न्यायादेकोद्दिष्टमेव पूर्व पश्वान्नित्यं न क्षयाहनिमित्तकपार्वणमपीति व्यवस्था । तथा च वृद्धयाज्ञवल्क्य एक-एकोद्दिष्टनिवृत्ते तु तथा विप्रविसर्जने । नित्यकर्म ततः कुर्यात्तर्पणं देवतार्चनम् । नित्यं नैमित्तिकं चैव द्वावेतो परमार्थिनौ । नैमित्तिके व्यतीते तु ततो नित्यं समाचरेदिति । विश्वामित्रो। ऽपि-नैमित्तिकं यदा श्राद्धं पैतृकं कुरुते नरः । तदा नित्यं न कुर्वीत तीर्थश्राद्धं विना कचित् । नित्यनैमित्तिके प्राप्ते नित्यं न परिलवयेत् । आदौ नैमित्तिक कुर्यात्पश्वान्नित्यं समाचरेदिति । • अपि च पठन्ति-प्रत्यान्दिकनिवृत्ते तु पश्चान्नित्यं समाचरेत् । अनयोभिन्नतन्त्रत्वात्स्थालीपाकाग्निहोत्रवदिति ॥ ४ ॥ ॥ * ॥
इति श्राद्धकाशिकाया सूत्रवृत्तौ एकोद्दिष्टलाई समाप्तम् । ततः संवत्सरे पूर्णे त्रिपक्षे हादशाहे वा यदहर्वा वृद्धिरापद्येत चत्वारि पात्राणि सतिलगन्धोदकानि पूरयित्वा त्रीणि पितॄणामेकं प्रेतस्य । प्रेतपानं पितृपात्रेष्वासिञ्चति, ये समाना इति द्वाभ्याम् । एतेनैव पिण्डो व्याख्यातः । अत ऊईठन्संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यात् ॥५॥
६३