________________
४९४
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
I
तथा-
यथाविधीति । अस्यार्थः --- पूर्व मश्मन्यवनेजनं निनयेत्ततस्तत्रापि पिण्डनिर्वपणाख्यं श्राद्धं कुर्यात्पञ्चाच तत्रैव पिण्डप्रत्यवनेजनं दद्यात् । पूर्वमिति प्रत्यवनेजनमुच्यते । पुर्वपूरण इतिधातोराप्यायनार्थत्वात् । एवं च सत्यनृदुकं पिण्डोदकविवर्जितं चेति पदद्वयं ऊर्जस्वथावाचनाभ्यां प्राप्तावुदकनिपेधकमित्युचितमित्यर्थः । रेणुरपि अन्नं न विकिरेद्भूमौ गृहीयान्नाशिपोऽत्र तु । पात्रालम्भो न चाक्षय्यमासनादिप्रयोगतः । नामगोत्रेण संबन्धरहितं प्रेतशब्दवत् । नवश्राद्धं गृहे कार्य भार्या यत्राग्नयोऽपि वै इति । :--- आसीमान्तं स्वस्तिवाच्यं पिण्डाना च नमस्कृतिः । न पुष्पं पिण्डमूर्धस्थं वन्देद्विप्रकरच्युतम् । सर्ववर्णेषु सर्वत्र प्रेप्यसाधारणो विधिरिति । मत्स्यपुराणे - नित्यं तावत्प्रवक्ष्येऽहमर्थावाहनवर्जितम् । दैवहीनं भवेत्तत्तु नियमादिविवर्जितम् | तीर्थश्राद्धं प्रकुर्वति पाकान्नेन विशेषतः । आमान्नेन हिरण्येन कन्दमूलफलैरपि । एषामभावे कुर्वीत श्रद्धया च जलेन च । तथा — प्राह्मणान्न परीक्षेत तीर्थे कालं न चिन्तयेत् । प्राप्ततीयों यदा विद्वांस्तदा श्राद्धं समाचरेत् । आवाहनं न तीर्थे स्यादर्घदानं न वा भवेत् । आहूताः पितरस्तीर्थं कृतार्थाः सन्ति वै द्विजाः । तथा आवाहनं न दिग्बन्धो न दोपो दृष्टिसभवः । सकारुण्यं च कर्तव्यं तीर्थश्राद्धं विचक्षणः । भविष्येऽपि देवाश्च पितरो यस्माद्गङ्गायां तु सदा स्थिताः | आवाहनं विसृष्टिश्व तत्र तेषां न विद्यते । सकारुण्यमित्यनेन पितृव्यभ्रात्रादीनां पुत्रिणामपि तीर्ये श्राद्धं यथोपदेशं कर्तव्यमित्यर्थः । कायजिनः - मौजीबन्धाद्विवाहाच वर्षा वर्षमेव वा । पिण्डान्सपिण्डा नोदद्युः सपिण्डीकरणादृते । इति । सपिण्डीकरणं पोडशश्राद्धोपलक्षणम् । संग्रहकारोऽपि विवाहोपनयादूर्ध्वं वर्ष वर्षार्धमेव वा । न कुर्या - पिण्डनिर्वापं न दद्यात्कारणादि (?) वै । अत्रापवादस्तेनैवोक्तः । महालये गया श्राद्धे मातापित्रो - मृतेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः । इति । क्षयाकोद्दिष्टं तूक्तं सूत्र - कृता नावानमित्यादि । आमश्राद्धं तु आचारतिलके । आमश्राद्धमनङ्गुष्ठमनौ करणवर्जितम् । तृप्त प्रश्नविहीनं तु कर्तव्यं मानवैर्युवम् । धर्मप्रदीपे - आवाहनानौकरणं विकिरं पात्रपूरणम् । तृप्तप्रश्नं न कुर्वीत आमहेशोः कदाचन । इति । एतद्विपयमुपरिष्टाद्वक्ष्यामः । अपिण्डके तु अग्नकरणमर्ध च आवाहनावनेजनम् । पिण्डश्राद्धेषु कुर्वीत पिण्डहीने निवर्तते । पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते । स्ववावाचनलोपोऽस्ति विकिरस्तु न लुप्यते । अक्षय्यदक्षिणा स्वस्तिसौमनस्यं यथास्थितम् । धर्मप्रदीपेऽपि - आवाहनं तथाऽर्थं वै अग्नौकरणमेव च । अक्षय्यापोस्य त्रिकरं पिण्डहीने विवर्जयेदिति । इदं चाक्षय्यवर्जनमात्तत्या पिण्डाकरणविषयम् । शक्तौ तु यथास्थिति विहितत्वात् । स्मृतिसंग्रहे - अङ्गानि पितृयज्ञस्य यदा कर्तु न शक्नुयात् । संकल्पश्राद्धमेवासौ कुर्यादर्घादिवर्जितम् । आपस्तम्बोऽपि — संकल्प श्राद्धे अर्घावाहनानौकरणपिण्डस्वधावाचनानि वर्जयेदिति । व्याध्यादिना यथावद्विस्तृतं पार्वणं कर्तुमशक्तः संकल्पश्राद्धमेव कुर्यादित्यर्थः । विकिव्यवस्था च तदभाव एवोक्ता । हेमश्राद्धे तु चौधायनः - संक्रमेऽन्नद्विजाभावे प्रवासे पुत्रजन्मनि । हेमश्राद्धं संग्रहे (?) च द्विजः शूद्रः समाचरेत् । आर्तवेऽन्नद्विजाभावे ग्रहणे देशविप्लवे । आमश्राद्धं द्विजः कुर्याच्छूद्रः कुर्यात्सदैव हीति । गालवः --- - तीर्थेऽनग्नावापदि च देशभ्रंशे रजस्यपि । हेमश्राद्धं द्विजः कुर्याच्छूद्रः कुर्यात्सदैव हीति । अन्यत्स्मृतिभ्यो ज्ञेयम् । अत्रैतञ्चिन्त्यते - किमामश्राद्धेऽनौकरणं स्यादुत नेति । अत्रैक आहुः - सिद्धान्नेन विधिर्यस्मादाम श्राद्धेऽप्यसौ विधिः । आवाहनादि सर्व स्यात्पण्डदानं च भारत । दद्याद्यद्यद्विजातिभ्यः नृतं वा यदि वाऽश्रुतम् । तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेदित्यतिदेशेनाग्नौ करणं भवतीति । तदयुक्तम् — अतिदेशस्य ब्राह्मणविषयत्वात् । तथा च कल्पलतायां-आमश्राद्धं यदा कुर्याद्विधिज्ञः श्राद्धदस्तदा । हस्तेऽनौकरणं कुर्याद्राह्मणस्तु विशेषतः। इति । अतश्चामश्राद्धेऽग्नौकरणनिषेधः शूद्रविषयो भवितुमर्हति । कि च भविष्यत्पुराण धर्मसं
1
I