________________
४८६ पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्र वलि च निक्षिपेत्तस्मादोजनं च समाचरेत् । मौनेन दृश्यते सूर्यो यावत्तावन्नराधिप । यश्चैवास्तमिते सूर्ये भुते च श्राद्धकन्नरः । व्यर्थतां याति तच्छ्राद्धं तस्माद्रात्रौ न भोजयेदिति । नियमानाह वृहस्पतिः-तां निशां ब्रह्मचारी स्याच्छ्राद्धकृच्छ्राद्धिकैः सहः । अन्यथावर्तमानौ तौ स्यातां निरयगामिनाविति । पुनर्भोजनमध्वानं यानमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक् चैव सर्वमेतद्विवर्जयेत् । स्वाध्यायं कलहं चैव दिवा स्वप्नं च स्वेच्छया । आद्धिनो विशेपमा यमः-पुनर्मोजनमध्वानं भारमायासमैथुनम् । सन्ध्यां प्रतिग्रह होमं श्राद्धभुक्त्वष्ट वर्जयेत् । सन्ध्याहोमप्रतिपेधावकृतप्रायश्चित्तविपयौ । दशकृत्वः पिवेचापो गायन्या श्राद्धभुग द्विजः । ततः सन्ध्यामुपासीत जपेच जुहुयादपीति भविष्यत्पुराणवचनात् । वृद्धयाजवल्क्यः-अध्वनीनो भवेदश्वः पुनर्भोजी तु वायसः । होमकृन्नेत्ररोगी स्यात्पाठादायुः प्रहीयते । दानं निष्फलतामेति प्रतिग्राही दरिद्रताम् । कर्मकृज्जायते दासो मैथुनी सूकरो भवेदिति । स्वबुद्धिकल्पितं नेह वचनं लिखितं मया । दृष्टं श्रुतं समूलं वा न वा स्यान्मे न दूपणम् । इष्टं यत्स्वल्पदीपु निवन्धेपु तदाहतम् । श्रुतं स्मृत्यविरुद्धं यत्तत्पठन्तीत्युदाहतम् । प्रमाणमप्रमाणं वा सर्वज्ञः कर्तुमर्हति । पृष्ठे (?) श्रुते न विश्वासो मादृशैः कर्तुमिष्यते ॥३॥ इत्यावसथिकथीमदतिसुखात्मजश्रीविष्णुमित्रात्मजन्मनः कृष्णमिश्रस्य कृतौ श्राद्धकाशिकायामापर- .
पक्षिकं पार्वणश्राद्धम् ॥ अथैकोद्दिष्टमेकोऽर्घ एक पवित्रमेक: पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्वदितमिति तृप्तिप्रश्नः । सुवदितमितीतरे ब्रूयुरुपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यतामिति विसर्गोऽभिरताः स्म इतीतरे ॥४॥
(कर्कः)- अथकोद्दिष्टम् । व्याख्यास्यत इति सूत्रशेषः । तचैकमेवोदिश्य क्रियत इत्यन्वर्थसंज्ञेषा । ' एकोऽर्थः । एक एवार्थः स्यात् । एकार्यश्रवणात् पात्रमेकमिति गम्यते । अतः प्रथमशब्दानुपपत्तेः पितृभ्यः स्थानमसीत्यस्यानुपपन्नत्वात् संस्रवबहुत्वाभावाच न पात्रन्युजता । ' एकं पवित्रमेकः पिण्डः' एकदेवताकत्वात् । पवित्रं तु शास्त्रात् । ' नावाह"तीतरे' इतरशब्देन ब्राह्मणा अभिधीयन्ते । शेषं निगदव्याख्यातम् । तचैतदैवं स्यात् । स्मृत्यन्तरात् । अदैवं भोजयेच्छ्राद्धमिति स्मृतेः । तथा च एकादश्यामयुग्मान् ब्राह्मणान् भोजयेदित्ययुग्मता प्राप्तव पुनरयुग्मताग्रहणाददैवमिति गम्यते । तत्र यावत्सपिण्डीकरणालाक् श्राद्धं तत्सर्वमेकोहिष्टम् , ऊर्व तु पार्वणश्राद्धमन्यत्राभ्युदयात् । स्मृत्यन्तरात् " प्रदानं यत्र यत्रैषां सपिण्डीकरणात्परम् । तत्र पार्वणवत्सर्वमन्यत्राभ्युदयाहते" इति । तथाऽपरम्-सपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्य पिण्डनिर्वपणं सुतैरिति । अनयैवेति प्रकृतत्वात् सपिण्डक्रिययोच्यते । तथा च हारीतः-सहपिण्डे कृते प्रेते पृथक्त्वन्नोपपद्यते । पृथक्त्वे तु कृते तस्य पुनः कार्या सपिण्डता । तथोशनाश्च | अर्वा संवत्सराद् वृद्धेः पूणे संवत्सरेऽपि वा । ये सपिण्डीकृताः प्रेता न तेषां हि पृथक्रिया ॥४॥ ___ (गदाधरः)-सर्वश्राद्धप्रकृतिभूतं पार्वणमुक्त्वाऽधुना विकृतिभूतमेकोद्दिष्टमारभ्यते । अथैकोद्दिष्टम् । अथ पार्वणानन्तरमेकोहिष्टं व्याख्यास्यते । अथान्वर्थसंज्ञा चैषा । एकमुद्दिश्य यकियते तदेकोद्दिष्टमिति । 'एकोऽर्घ एक पवित्रमेकः पिण्डः । अस्मिन्नेकोद्दिष्टे एकोऽर्घः एक पवित्रमेक: पिण्डश्च स्यात् । अर्घस्यैकत्वश्रवणात्पात्रमप्येकमिति ज्ञायते । अतः प्रथमशब्दस्यानुपपत्तेः पितृभ्यः स्थानमसीत्यस्यानुपपन्नत्वात्संस्रवस्य बहुत्वाभावाचान पात्रन्युजीकरणाभावः । ' नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्खदितमिति तृप्तिप्रभः । सुखदितमितीतरे युरुपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यता