________________
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
( कर्क: ) - ' ततः प्रेतस्य ' संवत्सरे पूर्णे सपिण्डीकरणङ्कर्तव्यम् । पूर्णग्रहणादूर्ध्व नास्त्येव न प्राक्कर्तव्यम् | आहिताग्निना तु प्रागभावास्यायाः कर्तव्यम् । पिण्डपितृयज्ञाधिकारात् । अधिकारः प्रेतपितृकत्वात्, प्रेतेभ्यो ददातीति वचनात् पितृप्रभृति ददातीति वचनात् सपिण्डीकरणं कार्य पूर्वमेव । असपिण्डीकृतानां दानाभावाच । कथमभाव इति चेत् । सपिण्डीकरणमित्यन्वर्थसंज्ञयैवायमर्थोऽवगम्यते । तस्मात्प्रागपि वत्सरात्सपिण्डीकरणमस्त्येव । तथाचान्यार्थदर्शनम् अर्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः । इति अन्नोदककुम्भविधिपरे वाक्ये अर्वाक् संवत्सरात्सपिण्डीकरणं दर्शयति । तथा च गृह्यकारः पिण्ड (प्र) करणे - प्रथमः पितॄणां प्रेतः स्यात्पुत्रांश्चेदिति । उक्तन्याये नानाहिताग्निनाऽपि चाभ्युदयिकं कुर्वता इ पूर्वमेव कर्तव्यमिति । तचैतत् पुत्रवतः स्थान, पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुत्रवश्चेदिति वचनात् । अपुत्रस्य प्रेतस्य पितृगणेन सह समानपिण्डतैव नोपपद्यते । तथाच स्मरन्ति वर्षे वर्षे तु कर्तव्या वान्धवैरुदकक्रिया । अद्वैवं भोजयेच्छ्राद्धं पिण्डमेकन्तु निर्वपेत् । इत्यपुत्रस्य प्रेतस्य प्रतिसंवत्सरं बान्धवैः कर्तव्यमेकोद्दिष्टं स्मरन्ति । अतोऽपि न सपिण्डीकरणमपुत्रस्य । चत्वारि पात्राणि पूरयित्वेति चतुर्ब्रहणात् त्रिभ्य एव दानं न पड्भ्योऽपि । तत्र च त्रीणि पितॄणामेकं प्रेतस्य भवति । 'प्रेतपानं'' 'द्वाभ्याम् ' येसमाना इति मन्त्रद्वयेन प्रेतपात्रात् पितृपात्रेषु उदकमासिञ्चतीति । ' एतेनैव पिण्डो व्याख्यातः 'पिण्डेऽयमेव न्याय इति । 'अत" स्यात् ' निगदमेतत् ॥ ५ ॥
४९८
( गदाधर: ) सपिण्डीकरणमाह 'ततः प्रेतस्य संवत्सरे पूर्णे सपिण्डीकरणङ्कार्यम् । अथवा त्रिपक्षे द्वादशाहे वा वृद्धिप्राप्तौ वा कुर्यात्, इति चत्वारः पक्षा दर्शितास्तत्रेयं व्यवस्था - वादशाहे पितुः सपिण्डीकरणमग्निमता कार्यम्, सपिण्डीकरणं विना पिण्डपितृयज्ञत्यासिद्धिः; साग्निकस्तु यदा कर्ता प्रेतो वाऽप्यग्निमान्भवेन् । द्वादशाहे तड़ा कार्य सपिण्डीकरणं पितुरिति वचनात् । निरनिकस्तु त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा पोडश श्राद्धानि कृत्वा सपिण्डीकरणङ्कार्यम् उत सपिण्डीकरणं कृत्वा स्वकाले तानीति संशयः । उभयथा वचनदर्शनात् । श्राद्धानि पोडशादत्वा नतु कुर्यात्सपिण्डनम् । श्राद्धानि पोडशापाद्य विदधीत सपिण्डनमिति । पोडश श्राद्धानि च --- द्वादशाहे त्रिपक्षे च पण्मासे मासि चान्दिके । श्राद्धानि षोडशैतानि संस्मृतानि मनीपिभिरिति दर्शितानि । तथा, यस्यापि वत्सरादर्वाक् सपिण्डीकरणं भवेत् । मासिक श्चोदकुम्भश्च देयं तस्यापि वत्सरमिति । तत्र सपिण्डीकरणं कृत्वा स्वकाले तानि कर्तव्यानीति प्रथमः कल्पः । अप्राप्तकालत्वेन प्रागनधिकारात् । यदपि वचनं षोडशश्राद्धानि कृत्यैव सपण्डीकरणं संवत्सरात्प्रागपि कर्तव्यमिति सोऽयमापत्कल्पः । यदा त्वापत्कल्पेन प्राकू स चेत्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यान् । यदातु मुख्यकल्पेन स्वकाल एव तानि करोति तदाऽऽदिकं यो यथा करोति पार्वणमेकोद्दिष्टं वा तथा मासिकानि कुर्यात् । सपिण्डीकर- . णादर्वाक् कुर्वञ्च्छ्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु । सपिण्डीकरणादूर्द्ध यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्चपि, इति स्मरणात् । चत्वारि पात्राणि पूरयित्वेति चतुर्ग्रहणात्रिभ्यः प्रेतस्य पितृपितामहप्रपितामहेभ्य एव दानम् । नच षड्भ्योऽपि । तत्र • च त्रीणि पात्राणि पितॄणाम् एकं प्रेतस्य भवति ।' प्रेतपात्रं पितृपात्रेष्वासिञ्चति ये समाना इति द्वाभ्याम् ' प्रेतसंवन्धि पात्रं गृहीत्वा पितृपितामहप्रपितामहपात्रेषु ये समाना इति द्वाभ्यां मन्त्रभ्यामासिश्चति प्रत्यासेकं मन्त्रौ भवतः । आसेकप्रकारो ब्रह्मपुराणे चतुर्थञ्चार्चपात्रेभ्य एकं वामेन पाणिना । गृहीत्वा दक्षिणेनैव पाणिना सतिलोदकम् । संसृजेच तथाऽन्येषु येसमाना इति स्मरन् । प्रेतं प्रेतस्य हस्तेषु चतुर्भागजलं क्षिपेत् । ततः पिताम्हादेस्तु तन्मन्त्रैश्च पृथक् पृथक् इति । वाजसने
1