________________
कण्डका ४ ]
परिशिष्टम् ।
नवश्राद्धप्रथमदिनवत् । इति नवमदिनकृत्यम् । दशमेऽहनि शरीरपूरणार्थे पिण्डदानम् कुम्भभोजनदानम् । दशा जलयो दशपात्राणि, एकोनविंशतिर्जलाञ्जलयो वा । अथ वा दशाहमध्ये प्रत्यहंदशाजलय एव देया: न पात्राणि । अत्र पिण्डत्रयदानम् । एकं तत्सखिभ्यो द्वितीयं प्रेताय तृतीयं यमाय । तत्र देशकालौ स्मृत्वा प्रेतस्य प्रेतत्वनिवृत्त्यर्थे पिण्डदानमहङ्करिष्ये । प्रेतसखायः अवनेनिग्ध्वम् । गोत्र प्रेत अवनेनिक्ष्व यम अवनेनिक्ष्य दर्भास्तरणम् । अवनेजनक्रमेण पिण्डदानं प्रत्यव - जनश्च । पिण्डानामुदके प्रक्षेपः । ततः सूतक निवृत्त्यर्थं सर्वे केशश्मश्रुवपन कारयेयुः नखलोम निकृन्तनश्च । ततः सर्वेषां सचैलस्नानम् । इति दशाहसम्बन्धि कर्म समाप्तम् || || दशाहमध्ये दर्शपाते दर्शदिन एव सर्वे दशाहिकं कर्म समापनीयम्, न त्रिरात्रादर्वागिति केचित् । पित्रोस्तु यावदा'शौचं दशाहे एवेति मदनपारिजातकारः । अन्येषांतु मातृपितृव्यतिरिक्तानां प्रथमदिनप्रभृतिदर्शपाते सर्व समापनीयमेव । एतच्च प्रेतनिर्हरणादिकं यतिव्यतिरिक्तानां प्रथमत्रयाणामाश्रमाणां कुर्यात् । तथा च स्मृतिः- त्रयाणामाश्रमाणाञ्च कुर्याद्दाहादिकाः क्रियाः । यतेः किञ्चिन्न कर्तव्यं न चान्येपाङ्करोति स इति । तथा । एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रियाम् । न कुर्यात्पार्वणादन्यद्ब्रह्मीभूताय भिक्षवे । अहन्येकादशे प्राप्ते पार्वणं तु विधीयत इति । ब्रह्मचारी त्वाचार्योपाध्यायमातृपितृव्यतिरिक्तानां निर्हरणादिकं न कुर्यात् । यथाह याज्ञवल्क्यः - आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं दत्वा त्रिरात्रमशुचिर्भवेत् । इति । आचार्यपिनुपाध्यायान्निर्हत्यापि व्रती व्रती । सूतकान्नं च नाश्नीयान्न च तैः सह संवसेत् इति । यदि च मोहात्करोति तदा ब्रह्मचर्यव्रतात्प्रच्यवते । पुनरुपनयनेन शुद्धयतीति । सपिण्डीकरणान्तानि श्राद्धानि लौकिकाग्निना कार्याणि । तदुक्तम् --- सपिण्डीकरणान्तानि प्रेतश्राद्धानि यानि वै । तानि स्युलौकिके बह्नावित्याह चावला - यनः ॥ ॥ अथैकादशाहविधिः । तत्र साग्नेर्दाहदिनादारभ्यैकादशाहे निरग्निकस्य तु मरणदिनादार - भ्यैकादशाहे कर्ता विधिवत्नात्वा पोडशोपचारैर्विष्णोः पूजनं तर्पणं च कुर्यात् । तन्त्र समन्त्रकप्राणायामत्रयं विधाय देशकालौ संकीर्त्यांमुकगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थं श्रीविष्णोः षोडशभिरुपचारैः पूजनपूर्वकं तर्पणमहङ्करिष्ये । तत्र सर्वौषधितुलसीदुग्धमिश्रमञ्जलिं कृत्वा दक्षिणाभिमुखो यज्ञोपवीती ऋजुदभैर्देवतीर्थेन हस्तेनैव तर्पणं कुर्यान्न शङ्खेन । सहस्रशीर्षा पुरुषः इतिपोडशभि: प्रत्यृचं तर्पणम् । अनादिनिधनो देवः शङ्खचक्रगदाधरः । अक्षय्य पुण्डरीकाक्ष प्रेतमोक्षप्रदो भव । पापहा महाविष्णुस्तृप्यतु । गोविन्दस्तृप्यतु | नारायणस्तृ० । युञ्जते मनः । इदं विष्णुः । इरावती० | देव
1
४९१
5
देवेषु । विष्णोर्मुकं । दिवोवा० । प्रतत् । विष्णोरराटम् । इत्यष्टौ । अदित्यै० । दिवि विष्णुः । अग्नेस्तनूः रक्षोहणं० । रक्षोहणोवो० । अत्यन्याम् । विष्णोः कर्माणि । तद्विष्णोः । वाचस्पतये । उपयामगृहीतोस्यादित्येभ्यस्त्वा । विष्णोः क्रमोसि । तद्विप्रासः । त्रीणिपदा । अनेन विष्णुतन तत्वनिवृत्तिरस्तु । इति पुराणोक्तं विष्णुतर्पणम् । ॥ अथ वृषोत्सर्गः । तत्र देशकालौ स्मृत्वा प्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाह श्राद्धादिकर्तृयोग्यताप्राप्यर्थे च वृषोत्सर्गङ्करिष्ये इति सङ्कल्पः । ततो वस्त्रचन्दनपुष्पताम्बूलादिना होतृब्रह्माणौ वृणुयात् । कर्कमते तु ब्रह्मवरणमात्रम् । होमस्य स्वकर्तृकत्वात् । अस्माकं तु पुराणे दृष्टत्वादुभयवरणमत्र । ततः स्वयं पश्चभूसंस्कारान्कृला आवसध्याः स्थापनम् । ततोऽष्टानां कलशानां स्थापनम् । ततः प्रतिष्ठा । इमे कलशाः सुप्रतिष्ठिता भवन्तु । होतृब्रह्मप्रणीतानामासनदानम् । ब्रह्मोपवेशनम् । प्रणीतापात्रमध्ये पिष्टादिना व्यवधानं कृत्वा मूलदेशे पय इतरत्र जलं प्रक्षिप्य प्रणयनमनेरुत्तरतो निधानं परिस्तरणमग्नेरुत्तरतः पञ्चाद्वा पात्रासादनम् । तद्यथा । पवित्रच्छेदनानि । पवित्रे द्वे । प्रोक्षणीपात्रम् | आज्यस्थाली । संमार्गकुशाः । उपयमनकुशा: । समिधस्तिस्रः । स्रुवः 1 आज्यम् । तण्डुलाः । पौष्णञ्चरुः पिष्टमयः ।