________________
कण्डिका ३] परिशिष्टम्।
४८५ त्यन्ये । तत्र कात्यायनः-आधत्त इति मध्यम पत्नी प्राभाति पुत्रकामेति। आधत्त इति प्राशनमन्त्रः। समर्पणे त्वन्यः । अपां त्वौषधीनां रसं प्राशयामि भूतकृतं गर्भ धत्स्वेति । पत्नीति पुत्रकामस्त्रीमात्रोपलक्षणमित्येके । पुत्रकामा पतिव्रतेत्यस्मन्मतम् । तथा च मनुः-पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी इति । अत्रैतत्संदिह्यते---किं विकिरमुच्छिष्टे निक्षिपेकिंवा पिण्डेष्विति । अत्रैक आहुः--तस्यास्पृश्यत्वादुच्छिष्ट एवेति । अन्ये त्वाः-उच्छिष्टपिण्डत्वात्पिण्डे क्षिपेतार्थे समाहिता । दक्षिणामुखो भूत्वा पित्र्या दिछ साहि कीर्तिता । इति । वैश्वदेवस्तूत्तरत्र प्रपञ्चयिष्यते । नित्यश्राद्धे तु मार्कण्डेय:-नित्यक्रियां पितॄणां तु केचिदिच्छन्ति सत्तमाः । न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत् । नित्यक्रिया नित्यश्राद्धम् । तुल्यविकल्प एवायमित्येके । करणे उपकारातिशयोऽकरणे प्रत्यवायो नेत्यन्ये । तदुभयमपि न सम्यक् । पूर्वत्र व्यवस्थोपपत्तेः । तथा च-नित्यश्राद्धं न कर्तव्यं प्रसङ्गाद्यत्र सिद्धयति । श्राद्धान्तरे कृतेऽन्यत्र नित्यत्वान्नैव हापयेदिति । एकोद्दिष्टादौ पितामहादितृप्त्यसंभवात्कर्तव्यं पार्वणादौ प्रासङ्गिकतृप्तेनेंति व्यवस्थेत्यर्थः । आह चदर्शादिश्राद्धनिष्पत्तौ न नित्यस्य पृथक क्रिया । तेनैव तस्य सिद्धिः स्यात्काम्ये नित्याग्निहोत्रवदिति । एवमेकपार्वणादावपि । द्वितीये तु नित्यत्वानुपपत्तेः । शेषभोजनेऽपि विवदन्ते-एकादश्यादावावाणस्योक्तत्वाच्छेषभोजनमनित्यमिति केचित् । शेषमन्नमनुज्ञातं मुजीत तदनन्तरम् । इष्टैः सार्ध तु विधिवद्धद्धिमान्सुसमाहितः । इति शातातपोक्तेरनुज्ञापितमेव पितृसेवितभक्षणं नित्यमन्यथा नेत्यन्ये । तहयमपि नातीय शोभते । पूर्वत्र नित्यत्वेन प्राप्तायविध्युपपत्तेः(१)। तथा च-उपवासंतदा कुर्यादाघ्राय पितृसेवितमिति । द्वितीयेऽप्यनुज्ञानाभावे तीर्थादावभोजनं प्राप्नोतीति नैतदुचितम् । भोजनाभावे प्रत्यवायश्रुतेः । तथा च देवलः-श्राद्धं कृत्वा तु यो विप्रो न भुलेऽथ कदाचन । हव्यं देवा न गृहन्ति कन्यानि पितरस्तथा । जैमिनिरपि-श्राद्धं कृत्वा तु यो विप्रो नानाति पितृसेवितम् । स याति नरकं घोरं यावदाभूतसंप्लवम् । ब्रह्मवैवर्तेऽपि-पितृद्विजेभ्यः पितृभ्यो यद्यदत्र निवेदितम् । अनन्नेव हि तत्सर्वं पितृन्त्रीणाति मानवः । इति । भोजनक्रममाह देवल:--निवृत्ते पितृमेधे तु दीपं प्रच्छाद्य पाणिना। आचम्य पाणि प्रक्षाल्य ज्ञातीन्शेषेण भोजयेत् । ततो ज्ञातिषु तृप्तेषु स्वभृत्यान्प्रतिभोजयेत् । पश्चात्स्वयं च पत्नीभिः पितृशेषमुदाहरेत् । दीयं प्रच्छाद्य हस्तेन श्राद्धदीपं शमयेदित्यर्थः । उदाहरेजीत । तथा चोशनाः-शेषमिष्टेभ्यो दद्यात्स्वयं भुञ्जीत । आपस्तम्बः-सर्वतः समवदाय ग्रासावरार्ध प्रानीयाद्यथोक्तम् । ग्रासावरार्ध ग्रासान्यूनं समवदायेत्यन्वयः । यथोक्तमिति मांसभक्षणे नियमो नेति केचित् । सर्वतः समवदायेति सर्वावदानस्योक्तत्वान्मांसभक्षणमपीत्यन्ये । एवं सति श्राद्धे विप्रान्मांसं भोजयित्वा भुनीतान्यथा नेति । तथा च प्रचेताः-विप्रानभोज्य यो मांसं अनात्यन्यांश्च भोजयेत् । वृथा भवति तच्छ्राद्धं भुक्त्वा च नरकं ब्रजेदिति । तथा च-ततश्च वैश्वदेवान्ते सभृत्यैः सह बान्धवैः । भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितमिति । त्यक्तमांसस्याभक्षणमन्यस्य भक्षणमित्यविरोधो वा । तथा च जातूकमे:-मधुमांसनिवृत्तस्तु श्राद्धकर्मणि चाचरन् । पात्रस्थं गन्धमाघ्राय पितॄणामऋणो भवेत् इति । पात्रस्थं भोजनपात्रस्थम् । पितृणामनृण इति, तद्माणादपि पितृतृप्तिर्भवतीति दर्शितम् । ब्रह्मपुराणे-भगिन्यो बान्धवाः पूज्याः श्राद्धेषु च सदैवहि। अश्री. पण्डकषण्डाश्च तथाऽन्ये दीर्घरोगिणः । अश्रीरकिंचनः । पण्डो नपुंसकः । षण्डः क्लीववृत्तिः । शातातपः---श्राद्धं कृत्वा परश्राद्धे सुखते ये तु विह्वलाः । पतन्ति पितरस्तेषां लुप्तपिण्डोदकक्रियाः। अत्रैके पश्चात्स्वयं मुखीतेत्यनेन प्रदोषपर्यन्तं सर्वान्संतोष्य रात्रौ श्राद्धकद्धजीतेत्याहुः । तदयुक्तम्।। रात्रिभोजनस्य प्रतिषिद्धत्वात् । अतश्च दिवैव सर्वैः सह मुखीत । तथा च जातूकW:-अहन्येव । भोक्तव्यं कृते श्राद्धे द्विजन्मभिः । अन्यथा ह्यासुरं श्राद्धं परपाके च सेविते । नागरखण्डेऽपि