________________
कण्डिका ४]
परिशिष्टम् । च्यते । उक्तं च-आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताग्निरेकेन लौकिकेनेतरे जनाः । अथ पुत्रादिराप्लुत्य कुर्याद्दारुचयं बहु । भूप्रदेशे शुचौ युक्त पश्चाञ्चित्यादिलक्षणम् । तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे । हिरण्यं न्यस्य शिरसि प्रणीताचमसं तथा । शूपें तत्पार्श्वयोरेकञ्चेद्विधा पूर्ववन्यसेत् । श्रवणाकर्मसंबन्धि द्वितीयं पिण्डयज्ञियम् । अण्डयोररणी तद्वत्प्रोक्षणीपात्रमादितः । पात्राणि चान्तरे ऊोंम॒न्मयान्यम्भसि क्षिपेत् । अथाjसजावतो(?) दद्यादक्षिणतः शनैः । पूर्ववज्जुहुयावह्नौ समिद्वजै सुवेण सः । दक्षिणायां सुवं दद्यान्नसि स्क्यं दक्षिणे करे । समिधो वा ततो वह्नि शेष स्यादाहिताग्निवत् । उखाधिश्रयणा(ोरन्तरे पात्रप्रक्षेपान्तं सर्वमाहिताग्निवत् । केवलोपासनाग्निं चितौ मृतं दक्षिणाशिरसं निदध्यान प्राशिरसमिति विशेषः । इत्यावसथ्यसंवन्धिपात्राणां प्रतिपत्तिः । अथ सूतिकामरणे विशेषः । सूतिकायां मृतायां कुम्भे उदकं कृत्वा तत्र पञ्चगव्यं प्रक्षिप्य आपोहिष्ठा इदमाप इत्यादिपुण्यम्भिरभिमन्व्य ब्राह्मणानुज्ञया पञ्चदश प्राजापत्याकृत्वा तेन कुम्भोदकेन शतकृत्वस्तां स्नापयित्वा वस्त्रान्तरेण सर्वा वेष्टयित्वा दाहः कार्यः । रजस्वलामरणेप्येवम् । उदक्या सूतकी वा यं स्पृशति तस्याप्येष एव विधिः । दाहे जाते किश्चित्परिशेपणीयम् । निःशेपस्तु न दग्धव्य इति वचनात् ॥ ॥ अथ स्मार्तमुदककर्मोच्यते । नद्याशुदकसमीपे गमनम् । समीपे स्थितं योनिसम्बन्धिशालकं वा उदकं करिष्यामह इति मन्त्रेणोदकं याचयेयुः सपि-ण्डादयः । यदि शतवर्यादाक् प्रेतो भवेत् तदा कुरुष्वमिति वचनमित्युक्ते सप्तपुरुषसंवन्धिनः सपिण्डाः दशपुरुषसंवन्धिनः समानोदकाश्चैकग्रामनिवासे यावत्स्मृतं जलं प्रविशन्त्येकवस्त्राः । अशिखाः प्राचीनावीतिनः सन्तः । ततः सव्यपाणेरनामिकयाङ्गुल्या जलम् अपनःशोशुचघमित्येतावता मन्त्रेणापनोद्य दक्षिणाभिमुखास्तूष्णी निमजन्ति । कर्कादिभाष्यकाराणां मतेऽपनोदने मन्त्रः। देवयाज्ञिकादिमते निमजने । ततः प्रेतमुद्दिश्यैकेकमञ्जलिं सकृद्भूमौ प्रक्षिपन्ति । अमुकसगोत्रामुकशर्मन्प्रेत एतत्ते उदकमित्यनेन मन्त्रेण । तत उद्काढुत्तीर्य शुचौ देशे शाद्वलवत्युपविष्टान्सपिण्डादीनन्ये सुहृद् इतिहासपुराणादिकथाभिः संसारस्यानित्यतां दर्शयन्तो वदेयुः । शावलं हरिततृणमस्ति यस्मिन्निति शाकुलवान् तस्मिन् शावलवति भूमौ उपविष्टानित्यर्थः । रोदनं न कर्तव्यम् । तदुक्तम्श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो मुझे यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः इति । ततः प्रश्चादनवलोकयन्तः पतिव्यवस्थानेन कनिष्ठानप्रतः कृत्वा ग्राममागच्छन्ति । गृहद्वारसमीपे आगत्य सर्वे त्रीणि त्रीणि निम्बपनाणि दन्तैरवखण्ड्याचम्योदकमग्नि गोमयं गौरसर्पपॉस्तैलमित्येतानि प्रत्येकं स्पृष्ठवा पादेन पाषाणमाक्रम्य गृहं प्रविशन्ति । ततः प्रभृति ब्रह्मचारिणोऽधःशायिनो न किञ्चन कर्म कुर्वन्ति न कारयन्ति । क्रीत्वा लब्ध्वा वा दिवा प्राश्नीयुः । अमांसं पिण्डं दत्वा ततो भोजनम् । भोजनकाले भोज्यादन्नाद्भक्तमुष्टिञ्च प्रेतोद्देशेन भूमौ निक्षिपेत् । अमुकसगोत्रामुकप्रेत भक्तमुष्टिरुपतिष्टतामिति । यावत्प्रत्यहमेकैकमवयवपूरक पिण्डं प्रेताय दद्यात् । तत्र विधिः । स्नानं कृत्वाऽहते आ वाससी परिधाय पिण्डपितृयज्ञवत्तूष्णी पिण्डदानम् । तूष्णीं प्राणायामः । आचमनम् । देशकालौ स्मृत्वाऽमुकसगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थ क्षुत्तषानिवृत्त्यर्थ शिरोनिष्पत्यथै च पिण्डदानं कुम्भभोजनदानमुदकदानं चाहं करिष्ये, इति सङ्कल्पः । अवनेजनम् । अमुकसगोत्रामुकप्रेतावनेनिक्ष्वेति । दर्भास्तरणम् । पिण्डदानम् । अमुकसगोत्रामुक प्रेतैष ते शिरःपूरकपिण्डो मया दत्त इति । पूर्ववत्पुनरवनेजनम् । अनुलेपनपुष्पधूपदीपशीतलतोयकुम्भोर्णातन्तुदान पिण्डे स्मृत्यन्तरोक्तमपि कुर्यात् । ततः पिण्डसमीपे भूमौ एकाचलितोयदानम् । अमुकसगोत्रामुकप्रेत एष ते तोयाञ्जलिरुपतिष्टताम् । इदं तोयपात्रं ते उपतिष्ठताम् । अमुकसगोत्रस्यामुकप्रेतस्यानेन प्रेतत्वनिवृत्तिरस्तु । शुत्तूपानिवृत्तिरस्तु । शिरोनिष्पत्तिरस्तु । पिण्डमुदके प्रक्षिप्य सात्वा नव