________________
४९२
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
1
तस्य च श्रपणानुपदेशात्सिद्ध एवोपादीयते । होतुर्वखयुग्मं सुवर्णकांस्यादिदक्षिणा च । ब्रह्मणः पूर्णपात्र वरो वा दक्षिणा । इति पात्रासादनम् । चरुस्थालीमेक्षणयोरुपकल्पनम् । पवित्रकरणम् । प्रोक्षणीसंस्कारः । ततो यथाssसादितानां प्रात्राणां प्रोक्षणम् । असभ्चरे प्रोक्षणीनान्निधानम् । आज्यस्थाल्यामाज्य निर्वापः । चरुस्थाल्यां प्रणीतोदकं पय आसिच्य सपवित्रायां तण्डुलावाप: । ब्रह्मण आयाधिश्रयणम् । स्वयमेव चरोरधिश्रयणम् । उभयोः पर्यनिकरणम् स्रुवप्रतपनम् । स्रुवं संमृज्य I पुनः प्रतपनम् । प्रणीतोदकेनाभ्युदय देशे निधानम् आज्योद्वासनम् । उत्पूयावेक्षणम् । प्रोक्षण्युत्पवनम् । उपयमनकुशाढानम् | समिधोऽभ्याधानम् । प्रोक्षण्युदकेनं पर्युक्षणम् । तत इहरतिरिति पडाहुतीर्जुहुयात् । ॐ इहरति स्वाहा ॐॐॐ इह रमध्वः स्वाहा आँ धृतिः स्वाहा ॐॐॐ इह स्वधृतिः स्वाहा । एतेषामिदं पशुभ्यः इति त्यागः । इहरतिः पशुदेवत्य इति सर्वामुकमण्यामुक्तत्वात् । ॐ उपसृजन्धरुणम्मात्रे धरुणो मातरं धयन्स्वाहा । इदमग्नये । ॐ रायस्पोषमस्मासुदीधरत् स्वाहा । इदमग्नये । तत आधारावाज्यभागौ । ॐ प्रजापतये स्वाहा । ॐ इन्द्राय स्वाहा । ॐ अग्नये स्वाहा । ॐ सोमाय स्वाहा । ततः पायसचरोहोंमः । ॐ अग्नये स्वाहा ॐ रुद्राय स्वाहा । ॐ शर्वाय स्वाहा ॐ पशुपतये स्वा ॐॐ उग्राय स्वाहा ॐ अशनये स्वाहा ॐ भवाय स्वाहा ॐ महादेवाय स्वाहा ॐ ईशानाय स्वाहा । यथा दैवतं त्यागाः । ततः पिष्टचरुहोमः । ॐ पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः । पूपा वाजान्सनोतु नः स्वाहा । इत्येकामाहुतिं जुहुयात् । इदं पूष्णे । ततः पायसपिष्टच - रुभ्यां स्विष्टकृत् । ॐ अग्नये स्विष्टकृते स्वाहा । इदमग्नये स्विष्टकृते ० । ततो भूराद्या नवाहुतयः । ॐॐॐ भूः स्वाहा ॐ भुवः स्वाहा ॐ स्वः स्वाहा ॐ त्वन्नो अग्ने० ॐ सत्वन्नो अग्ने० ॐ अयाञ्चाग्ने० ॐ ये ते शतं० ॐ ॐॐ उदुत्तमम् ० भवतन्न० । ॐ प्रजापतये स्वाहा | संस्त्रवप्राशनम् । आ० पवित्राभ्यां मार्जनम् । अग्नौ पवित्रप्रतिपत्तिः । ब्रह्मणे पूर्णपात्रवरयोरन्यतरस्य दक्षिणात्वेन दानम् । प्रणीताविमोकः । ततोऽश्वत्थपत्रयुक्तकलशे रुद्रमावाह्य गन्धमाल्यादिभिः संपूज्य हस्तेन कलशं स्पृशन् रुद्राध्यायं जपेत् ततः पुरुषसूक्तम् । कुष्माण्डीसंज्ञिकम् । यद्देवादेव हेडनमिति तिस्रऋचः । पडसरुद्रजपो वा । गरुडपुराणवचनात् । ततो वृषवत्सतरीणां लापनम् अलङ्करणम् । चक्रत्रिशूलकरणम् । अङ्कनम् । वृपस्य कर्णे जपः । वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः । वृणे हितमहं भक्त्या समा रक्षतु सर्वतः । ततो गृहीतपुष्पाञ्जलिर्वृषं त्रिः प्रदक्षिणीकृत्य नमस्कुर्यात् । ततो वृषवत्सतरीणां वस्त्रेण संश्लेपः । अयं हि तो मया दत्तः सर्वासां पतिरुत्तमः । तुभ्यं चैता मया दत्ता परन्यः सर्वा मनोरमाः । ततश्चतुः कृत्वोऽग्निं प्रदक्षिणीकृत्य वत्सतरीणामग्निप्रदक्षिणाश्चतस्रः कारयित्वा पुच्छे पुरुसूक्तेन प्रेतनाम्ना च तर्पणं कार्यम् । तत उत्सर्गः । अद्येत्यादिदेशकालौ स्मृत्वा एतं वृषं रुद्रदैवतं यथाशक्त्यलंकृतं गन्धाद्यर्चितमेवंविधवत्सतरीसहितममुकगोत्रस्यामुकप्रेतस्य प्रेतत्वमुक्तयेऽहमुत्सृजामि । एवं युवानं पतिं वो ददामि तेन क्रीडन्तीश्चरथ प्रियेण । सा नः साप्तजनुषा सुभगा रायस्पोषेण समिषा मदेमेति सव्येन पाणिना वृषपुच्छं गृहीत्वा दक्षिणेन कुशतिलसहिता अप आदाय अमुकगोत्रायामुकप्रेताय एष एवं मया दत्तः सन्तारयितुं सर्वदा इत्युच्चार्य तिलहिरण्यसहितमुदकं भूमौ निक्षिपेत् । ततो वत्सतरीमध्यस्थितस्य वृषस्य मयोभूरभिमा वाहिस्वाहेत्यादि स्वर्णसूर्यः स्वाहेत्यन्तेनानुवाकशेपेणाभिमन्त्रणम् । ततो दक्षिणस्कन्धेन वृपप्रेरणम् । यथेष्टपथं पर्यटेति । ततः शक्त्यनुसारेण पायसेन ब्राह्मणानां भोजनम् । सहिरण्यस्य रुद्रकुम्भस्य घेनोश्च होत्रे प्रदानम् । इति वृषोत्सर्गः ॥ ॥ ततस्तन्त्रेण चत्वारि श्राद्धानि । आद्यन्नवश्राद्धं प्रथमदिनवत् । तदुक्तहरुडपुराणे स्मृतौ च -- प्रथमेऽह्नि तृतीये वा पञ्चमे सप्तमेऽपि वा । नवमैकादशे चैव नवश्राद्धानि कारयेत् इति । पूर्वदिवसमारभ्य न कृत चेदेकाशे हि कुर्यात् । नवश्राद्धानामन्त्यमासिकानामाद्यं स्वतन्त्र मे कोद्दिष्टमेवेति तत्र स्वतन्त्रैकोद्दिष्टे क्रियमाणे