________________
४८८ पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रमनम् । आमान्नसङ्कल्पः । पिण्डदानम् । आवाहनार्घार्चनपात्रालम्भनावगाहनविकिरावनेजनरेखाप्रत्यवनेजनगन्धाद्यर्चनाक्षय्योदकदानाशी:स्वधावाचनीयनिपेकाभावः । सन्येन दक्षिणादानम् । दक्षिणाकाले मापान्नजलसंयुक्तकुम्भदानम् । इति मरणस्थाने एकोद्दिष्टविधिना श्राद्धम् । ततो मृतस्थाने शवनाना पिण्डदानम् । अमुकगोत्र अमुकशव इति प्रयोगः । सजलमापानकुम्भदानम् । ततः पूर्ववदेकोदिष्टविधिना द्वितीयं द्वारदेशे श्राद्धम् । श्राद्धान्ते तत्रैव पान्थनाम्ना पिण्डदानम् । पान्थ एतत्ते इति प्रयोगः । मापान्नजलसंयुक्तकुम्भदानम् । सन्तापजाननीनादायानसि शरीरमारोप्य दक्षिणागमनम् । चमगाथाङ्गायन्तो यमसूक्तं च जपन्त इत्येक आहुः । अहरहनीयमानो गामश्वं पुरुपं हजम् । वैवस्वतो न तृप्यति सुराप इव दुर्मतिः । इति यमगाथा । अपेतो यन्तु पणय इत्ययमध्यायो यमसूक्तम् । ततश्चत्वरे प्रेतनाना पिण्डदानम् । मापान्नजलयुक्तघटदानम् । प्रामश्मशानयोरर्द्धमार्गे नीते तत्र पूर्ववदेकोद्दिष्टविधिना श्राद्धम् । अमुकप्रेतस्य दाहार्थ श्मशानं नीयमानस्य अर्द्धमार्गे विश्रामस्थाने श्राद्धमहङ्करिष्ये, इति सङ्कल्पः । श्राद्धान्ते भूतनाम्ना पिण्डदानम् । अमुकभूत एप ते पिण्डः । मापान्नजलसंयुक्तकुम्भदानम् । समे बहुलतृणे देशे क्षीरिण्याचा उद्धृत्य वितानसाधनम् । गार्हपत्याहवनीयदक्षिणाग्निपु सकृत्सकृत्संस्कारकरणम् । तत्र गार्हपत्यादीनां स्थापनम् । सभ्यावसथ्ययोश्चितेरुत्तरतः सप्तसु प्रक्रमेपु स्थापनम् । ततो गार्हपत्याहवनीययोर्मध्ये काप्टैश्विर्ति संचिनुयात् । ततः प्रेतस्य केशश्मश्रुनखलोना छेदनम् । केशादीनानिखननम् । प्राग्नीवमुत्तरलोमं कृष्णाजिनं चितायामास्तीर्य तस्मिन् यजमानं प्राकृशिरसमादधाति । ततः प्रेतस्य करे प्रेतनाम्ना पिण्डदानम् । अमुकप्रेत एतत्तइति । माषान्नजलयुक्तकुम्भदानम् । तत. प्रेतस्याज्येनाभ्यञ्जनम् । मुखे दक्षिणोत्तरनासिकाचक्षुःयोनेपु हिरण्यशकलप्रासनम् । श्रुतौ चितिचयनात्याक् हिरण्यशकलप्रासनमाम्नातम् । सूत्रे तु शाखान्तरादयङ्कमोऽवसितः । चितिचयनात्पूर्व वा कर्तव्यम् । प्रेतस्य वस्खैकदेशं सञ्चयनाथै गृहीत्वा सुगुप्तन्निदधाति । सर्वाणि पात्राणि प्रागग्राण्युत्तानानि वक्ष्यमाणविधिना प्रेतशरीरे निदधाति । जुहूं घृतेन पूरयित्वा दक्षिणे हस्ते सादयति । सव्ये पाणौ रिक्तामुपभृतम् । हृदये ध्रुवां रिक्ताम् । दक्षिणनासिकायां वैकङ्कतं त्रुवम् । कर्णयोः प्राशिवहरणे । शिरसि रिक्तं प्रणीताप्रणयनं चमसम् । कपालानि वा शिरसि, अप्सु वा प्रक्षेपः कपालानाम् । पर्वयो. शू दक्षिणपाचे ऐष्टिकम्, उत्तरपार्श्वे प्रतिप्रस्थातृकर्तृकवरुणप्रघासिकमैष्टिकम् । अकृतवरुणप्रघासस्य ऐष्टिकमेव द्विधा कृत्वा पार्श्वयोरेकैक खण्डमासादयेत् । उदरे पृपदाज्यवतीमिडापात्रीम् । शिश्नसमीपे शम्याम् । अण्डयोः समीपे अरणी। तत्समीपे अधोमुखमुलूखलं मुसलं च । उपवेपाभ्रिश्नतावदानपुरोडाशपात्रीपूर्णपात्रषडवत्तकूर्चप्रमुखानि सर्वाणि पात्राणि ऊर्वोर्मध्ये आसादयेत् । स्मार्तपात्राण्यप्यरणीसहितानि वरुणप्रवासिकानि च तत्रैवासादयेत् । मृन्मयाममयानामप्सु प्रक्षेपः । लोहमयानां च ब्राह्मणाय दानमप्सु प्रक्षेपो वा । त्रेताग्निमिश्चितेरादीपनम् । तत्रैवम् । अग्निचितिपर्यन्तं तृणैराच्छादनं कृत्वा ततस्तान्प्रदीपयेत् । आहवनीयगार्हपत्यदक्षिणाग्न्युत्पन्नवालया चितेरादीपनं यथा भवति तथा विधेयम् । पुत्रो वा भ्राता वाऽन्यो वा ब्राह्मण आहुतिं जुहुयात् । ब्राह्मण एवं क्षत्रियवैश्ययोराहुतिंजुहुयात् न पुत्रो भ्राता वा । गार्हपत्ये आज्यसंस्कारः । अग्निहोत्रहवण्यां सकृद्गृहीत्वा आहवनीये समित्पूर्वकं जुहोति । तत्र मन्त्रः । अस्मात्त्वमधिजातोऽसि त्वयं जायता पुनः । असौ स्वर्गाय लोकाय स्वाहा इत्यनेन मन्त्रेण होमः । ॐ इदमग्नये नममेति त्यागः । असौस्थाने प्रेतस्य प्रथमान्तं नामग्रहणम् । अस्य मन्त्रस्य स्त्रियामप्यूहः । ततोऽग्निहोत्रहवणी मुखे प्रागग्रामासादयेत् । खादिरं सुवं सत्यनासिकायाम् । स्पयं दक्षिणहस्ते । आज्यस्थाल्या ऊर्वोरन्तरे प्रक्षेपः । पात्रत्वाविशेषात् । मृन्मयी चेदप्सु प्रासनम् । अथ प्रसङ्गादावसथ्यसंबन्धिपात्रप्रतिपत्तिरु