________________
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
1
1
अस्मदित्यादौ चतुर्ध्या प्रयोगः । संकल्पत्वात् । विसर्जनमत्रमाह-- ' वाजेवा जेवतेति विसृज्यानुव्रज्यामात्राजस्येति प्रदक्षिणीकृत्य प्रविशेत्' ततो वाजेवाजेवत इत्यृचा कुशमूलैः पित्र्यविप्रान् पूर्वं पश्चाकुशायैर्देवद्विजान्विसृज्य ताननुव्रज्यामावाजस्येत्यनयच वहिर्यज्ञोपवीती तान्प्रदक्षिणीकृत्य नमस्कृत्य प्रविशेद्गृहमिति छोपः । अत्रैके कुशायैरेव सर्वान्विसर्जयन्ति । वाजेवाजेति मन्त्रेण कुशमूलेन तान्पितन् । देवांस्तेनैव मन्त्रेण कुशाग्रेण विसर्जयेदिति । मनुरपि -- आमावाजस्यमन्त्रेण कर्तव्यं हि प्रदक्षिणम् । नमस्कृत्य ततो विप्रानासनेपूपवेशयेत् । ताम्बूलं हि ततो दद्यात्पादप्रक्षालनं ततः । पादाभ्यङ्कं ततः कुर्यात्पादमर्दनमेव च । इति । अत्रैकै बिसर्जनं प्रदक्षिणां चापसव्येन कुर्वन्ति तदयुक्तम् — स्वागतं स्वस्तिवचनं दक्षिणा च प्रदक्षिणम् । इत्युक्तत्वात् । वृद्धयाज्ञवल्क्यः -- वाजे वाजे जपन्मन्त्रमामावाजस्य वै पुनः । वहिः प्रदक्षिणं कुर्यादच्छिन्नजलधारया । चन्धुवर्गेण सहितः सभार्यः सकुटुम्वकः । पुनराचम्य तत्रैव स्वादुपप्रजपेच्छुचिः । ब्राह्मणाः संपठेयुस्ते श्राद्धभोक्तृद्विजोत्तमाः । श्राद्धारम्भे पादगौचे विकिरे पिण्डदानके । ऊर्जे विसर्जने चैव पसु चाचमनं मतम् । अर्चेति पाठः । श्रद्धारम्भेऽवसाने च पादगौचे द्विजार्चने । विकिरे पिण्डदाने च पट्सु चाचमनं स्मृतम् । इति कात्यायनस्मृतेरेकमूलत्वात् । विसर्जयेत्ततो विप्रान्प्रणिपत्य पुनः पुनः । आद्वारमुपगच्छेयुः पुनराचमनं ततः । वेश्वदेवं ततः कुर्यात्स्वशाखोक्तविधानतः । इति । द्वारमा गमनासंभवे तु - वहिः प्रदक्षिणं कुर्यात्पदा - न्यष्टावनुव्रजेत् । वन्धुवर्गण सहितः पुत्रभार्यासमन्वितः । इति । अथोर्ध्वकृत्यम् — तत्रोच्छिष्टमार्जनतत्प्रतिपत्तिपिण्डविकिरप्रतिपत्तिवैश्वदेवनित्यश्राद्धशेपभोजननियमादीनि क्रमेणोच्यन्ते । तत्र पैठीनसिः -- न स्पृशन्ति यथा दुष्टास्तथैवोच्छिष्टमार्जनम् । तैस्तु स्पर्शे तदुच्छिष्टे - पितरो यान्त्यधोगतिम् । प्रचेताः – खनित्वा निक्षेपेद्भूमावन्यथा स्पर्शनं भवेत् । निषिद्धं स्पर्शनं तेषां तस्मात्खननमुत्तमम् । तत्रोच्छिष्टमार्जने विरुद्धानीव वाक्यानि दृश्यन्ते । तथा हि वसिष्ठः - श्राद्धे नोद्वासनीयानि उच्छि ष्टान्या दिनक्षयात् । च्योतन्ते वै स्वधाकारास्ते पिवन्त्यकृतोदकाः । ब्रह्मपुराणेऽपि — अस्तं याते ततः सूर्ये विप्रपात्राणि चाम्भसि । अधोमुखानि प्रयतो भूत्वा सर्वाणि निक्षिपेत् । याज्ञवल्क्यः -- निक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् । श्राद्धदेशोपविष्टेषु विप्रेषु न मार्जयेदिति विज्ञानेश्वरः । अनैके व्यवस्थापयन्ति दैवपात्राणि तहिने मार्जयेन पित्र्याणीति । तथा च देवलः — एवं तृप्तेपु पानीयं दद्यादाचमनं तथा । उच्छिष्टं वाऽप्यनयेत्पितॄणां नापमार्जयेत् । इति । अन्येत्वाहुः - अस्तं यात इत्यनेन रात्रौ मार्जनविधानाद्रात्रावेवेति । तत्र नाद्यः -- पितृणामुच्छिष्टमपनयेन्नापमार्जयेद्वेत्यनया द्विकल्पोपपत्तेः । द्वितीयेऽहनि सर्वेषां भाण्डानां क्षालनं स्मृतम् इति ब्रह्मवचने सर्वपामेव मार्जनोपपत्तेश्च । द्वितीयोऽपि न सम्यगिव भाति । उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः । इति मनूक्तावधिवैयर्थ्यात् । तस्माद्यथासंभवं विकल्प इति युक्तम् । यत्तु ' द्वितीयेऽहनि ' इति ब्रह्मवचनं तद्यशुचिस्पर्शरहितगृहान्तरसंभवविषयम् । तथा च प्रचेताः -- भृत्यवर्गवृतो भुङ्गे कव्यशेषं स्वगोत्रजैः । अन्यस्यां श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेदिति । तस्माद्गुप्तगृहान्तरे संभवति न मार्जनं तदसंभवे द्विजान्प्रेष्य पिण्डप्रतिपत्त्यनन्तरं मार्जनमिति व्यवस्थेति सिद्धम् । पिण्डप्रतिपत्तिमाह याज्ञवल्क्यः--- पिण्डांस्तु गोजविप्रभ्यो दद्यादनौ जलेऽपि वा । गोशब्दो गतवीर्यवृपभपरः । तथा च वायवीये-
४८४
वस्तु यो वोsवांश्चैव तथाविधः । तयोः पिण्डः प्रदातव्यो यतो वीर्य न रोहति । एतत्कामनाविशेषे व्यवस्थितम् । तथा च वायुपुराणम् - पिण्डमग्नौ सदा दद्याद्गोत्रार्थी संततं नरः । पत्न्यै प्रजार्थी दद्यात्तु मध्यमं मन्त्रपूर्वकम् । उत्तमां गतिमन्विच्छन्गोभ्यो नित्यं प्रयच्छति । आज्ञां प्रज्ञां यशः कीर्तिमप्सु नित्यं निधापयेत् । प्रार्थयन्दीर्घमायुस्तु वायसेभ्यः प्रयच्छति । आकाशं गमनेयन्सु स्थितो वा दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च । यथागृह्यं पिण्डप्रतिपत्तिरि