________________
४९०
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
1
श्रद्धं कुर्यात् । ततस्तूष्णीं पूर्ववत्कर्म । युग्मा विप्राः । तूष्णीं निमन्त्रणादि । पादप्रक्षालनम् । आचमनम् । उपवेशनम् । तूष्णी प्राणायामः । द्विराचमनम् । देशकालौं स्मृत्वाऽमुकसगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेको द्दिष्ट विधिना प्रथमदिवसानिमित्तं नवश्राद्धमहं करिष्ये । उपहारप्रोक्षणम् । तिलदुर्भविकिरणम् । आचमनम् । आमान्नसङ्कल्पः । इदमामान्नं ते उपतिष्ठतु । तिलविकिरणम् । दक्षिणाग्रदर्भास्तरणम् | अमुकसगोत्रामुकप्रेतैप ते पिण्ड इति पिण्डद्वयं दद्यात् । अवनेजनप्रत्यवनेजने न रतः । प्रत्येकं गोत्रोच्चारणादि सूत्रदानम् । न पूजनम् । आचम० । आमान्नसं० | अक्षय्योदकदानम् । अमुकसगोत्रस्यामुकप्रेतस्य दत्तमुपतिष्ठताम् । दक्षिणादानम् । पिण्डोद्धरणम् । कृतस्य नवश्राद्धविधेर्यन्यूनं यदतिरिक्तं तत्सर्वमित्यादि । पिण्डयोरुद के प्रक्षेप: । एत एव पदार्था अत्र भवन्ति नान्ये । पूर्वन्नवश्राद्धं वा पश्चात्पिण्डदानम् । गर्ते तैलकल्कोष्णोदकानां प्रेतोदेशेन प्रक्षेपः । अमुकसगोत्रामुकप्रेतान जलेन नाहीत्यादि । अथ यस्मिन्नहोरात्रे स मृतो भवति [ तस्य वा ] तस्मिन्नेकस्मिन्मृन्मये पात्रे उदकं द्वितीये क्षीरं कृत्वा यष्ट्यादिकमवलम्ब्याकाशे धारयेत् । अमुकसगोत्रामुकप्रेतात्र स्नाहि पिवेदमिति मन्त्रेण । इति प्रथमदिनकृत्यम् । अथ द्वितीयदिने प्रेतस्य कर्णाक्षिनासिका निष्पत्त्यर्थे पिण्डदानम् । कुम्भभोजनदानम् । द्वाञ्जली द्वे तोयपात्रे । त्रय उदकाञ्जलय एव वा देया न पात्रे । इति द्वितीयदिनकृत्यम् । तृतीये गलांस जवक्षो निष्पत्त्यर्थं पिण्डदानम् । त्रयोऽञ्जलयः । त्रीणि तोयपान्नाणि । अथ वा पञ्चोदकाश्ञ्जलय एव । प्रथमदिवसवन्नवश्राद्धम् । इति तृतीय दिनकृत्यम् ॥ ॥ अथ चतुर्थेऽहनि सञ्चयननिमित्तमेकोद्दिष्टश्राद्धम् । तच्च प्रथमदिनवत् । अनैक एव पिण्डः । श्मशानवासिदेवतानां वलिहरणम् । पुष्पधूपदीपनैवेद्यानि संभृत्य ॐ क्रव्यादमुखेभ्यो देवेभ्यो नम इति मन्त्रेणार्घादिना पूजां कुर्यात् । ततः क्रव्यादमुखेभ्यो देवेभ्यो बलिदानम् । तत्र मन्त्रः । देवा येऽस्मिन् श्मशाने स्युर्भगवन्तः सनातनाः । तेSस्मत्सकाशाद् गृह्णन्तु बलिमष्टाङ्गमक्षयम् । प्रेतस्यास्य शुभांलोकान्प्रयच्छन्त्वपि शाश्वतान् । अस्माकमायुरारोग्यं सुखच श्रियमुत्तमामिति । एवं वलिं दत्वा विसर्जयेत् । पलाशवृन्तेनास्थीनि प्रकटानि कृत्वा अङ्गुष्ठकनिष्ठिकाभ्यामादाय पलाशपुटे प्रासनम् । तत्र शमीशैवालकर्दमानां च प्रासनम् । ततो घृतेनाभ्यज्य सर्वसुरभिभिश्चन्दनागुरुकर्पूर केसर कस्तूरिका भिर्मिश्रणम् । दक्षिणपूर्वायतां कर्पू खात्वा तत्र कुशास्तरणम् । हरिद्रालापितवस्त्रखण्डमास्सृत्य तस्मिन्वस्त्रे वाङ्निवपामि इत्यनेन मन्त्रेणास्थि - क्षेपः । ॐ आत्वा मनसानार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्यामक्षिकायामपार्थं रसे निवपाम्यसावित्यनेन मन्त्रेण वा । असौस्थाने प्रेतनामोद्देशः । पितृमेधं चिकीर्षतः कुम्भे अस्थिसञ्चयनं कर्तव्यम् । अस्मिन्पक्षे कुशास्तरणं हरिद्रालापितवस्त्रास्तरणं कुम्भे एव कर्तव्यमस्थिसंस्कारत्वात् । क्वचिद्भूप्रदेशे कुम्भनिधानं तूष्णीम् । कुम्भमध्येऽस्थिप्रक्षेपे मन्त्रो भवत्येव । इत्यस्थिसञ्चयनम् ॥ चिताभूमिङ्गोमयेनोपलिप्य तत्र तेनैव पूर्वोक्तवलिमन्त्रेण बलि दद्यात् । ततश्चतुर्थ दिवस संबन्धिपिण्डदानम् | नाभिलिङ्गगुद निष्पत्त्यर्थे कुम्भभोजनदानम् । जलाञ्जलयश्चत्वारः चत्वारि जलपात्राणि च । अथ वा सप्ताञ्जलय एव । इति चतुर्थीदिनकृत्यम् । पञ्चमेऽह्नि जानुजङ्घापादनिष्पत्त्यर्थं पिण्डदानम् । कुम्भो जलपूरितः, पश्च जलाञ्जलयः पञ्च पात्राणिच, नवाञ्जलय एव वा । ततो नवश्राद्धं प्रथमदिनवत् । इति पञ्चमदिनकृत्यम् । पष्ठे सर्वमर्म निष्पत्त्यर्थे पिण्डदानम् । कुम्भदानम्, पट् जलाञ्जलयः पद् तोयपात्राणि । अथ एकादशा जलय एव वा । इति पष्ठदिनकृत्यम् । सप्तमेऽहनि नाडिका निष्पत्त्यर्थं पिण्डदानम् । कुम्भभोजनदानम् । सप्ताश्ञ्जलयः सप्त पात्राणि, त्रयोदशालय एव वा । प्रथमदिनवन्नवश्राद्धम् । इति सप्तमदिनकृत्यम् । अष्टमेऽहनि लोमदन्तनिष्पत्त्यर्थे पिण्डदानम् । कुम्भभोजनदानम् । अप्राञ्जलयः अष्टौ पात्राणि । पञ्चदशाञ्जलय एव वा । इत्यष्टमदिनकृत्यम् । नवमेऽहनि वीर्यनिष्पत्त्यर्थं पिण्डदानम् । कुम्भभोजनदानम् । नवा खलयो नवपात्राणि, सप्तदशालय एव वा । ततो