________________
कण्डिका ५] परिशिष्टम् ।
४९९ यिमिस्तु पूर्व पितृभ्यो देयं पश्चात्प्रेताय दानम् । एतेनैव पिण्डो व्याख्यातः' यथा प्रेतार्धपात्रस्थं जलं ये समाना इति द्वाभ्यां मन्त्राभ्यां पात्रत्रये स्थापितम् एवमेव प्रेतपिण्डमपि त्रेधा कृत्वा पिण्डत्रितये निदध्यादित्यर्थः । तत्प्रकारश्च ब्रह्मपुराणे । दत्वा पिण्डमथाष्टाङ्गं ध्यात्वा तञ्च सुभास्त्ररम् । सुवर्णरौप्यदभैस्तु तस्मिन्पिण्डं ततस्विधा । कृत्वा पितामहादिभ्यः पितृभ्यः प्रेतमर्पयेत् । तथा, सुवतुलांस्ततस्तांस्तु पिण्डान्कृत्वा प्रपूजयेत् । अर्धेः पुष्पैस्तथा धूपै-पैर्माल्यानुलेपनैरिति । एतच प्रेतश्राद्धसहितं सपिण्डीकरणं संविभक्तधनेषु बहुषु भ्रातृषु सत्स्वपि एकेनैव कृतेनालं न सवैः कर्तव्यम् । नवश्राद्धं सपिण्डवं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपीति स्मरणात् । मातुः पिण्डदानादौ गोत्रे विप्रतिपत्तिः । भर्तृगोत्रेण पितृगोत्रेण वा देयम् । उभयथा वचनदर्शनात् । मातुः सपिण्डीकरणे विरुद्धानि वाक्यानि दृश्यन्ते । तत्रापि पितामह्यादिभिः सह सपिण्डीकरणं स्मृतमिति । तथा भाऽपि भार्यायाः स्वमात्रादिभिः सह सपिण्डीकरणकर्तव्यमिति । पैठीनसिराहअपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डताम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेदिति । पत्या सह सपिण्डीकरणं यम आह-पत्या चैकेन कर्तव्यं सपिण्डीकरणं स्त्रियाः । सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैरिति । उशनसा तु मातामहेन सह सपिण्डीकरणमुक्तम् । पितुः पितामहे यत्पूर्णे संवत्सरे सुतैः । मातुर्मातामहे तद्वदेपा कार्या सपिण्डतेति । एवंविधेपु वचनेषु सत्सु अपुत्रायां भार्यायां प्रमीतायां भर्ता स्वमात्रैव सापिण्ड्यं कुर्यात् । अत्राचारादनुष्ठानम् । अत ऊर्च प्रेतायान्नं दद्याद्यस्मिन्नहनि प्रेत: स्यात् । अतः सपिण्डीकरणादूर्द्धम्प्रेतायान्नं दद्याद्यस्मिन्नहनि यस्यान्तिथौ प्रेतः स्यादित्यर्थः । यद्यप्यत्र प्रेतायेत्येकवचननिर्देशस्तथाऽपि स्मृत्यन्तरात्रिभ्यो देयम् । मासश्वान चान्द्रो ग्राह्यः । यथा परमेष्टी आन्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते । विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृत इति ।। इति नवकण्डिकाभाष्ये पञ्चमी कण्डिका ॥ ५ ॥
अथ प्रयोगः । द्वादशाहे विधिवत्स्नात्वा विष्णुं सम्पूज्य ऊनमासिकमेकोद्दिष्टं कुर्यात् । ततः स्नानम् प्रेतोद्देशेन सान्नानां सजलानां द्वादशघटानां दानम् । एका वर्द्धनी पक्वान्नजलपूरिता विष्णवे देया । एको धर्मराजाय घटो देयः । एकश्चित्रगुप्ताय । ततो मासिकानि चतुर्दश श्राद्धान्येकतन्त्रेण । तत्र क्रमः । द्वितीयमासे त्रिपक्षे तृनीयमासे चतुर्थमासे पञ्चममासे षष्ठे ऊनपष्ठे सप्तमे अष्टमे नवमे दशमे एकादशे द्वादशे ऊनाव्दे चेति प्रेतकोद्दिष्टवकार्याणि । ततः स्नात्वा सपिण्डीकरणं कुर्यात् । तत्र पूर्व वैश्वदेवश्राद्धम् । देवपादप्रक्षालनम् । ततः पार्वणं प्रेतस्य पितृपितामहप्रपितामहानाम् । तदर्थ त्रयाणां पादप्रक्षालनम् । तत्र सर्वम्पार्वणे पार्वणवत् एकोद्दिष्टे एकोद्दिष्टवत्, अत्राद्य मासे पक्षे तिथौ अमुकगोत्रस्यामुकप्रेतस्य वसुरुद्रादित्यलोकप्राप्त्यर्थम्प्रेतत्वनिवृत्त्यर्थं च अमुकगोत्रस्यामुकप्रेतस्य अमुकगोत्राणां पितृपितामहप्रपितामहानाममुकामुकशर्मणां वैश्वदेवपूर्वकं सैकोदिष्टं पार्वणविधिना सपिण्डीकरणश्राद्धं युष्मदनुज्ञयाऽहङ्करिष्ये । आसनम् । आवाहनम् । विश्वेषां देवानां पितॄणां प्रेतस्य चार्घपात्राणि पूरयित्वाऽभ्यर्च्य विश्वेभ्योदेवेभ्योऽर्घ दत्वा ततः प्रेताय जलम्, प्रेतपाने जलचतुर्थभागेनार्घन्दत्वाऽवशिष्टमर्घपात्रस्थितञ्जलं पित्रादिपात्रेषु विभज्य तृतीयांशन्निनयेत् । तत्र प्रेतपात्रं पितृपात्रेषु संयोजयिष्य इति पृष्ट्वा संयोजयेत्यनुज्ञातोऽथै संयोजयेत् । एवं पिण्डयोजनेऽप्यनुज्ञाप्रार्थनम् । तत्रेदं येसमाना इतिमन्त्रद्वयं पठित्वा अमुकगोत्रस्यामुकप्रेतस्याः अमुकगोत्रस्य प्रेतस्य पितुरमुकशर्मणोऽर्येण सह संयुज्यताम् , वसुलोकप्राप्तिरस्त्विति वदेत् । एवं पितामहपात्रे प्रपितामहपात्रे च । ततस्तेभ्योऽर्घन्दद्यात् । पार्वणे नियमेन विकिरः। पिण्डदाने पूर्वम्पार्वणसम्वन्धिनः पिण्डान्निरुप्य पश्चात्तपिण्डं त्रेधा विभज्य तत आयं भागमादाय ये समाना इति मन्त्रद्वयं पठित्वा अमुक्रगोत्रस्यामुकप्रेतस्य पिण्डः अमुकगोत्रस्य प्रेतस्य पितुरमुकर्मणः पिण्डेन सह संयुज्यतामित्युक्त्वा प्रथम