________________
कण्डिका ४] परिशिष्टम् ।
४९३ देशकालक.क्यात्तन्त्रेणानुष्ठानसिद्धिः । पृथगनुष्ठानपक्षे त्वादी स्वतन्त्रेणैकोद्दिष्टं ततो नवश्राद्धं ततो मासिकमिति स्मृत्यर्थसारे । तत्रैकादशाहे आद्यमासिकश्राद्धे एकादशब्राह्मणानामामन्त्रणम् । पूर्वेनः स्नात्वा विप्रेषु प्रेतनियोजनम् । गतोऽसि दिव्यलोके त्वं कृतान्तविहितात्पथः । मनसा वायुभूतेन विप्रे त्वाऽहनियोजये । पूजयिष्यामि भोगेन एवं विप्रे निवेदयेत् । अस्तमिते विप्रनिवेशनम् । पाद्यं दत्वा नमस्कृत्य तैलेन पादौ प्रक्षालयेत् । उदिते विप्रस्य केशश्मश्रुनखच्छेदं कारयित्वा स्नानाभ्यञ्जनं च दद्यात् । ततो भूमिभागग्रहणम् । महास्थण्डिलस्य करणम् । नद्यादौ सचैलं स्नात्रा तीर्थानि मनसा ध्यात्वा आत्मनोऽभ्युक्षणम् । एवं शुद्धिमृत्वा ब्राह्मणानामावाहनम् । आगतं दृष्ट्वा खागतकरणम् । अर्घ्यपाद्यदानम् । आसनोपकल्पनम् । आसने उपवेशनम् । छनोपानहदानम् । तिलोपचारकरणम् । नामगोत्रमुदाहृत्य प्रेताय तदनन्तरम् । शीव्रमावाहयेद्विप्रे दर्भहस्तोऽय भूतले। तत्र मन्त्रः- इहलोकं परित्यज्य गतोऽसि परमाङ्गतिम् । मनसा वायुरूपेण विप्रे त्वां योजयाम्यहम् । एत्रमावाह्य तं गन्धपुष्पधूपैः समर्चयेत् । ततो वस्त्राभरणदानम् । पक्वान्नदानम् । अष्टादशपदार्थवर्जितं सकलं श्राद्धम् । वासोहिरण्यदास्युपानच्छत्रोदकुम्भानां गुणवते ब्राह्मणाय दानम् । ततः स्नानम् । तत एकादशभिर्ब्राह्मणै रुद्रश्राद्धम् । ततः स्नानम् । विष्णुपूजनम् । प्रेतोद्देशेन त्रयोदशकुम्भदानम् । त्रयोदशपदानम् । भाजनानि सतिलानि त्रयोदश देयानि । मुद्रिकावस्त्रयुग्मच्छत्रोपानहदानम् । अश्वरथगजमहिषीशय्यादानम् । गोभूतिलहिरण्यादिदानम् । ताम्वूलपूगदानम् । एकादशाहादारभ्याव्दं यावत्सान्नघटदानम् । देवालये पाषाणे वा उपदानदानम् । ऋणधेनुदानम् । ततो वैश्वदेवः ॥ ॥ इति क्रियापद्धतिः ॥ ४॥ ॥ * ॥
इति नवकण्डिकागदाधरभाष्ये एकोद्दिष्टप्रकरणम् । . (श्राद्ध०)-उक्तं प्रकृतिश्राद्धमिदानी विकृतिश्राद्धमुपक्रमते ' अथैकोहिष्टम् ' अथशब्दः आनन्तर्ये । प्रकृतिश्राद्धानन्तरं विकृतिश्राद्धमेकोदिष्टमुच्यत इति शेषः । अथवा अथशब्दोऽधिकारार्थः । एकोहिष्टमिति विकृतिश्राद्धोपलक्षणम् । ततश्च प्रकृतिवद्विकृतिन्यायात्सर्वाङ्गप्राप्तौ विकृतिश्राद्धानि यथोपदेशं प्रधानाङ्गहीनानि भवन्तीत्यधिक्रियन्त इत्यर्थः । तानि च युगादिमन्वादिसंक्रान्तिमघाभरणीरविवारप्रेतषोडशकनवनित्यतीर्थविवाहोपनयोर्ध्वक्षयाहामहेमापिण्डकसंकल्पश्राद्धनि । तथा हि मत्स्यपुराणादिपु-अयनद्वितये श्राद्धं विपुवद्वितये तथा । संक्रान्तिपु च सर्वास पिण्डनिर्वपणाहते । पुलस्त्यः-युगादिपु च कुर्वीत पिण्डनिर्वपणाहते । तथा युगादौ पितृनक्षत्रे तथा मन्वन्तरादिपु । अर्थपिण्डं न कुर्वीत वैष्णवं श्राद्धमाचरेत् । वैशाखस्य तृतीयायां नवम्यां का. र्तिकस्य च । श्राद्धं संक्रान्तिवत्र्यापिण्डनिर्वपणं विना | मघायुगादौ भरण्यां संक्रान्तौ रविवासरे। पिण्डदानं न कुर्वीत यदीच्छेत्सुतजीवितम् । सूतः-मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति । कनीयांस्तु त्रयोदश्यां क्षयादभ्युदयाहते । प्रेतश्राद्धेपु सुमन्तुः-विकिरं नैव दातव्यं न कुर्यादाशिर्ष जपम् । षडजलीन्न कुर्वीत एकोद्दिष्टेषु सर्वदा । आशिषो द्विगुणा दी जपाशी:स्वस्तिवाचनम् । पितृशब्दः ससंबन्धः शर्मशब्दस्तथैव च । पात्रारम्भोऽवगाहश्च उल्मुकोल्लेखनादिकम् । तृप्तप्रश्नश्च विकिरः शेपमन्नं तथैव च । प्रदक्षिणा विसर्गश्च सीमान्तानुत्रजस्तथा । अष्टादश पदार्थांश्च प्रेतश्राद्धे विवर्जयेन् । सत्यवतः-अनूदकमधूपं च गन्धमाल्यादिवर्जितम् । नवश्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् । अनूदकमिति दीर्घ छान्दसम् । अवनेजनोदकरहितम् । अनूदकं पिण्डोदकविवर्जितम् । अत्रनेजनप्र. त्यवनेजनरहितमिति कश्चित् । तन्नोचितम् । स्मृत्यन्तरे तयोः सद्भावप्रतीतेः। तथा च-अनूदकमधूपं च गन्धमाल्यविवर्जितम्। निनयेदश्मनि पूर्व ततः श्राद्धं प्रकल्लयेन् । पञ्चाच निनयेत्पूर्व तस्मिन्नेव