________________
४९६
पाररकरगृह्यसूत्रम् ।
[श्राद्धसूत्र रहितश्राद्धे तन्निषेधात् । तदुक्तं-वधावाचनलोपोऽस्तीति प्राक् । अतश्चास्मत्पित्रे अमुकशर्मणे अमुकगोत्राय स्वधोच्यतानिति प्रयोगः । अत्रैक आहुः--प्रथमपात्राभावात्संबस्रवत्रहुत्वाभावाच पितृभ्यः स्थानमसीति मन्त्रानुपयुक्तत्वाच नात्र तत्पात्रमिति । तद्युक्तम् । एकोद्दिष्टे अस्य विहितत्वात् । यत्तु कर्कोपाध्यायैर्न पात्रन्युन्जीकरणमित्युक्तं तदन्यथैवोपपाद्यते । पात्रं न्युजं न कर्तव्यं किन्तूत्तानमेव निधेयमिति । अस्ति च पात्राभावन्युजलाभावयोमहान भेदः । अतो अर्थानवबोधात्तदयुक्तमित्युक्तम् । तथा च स्कन्दसंवाद-एकोद्दिष्ट न कुर्वीत स्कन्द पात्रमधोमुखम् । नोल्यापयेच तत्पात्रं यावच्छ्राद्धविसर्जनम् । अन्तरोत्यापिते पात्रे श्राद्धं संपद्यते तयेति । तस्मात्स्वधावाचनीयानास्तीर्य स्ववावाचनं कर्तव्यमिति सूक्तम् । स्वदितमिति तृप्तप्रश्न उपतिष्टवामित्यश्य्यस्थाने अभिरभ्यतामिति विसर्गः । अत्र नेत्यनुवृत्ती मण्डूकप्लुतिन्यायेन पूर्वसूत्रोक्तो विधिरवात्रानुपज्यते । तेन तृप्ताः स्येति प्रश्ने स्वदितमक्षय्यमस्त्वित्यत्रोपतिष्ठतां बाजे बाजे वतेत्यत्राभिरम्यतामिनि विसर्गो भवतीति वाक्यशेपः ।अतश्चैतत्पुराणकोहिष्टमित्युक्तं प्रेतकोहिष्टे तदभावात् । अथ क्षयाहे किं पार्वणं कार्यमेकोदिष्टं वेति संदिह्यते । उभयया वचनदर्शनात् । तथा हि जातूकठ:-पितुः पितृगणस्यस्य कुर्यात्यावणवत्सुतः । सर्वदा दर्शवच्छ्राद्धं मातापित्रोः क्षयेऽहनीति ! शातातपः-प्रदानं यत्र यत्रैपा सपिण्डीकरणात्परम् । तत्र पार्वणवच्छ्राद्धं नेयमभ्युदयात । तया-अकि संवत्सरादुद्धी पूर्ण संवत्सरेऽपि वा।ये सपिण्डीकृताः प्रेता न तेषां तु पृथक् क्रियेति । एकोद्दिष्टे तु यमः-सपिण्डीकरणादूर्व प्रतिसंवत्सरं सुतैः । मात्रापित्रोः पृथक् कार्यमेकोद्दिष्टं मृतेऽहनि । व्यासोऽपिएकोद्दिष्टं परित्यज्य पार्वणं कु. रुते नरः । अकृतं तद्विजानीयानवेच पितृघातकः । एकोहिष्टं परित्यज्य पार्वणं य: समाचरन् । सदैव पितृहा स स्यान्मातृभ्रातृविनाशकः । मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः । संपृक्तेष्वाकुलीभावः प्रेतेषु तु ततो भवेदिति । अत्र विरोघे ह्येक आहुःद्वादशपुत्रेवौरसक्षेत्रजपुत्री पार्वणं कुर्यातामन्ये दशैकोहिष्टमिति । तथा च जातकर्ण्य:-प्रत्यव्दं पार्वणेनैव विधिना क्षेत्रचौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश । औरसः क्षेत्रनः पुत्रो विधिना पावणेन तु । प्रत्यन्दमितरं कुर्युरकोष्टिं सुता दश ॥ इति विशेषोल्लेखादिति । तदयुक्तम्-प्रत्यदमित्यनेन क्षयाहव्यतिरिक्ताक्षयतृतीयादिविषयत्वावगतः । एकोद्दिष्टं तु कर्तव्यमौरसेन मृतेऽहनि । सपिण्डीकरणादू मातापित्रोर्न पार्वणमिति पैठीनसिवचनविरोधाच । एवं च सति मृताहे पार्वणैकोहिष्टयोरुभयोरपि पक्षप्राप्तत्वात्-अमायां वा क्षयो यस्य प्रेतपक्षेऽयवा भवेत् । सपिण्डीकरणादूर्ध्व तस्योक्त: पार्वणो विधिरिति शङ्खवचनेन दर्शप्रेतपक्षमृतयोरेव पार्वणस्य नियतत्वात्तत्र मृतयोरेव पार्वणमन्यत्र मृतयोरेकोहिष्ठमिति विनानेश्वरप्रभृतयः । अन्ये तु द्वादशविधपुत्रेचौरसक्षेत्रजपुत्रौ विशेषस्तत्रापि सामित्वं तत्रापि दर्शापरपक्षमृतिरित्येवं विशेषोपसंहारपरंपरया पुरोडाशाग्नेयवद्विशेषोपसंहारपर्यवसानादर्शापरपक्षमृतावपि सान्यौरसक्षेत्रजावेव पार्वणं कुर्यातां न निरग्निपुत्रा इति वर्णयन्ति । तदेतद्विचारणीयम् । कि नियमप्रतिपादनं न्याय्यभुत विशेयोपसंहार इति । तत्र यदि नियमप्रतिपादनं न्याय्यमित्युच्यते तदा दर्शापरपक्षमृति विनाऽपि साग्नेः पार्वणविधानमनर्थकं स्यात् । यथाह सुमन्तुः-प्रत्यब्दमितरे कुयुरकोद्दिष्टं सुता दश । अनग्निमानौरसश्च कुर्यात्साग्निस्तु पार्वणम् । पुलस्त्योऽपि-अनग्नेरौरसस्योक्तमेकोद्दिष्टं मृतेऽहनि । प्रत्यब्दं पार्वणं साग्नेरन्येपां तु न पार्वणमिति । अथ विशेयोपसंहारो न्याय्यस्तर्हि साग्नेरेव पार्वणस्य विहितत्वात् । दर्शापरपक्षमृतावपि तस्यैव पार्वणं निरग्नेनातोमायां वा क्षयो यस्येति वाक्यं साग्निविषयमेवोपसंहरणीयमिति विशेषोपसंहार एव युक्तः प्रतिभाति । तथा च श्राद्धकल्पलतायां-इन्दुक्षये प्रेतपक्षे विपत्तिश्चेहिजन्मनः । साग्निकः पार्वर्ण कुयो। देकोदिष्टं निरग्निकः । इति । तस्मादौरसस्यैव कलौ प्रचुरत्वात्स एव साग्निापरपक्षमृती पार्वणं