________________
४८३
afuser ३ ]
परिशिष्टम् ।
स्तिवाचनकं कुर्यात्पिण्डानुद्धृत्य भक्तितः । इति वचनात् । सूत्रे यद्यपि दक्षिणामिति सामान्येनोक्तं तथापि पित्र्ये रजतं दैवे स्वर्णमिति द्रष्टव्यम् । कनकं निर्जराणां तु पितॄणां रजतं स्मृतमिति वचनात् । | अत्रैक 'आहु:-- :--समं स्यादश्रुतत्वादिति न्यायादक्षिणादानं सर्वेषां समानमिति । अन्ये त्वाहु: दैव पूर्व श्राद्धमित्युक्तत्वात्पूर्वे दैवे दक्षिणादानं पश्चात्पत्य इति । अपरे त्वाहु: - पित्रुद्देशपक्षे दक्षिणादानमपसव्येन दैवपूर्व ब्राह्मणोद्देशे तु सव्येनेति । अपसव्यं तु तत्रापि । मत्स्यो हि भगवान्ये न इत्यादिस्मृतेः । इतरे पुनरन्यथाऽऽहुः – उभयशास्त्रत्वात्संकल्पादिकमपसव्येन त्यागमांत्रं तु सव्येनेति । अत्रोच्यते यदुक्तं सर्वेषां समानमेव दक्षिणादानमिति । तदहृद्यम् । पात्रानुसारेण दक्षिणावैषम्यस्योतत्वात् । तथा च-- एकपङ्कयुपविष्टानां विप्राणां श्राद्धकर्मणि । भक्ष्यं भोज्यं समं देयं दक्षिणा त्वनुसारतः इति । अनुसारतः पात्रविशेषानुसारेणेत्यर्थः । यच्चोक्तं -- दैवपूर्व दक्षिणादानमिति । तदप्यसारम् । पित्रुद्देश एव दैवपूर्वमित्यस्य पूर्ववाचित्वात्, न ब्राह्मणोदेश इति । तथा च देवल:- दक्षिणां पितृविप्रेभ्यो दद्याद्विप्रं ततो द्वयोरिति । यदप्यभिहितं - पिनुद्देशे अपसव्येन ब्राह्मणोद्देशे सव्येनेति तदप्ययुक्तम् । पित्रुदेशेऽपि पितृपूर्वकं सम्येनैवोक्तत्वात् । तथा च देवल एव सर्व कर्मापसव्येन दक्षिणादानवर्जितमिति । न च दक्षिणादानं दैवे पूर्वमुचितम् । तस्य विसर्गरूपत्वात् । तथा च वृद्धयाज्ञवल्क्यः पूर्वं पितृभ्यो दद्यात्तु देवेभ्यस्तदनन्तरम् | असुराः पितृरूपेण दत्तं हिंसन्ति दानवाः । तेषां वै रक्षणार्थाय पश्चाद्दैवे विसर्जयेत् । याज्ञवल्क्योऽपि - पितृपात्रे तदुत्तानं कृत्वा विप्रान्विसर्जयेदिति । यत्त्वपसव्यं तु तत्रापीत्युक्तं तदन्यशाखिविषयत्वेन यथागृह्यं व्यवस्थापनीयम् । यच्चान्नातं संकल्पादिकमपसव्येन त्यागमात्रं सव्येनेति । तन्न शोभनम् । प्रमाणाभावात् । तस्मादुभयपक्षेऽपि कात्यायनमतानुसारिणां दक्षिणादानं पितृपूर्वकं सव्येनैवेति सिद्धम् । तथा च हेमाद्रिपद्धती -- सूक्तस्तोत्रजपं त्यक्त्वा पिण्डाघ्राणं च दक्षिणाम् । आह्वानं स्वागतानं (?) च विनाच परिवेषणम् । विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा । विप्रप्रदक्षिणां चैव स्वस्तिवाचनकं विना । पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेति । स्मृतिरन्यापि -उपवीती पितृप्रीत्यै वित्तशाठ्यविवर्जितः । दक्षिणां पितृविप्रेभ्यो पूर्व दैविकयोस्ततः । पठन्ति च - स्वागतं स्वस्तिवाचनं दक्षिणा च प्रदक्षिणम् । गोत्रवादनमर्धे च षडेते उपवीतिनः । इति । गोत्रवादनं गोत्रं नो वर्धतामित्यादि । विधानमाकलय्याह संग्रहकारोऽपि — याज्ञवल्क्यो विसर्गात्प्राक्पात्रमुत्तानमिच्छति । यतो विसर्जनं कृत्वा गृह्यकर्ताऽपि शौनकः । प्रीतिः पञ्चात्तु देवानामिति कात्यायनादयः । सर्वेषामपि पक्षाणां स्वगृह्येोक्तं विधीयते । स्वगृह्येोक्तस्य चाभावे ग्रहणं स्वेच्छया भवेदिति । अत्रान्यदपि विसर्गरूपं प्रतिज्ञापात्रचालनं ऋतुपूजनदेवद्विजवचनादिकं (न) कुर्यात् । दक्षिणाया उपलक्षणार्थत्वात् । तथा च-मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः । श्राद्धं संपूर्णतां यातु प्रसादाद्भवतामिति । गोभिलोऽपि दैवे वाचयित्वा पिण्डपात्राणि चालयित्वा दक्षिणां दद्यादिति । पिण्डांश्च पात्राणि चेति विग्रहः । नित्यत्वात् । अचालयित्वा तत्पात्रं स्वस्तिकुर्वन्ति ये द्विजाः । निराशाः पितरस्तेषां शस्त्वा यान्ति यथागतम् । अत्रैके ऋतुपूजनं सव्येनेत्याहु: । तन्न | आचम्योदक्परावृत्य नियम्य च शनैरसून् । पहृतून्नमस्कुर्यात्पितृनिव च मन्त्रवदिति वचनात् । जातूकर्ण्य:- पात्राणि चालयेच्छ्राद्धे स्वयं शिष्योऽथवा सुतः । न स्त्रीभिर्नच वालेन नासजात्या कथंचनेति । वृहस्पतिरपि भाजनेषु च तिष्ठत्सु स्वस्तिकुर्वन्ति ये द्विजाः । तद्दत्तमसुरैर्मुक्तं निराशैः पितृभिर्गतम् । भाजनानि भोजनपात्राणि । स्वस्तीति भगवन्नूहि इति वचनमिति पारस्करः । अपरं स्मृत्युक्तमुपलब्धव्यम् । अत्र च ब्राह्मणेभ्यो दद्यादिति सूत्रयता चतुर्थ्यां गोत्राचारो ब्राह्मणानां सूचितः । ततश्चैवं प्रयोगः । अस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य श्र तिष्ठार्थममुकगोत्रायामुकशर्मण इत्यादि तुभ्यमहं संप्रदद इति । तत्रपक्षे पष्ठीबहुवचनेन । पित्रुहे