________________
काण्डका ४]
परिशिष्टम् । वादे-धर्मज्ञा यदि शूद्राः प्रकुर्वते । अग्नौकरणमन्त्रोऽस्य नमस्कारो विधीयते इत्यग्नौकरणनिषेधान्नमस्कारविधानात् । अथवा विहितप्रतिपिद्धत्वात् सपिण्डकापिण्डकविषयौ विधिनिषेधौ । प्रकृतमधुनोच्यते । अत्रैक उद्दिष्टो यत्र तदिति व्युत्पत्तेर्नवं नवमिश्र पुराणं चेति त्रिधैकोद्दिष्टम् । तत्रैकोद्दिष्टमित्यनेन किमुच्यते । तथा चाभिराः-प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा । नवमैकादशे चैव नवश्राद्धानि षटू तथा । इति। आश्वलायनगृह्यपरिशिष्टम्-नवश्राद्धं दशाहानि नवमिश्र तुषड्तु । अतः परं पुराणं वै त्रिविधं श्राद्धमुच्यते । हारीतोऽपि प्रायश्चित्तेष्वाह-चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयत इति । तत्रैक आहुःक्षयाहे पार्वणस्यैवोक्तत्वात्तैकोद्दिष्टमेवैतदिति । तदयुक्तम् । स्वदितमिति तृप्तप्रश्न इत्याद्यनस्य प्रेतश्राद्धेषु निरस्तत्वात् । न चैतन्मासिकादि नवश्राद्धं भवितुमर्हति । पित्रादिशब्दप्रयोगाभावात् । तस्मात्पुराणैकोद्दिष्टमेवैतदिति युक्तम् । अतश्चावाहनादिनिषेधविशेषवजे सर्वाङ्गमत्र भवतीति विशेषविधिनिषेधयोः शेषाभ्यनुज्ञाफलकत्वादिति न्यायात् । 'एकोऽर्घ एकं पवित्रमेकः पिण्डः, कर्तव्य इति यथालिङ्गं वाक्यशेषः । पवित्रविशेषणत्वाल्लिङ्गव्यत्ययः । पूजाविधिर्वा प्रकृतितस्त्वनेकप्रसक्तौ विकृतित्वात्प्रतिषेधः । तदुक्तम्-प्रसज्यमानः प्रतिषिध्यत इति । भट्टोऽपि-इष्टा सर्वत्र शास्त्रेषु निवृत्तिः प्राप्तिपूर्विका । तदभाव(?)विशेषोऽत्र नहि दृष्टो द्वयोरपि । इति । पवित्रं प्रादेशमानं कुशैकदलम् । अत्र केचित्प्रत्यवतिष्ठन्ते-दर्भः पवित्रमित्युक्तमिति वचनात् । त्रिशाखस्तु भवेदर्भश्चतुःशाखः कुशः स्मृतः । पञ्चशाखस्तु निधिपः षट्शाखं तु पवित्रकमिति । पारिभापिकत्वाच्च पवित्रं पशाखैककुशमिति । तदयुक्तम्-पार्वणेपु च सर्वेषु पवित्रं द्विदलं स्मृतम् । एकोद्दिष्टे तु तत्प्रोक्तं पवित्रं द्विदलं नृप। एकोद्दिष्टे शलाकैकेति भगवतश्चतुर्विंशतिमतवचनाभ्यामुल्लेखोपपत्तेः। एकशब्दपौनरुत्त्यं विस्पष्टार्थम् । ननु चैकोद्दिष्टमित्यनेनैव पिण्डैकोपलव्धेः एकग्रहणं किमर्थम् । उच्यते-- पिण्डविच्छित्तिनिषेधार्थमष्टाइपिण्डविध्यर्थं चेत्यदोषः । तदुक्तम्-तिथिच्छेदेन कर्तव्यं विनाश्राद्धं यदृच्छया । पिण्डश्राद्धं च दातव्यं विच्छिन्नं नैव कारयेत् । निषिद्धदिनेऽपीति शेषः । श्राद्धशब्देन ब्राह्मणभोजनम् , पिण्डशब्दस्य पृथगुपादानात् । चकारोऽग्नौकरणार्थः । तेन सति संभवे ब्राह्मणभोजनं पिण्डदानं च क्षयाहे कार्यम् । भोजनाभावे तु पिण्डमात्रमपि कार्यमिति विच्छित्तिशब्दार्थ इति माधवीये । आहिताग्नेः पित्रर्चनं पिण्डैरेव ब्राह्मणानपि वा भोजयेदिति निगमस्मृतौ वाशब्दस्य संभवासंभवेन व्यवस्थितत्वात् । एवं च सत्याब्दिकमन्नेनैव कर्तव्यं नामान्नेनेत्युक्तं भवति । तथा च मरीचिः-अनग्निकः प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धं प्रकुर्वीत न तत्कुर्यान्मृताहनीति । लौगाक्षिरपि-पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः । अन्नेनैवाब्दिकं कुर्याद्धम्ना वामेन वा कचित् । क्वचिदिति दर्शे रविग्रहे क्षयाहे सतीत्यर्थः । तथा च गोमिल:-दर्श रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । अन्नेनासंभवे हेन्ना कुर्यादामेन वा सुतः । इति । अत्राप्यसंभव इति विशेषणात्संभवे अन्नेनैवेत्युक्तम् । श्राद्धविन्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । अमावास्यादिनि यतं माससंवत्सराहत । इति हारीतोक्तेः । अष्टाङ्गत्वमाह वृद्धयाज्ञल्क्यः-मधुवातं गव्यघृतं पानीयं पायसं तथा । कुतपतिलसंयुक्तं ज्योतिश्चैवाष्टमी तथा । कपित्थश्रीफलाकारः पिण्डोष्टाङ्गः स उच्यते । तिलैरुत्पाद्यते मूर्धा क्षीरैर्वाहू घृतेन हृत् । मधुना चैव नासा च तोहस्तौ तथा परौ । ज्योतिश्चैवारुजीव:)स्यापिण्डनिर्वपणं स्मृतम् । यत्तु-मधु चाज्यं जलं चाय पुष्पधूपविलेपनम् । बलिं दत्त्वा तु विधिवत्पिण्डोऽष्टाङ्गो भवेद्यथेति ब्राह्मवचनं तत्पार्वणविपयम् । पूर्ववचनस्य क्षयाहप्रकरणोक्तत्वात् । नावाहनाग्नौकरणं नात्र विश्वेदेवाः। अत्रैकोद्दिष्टे विकृतित्वादावाहनाद्यङ्गं न भवतीत्यर्थः । नन्वयं विशेषनिषेधार्थम् । अत्राह पद्धतिकृयज्ञदत्तः-एकोद्दिष्टे स्वधावाचनं न भवतीति । तन्न । पिण्ड