________________
कण्डिका ४] परिशिष्टम् ।।
४८७ मिति विसर्गोऽभिरताः स्म इतीतरे ' स्पष्टमेतत् । अत्राग्नौकरणनिषेधादेव पात्रालम्भनिषेधो हुतशेपदानानन्तरं तस्य विहितत्वात् । अमृतंजुहोमीति मन्त्रलिङ्गाद्भुतशेषस्यैव परामर्शात् । हुतशेपाभावे पात्रालम्भाभाव इति निश्चीयते । इति हलायुधभाष्ये ॥ चतुर्थी कण्डिका ॥ ____ अथ प्रयोगः । निमन्त्रणम् । ततो मध्याहनानम् । ततः कर्माङ्गस्नानम् । द्विजेभ्य उदकदानम् । मण्डलकरणम् । द्विजैराचमनकरणम् । पादप्रक्षालनम् । ब्राह्मणस्योपवेशनम् । दीपस्थापनम् । देवताभ्यश्चेति पाठः । सङ्कल्पः । ततो निहन्मि सर्वमिति पाठः । नीवीवन्धनम् । तिला रक्षन्त्वित्यारभ्य दिशि दिशि प्रकिरणान्तम् । जलाभिमन्त्रणम् । पाकप्रोक्षणम् । आसनदानम् । हस्तप्रक्षालनम् । नावाहनम् । नावकिरणम् । जपः एकस्यार्घस्य पूरणम् दानम् । न पात्रन्युन्जीकरणं न संस्रवदानम् । ततो गन्धादिदानम् । नाग्नौकरणम् । पात्रालम्भो न भवतीति हलायुधमतम् । अन्येषां मते तु भवत्येव । अङ्गुष्ठस्यान्नेऽवगाहनम् । तिलविकिरणम् । परिवेषणम् । सङ्कल्पः । उदकदानम् । जपः । अन्नप्रकिरणम् । आचमनम् । उदकदानम् । जपो यथोक्तः । न स्वदितमिति तृप्तिप्रश्नः। सुस्वदितमिति ब्राह्मणा बेयुः । शेषान्नस्यानुज्ञापनादि पिण्डपूजान्तं च पूर्ववत् । एकः पिण्डो देयः । ततः सुप्रोक्षिताद्यक्षतदानान्तम् । अक्षय्योदकदानम् । उपतिष्ठतामित्यक्षय्यस्थाने । प्रार्थनादि उदकासेकान्तम् । दक्षिणादानम् । न विश्वदेवाः प्रीयन्तामिति प्रैषः । प्रार्थनापि न । तिलकम् । पिण्डप्रत्यवधानम् । सव्यम् । अवघ्राणम् । अग्निमत उल्मुकसकदाच्छिन्नयोरग्नौ प्रक्षेपः । पात्रचालनम् । सञ्चराभ्युक्षणम् । ततोऽद्य पूर्वोच्चरितेत्यादि । अभिरम्यतामिति विसर्जनम् । अभिरताः स्म इति प्रत्युक्तिः । अनुगमनम् । गृहप्रवेशः ।। इति नवकण्डिकागदाधरभाष्ये एकोद्दिष्टपद्धतिः ।
अथैकोद्दिष्टप्रसङ्गाक्रियापद्धतिलिख्यते-तत्र सायमाहुत्यां हुतायां यजमानस्य मरणशङ्का वेत्तदैव प्रातराहुतिर्दातव्या । जीवेत्पुनः काले प्रातराहुति व होतव्या । पौर्णमासट्यानन्तरं प्राग्दर्शाद्यदा यजमानस्य मरणशङ्का स्यात्तदैव पिण्डपितृयज्ञवर्जिताममावास्येष्टिं कुर्यात् । तत्पर्यन्तं पक्षहोमः । आह्रियमाणे हविपि चेम्रियेत तदा हविपो दक्षिणाग्नौ प्रक्षेपः । ग्रहणप्रभृतिप्राग्धविरासादनान्मरणं चेद्गार्हपत्ये हविपां दहनम् । आसादनोत्तरकालमाहवनीये । एवं वैश्वदेवपर्वणि कृते यजमानस्य मरणशङ्कायामवशिष्टपर्वणां समापन कार्यम् । सकलेट्यसंभवे वाऽऽज्यं संस्कृत्य पुरोनुवाक्यायाच्याभ्यां स्वस्वहविषा यागः कार्यः । तदसंभवे च केवलेनाज्येन चतुर्ग्रहीतेन प्रधानदेवतायागमानं कुर्यात् । तस्याप्यसंभवे प्रतिदैवतं पूर्णाहुतिंजुहुयात् । अग्नये स्वाहा विष्णवे स्वाहा इन्द्राय स्वाहेनि। असन्नयतस्तु अग्नये विष्णवे इन्द्राग्निभ्यामिति । एवं स्माते पक्षादि सकलङ्कर्म ज्ञेयम् । चरहोमासंभवे देवतानामाज्याहुतिमानं वा । यद्यमावास्यापर्यन्तं यजमानो जीवति तदाऽमावास्यायां दक्षिणाग्निमुद्धृत्य पिण्डपितृयज्ञः कार्यों नाम्यन्वाधानम् । न ब्रह्मासनम् । न चामावास्येष्टिः । कृतत्वात् । सर्वधर्म मरणान्तंभवति । कर्तुरसंभवात् । हविःप्रतिपत्तिविधानाच । अग्निहोत्रहोमेऽप्याहृते हविषि दक्षिणाग्नौ ग्रहणादिप्रागासादनाद्गार्हपत्ये दहनम् । आसादनाद्याहवनीये, एवमेव पशुयागसोमयागादावारब्धेऽन्तरा मरणशङ्कायां यथासंभवं समापनकार्यम् । मृते पुत्रादिः स्नातः कृतापसव्यः सकृत्सकृत्परिसमूहनादिसंस्कारान्कुर्यात् । गार्हपत्यादाहवनीयदक्षिणाग्न्योर्विहरणम् । तिस्र एव स्थालीरेष्टवै इत्यध्वर्युराह । गार्हपत्याहवनीयदक्षिणाग्निपु तिसृणां गोमयशंबलवतीनां मृन्मयीनामुखानामधिश्रयणम् । अत्र सर्वकर्मापसव्येन दक्षिणामुखेन कर्तव्यम् । सभ्यावसथ्ययोरुखाधिश्रयणं न कुर्यात् ।। तौ प्रत्यक्षावेव स्थाल्योर्मध्ये निधाय नीयेत । सर्वासु स्थालीपु चिह्नकरणम् । अथ मरणस्थाने एको द्दिष्टविधिना श्राद्धम्-तत्र सङ्कल्प. । मरणस्थाने एकोदिष्टाद्धमहङ्करिष्ये । उपहारप्रोक्षणम् ।।