Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 491
________________ कण्डिका ३] परिशिष्टम्। ४८५ त्यन्ये । तत्र कात्यायनः-आधत्त इति मध्यम पत्नी प्राभाति पुत्रकामेति। आधत्त इति प्राशनमन्त्रः। समर्पणे त्वन्यः । अपां त्वौषधीनां रसं प्राशयामि भूतकृतं गर्भ धत्स्वेति । पत्नीति पुत्रकामस्त्रीमात्रोपलक्षणमित्येके । पुत्रकामा पतिव्रतेत्यस्मन्मतम् । तथा च मनुः-पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी इति । अत्रैतत्संदिह्यते---किं विकिरमुच्छिष्टे निक्षिपेकिंवा पिण्डेष्विति । अत्रैक आहुः--तस्यास्पृश्यत्वादुच्छिष्ट एवेति । अन्ये त्वाः-उच्छिष्टपिण्डत्वात्पिण्डे क्षिपेतार्थे समाहिता । दक्षिणामुखो भूत्वा पित्र्या दिछ साहि कीर्तिता । इति । वैश्वदेवस्तूत्तरत्र प्रपञ्चयिष्यते । नित्यश्राद्धे तु मार्कण्डेय:-नित्यक्रियां पितॄणां तु केचिदिच्छन्ति सत्तमाः । न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत् । नित्यक्रिया नित्यश्राद्धम् । तुल्यविकल्प एवायमित्येके । करणे उपकारातिशयोऽकरणे प्रत्यवायो नेत्यन्ये । तदुभयमपि न सम्यक् । पूर्वत्र व्यवस्थोपपत्तेः । तथा च-नित्यश्राद्धं न कर्तव्यं प्रसङ्गाद्यत्र सिद्धयति । श्राद्धान्तरे कृतेऽन्यत्र नित्यत्वान्नैव हापयेदिति । एकोद्दिष्टादौ पितामहादितृप्त्यसंभवात्कर्तव्यं पार्वणादौ प्रासङ्गिकतृप्तेनेंति व्यवस्थेत्यर्थः । आह चदर्शादिश्राद्धनिष्पत्तौ न नित्यस्य पृथक क्रिया । तेनैव तस्य सिद्धिः स्यात्काम्ये नित्याग्निहोत्रवदिति । एवमेकपार्वणादावपि । द्वितीये तु नित्यत्वानुपपत्तेः । शेषभोजनेऽपि विवदन्ते-एकादश्यादावावाणस्योक्तत्वाच्छेषभोजनमनित्यमिति केचित् । शेषमन्नमनुज्ञातं मुजीत तदनन्तरम् । इष्टैः सार्ध तु विधिवद्धद्धिमान्सुसमाहितः । इति शातातपोक्तेरनुज्ञापितमेव पितृसेवितभक्षणं नित्यमन्यथा नेत्यन्ये । तहयमपि नातीय शोभते । पूर्वत्र नित्यत्वेन प्राप्तायविध्युपपत्तेः(१)। तथा च-उपवासंतदा कुर्यादाघ्राय पितृसेवितमिति । द्वितीयेऽप्यनुज्ञानाभावे तीर्थादावभोजनं प्राप्नोतीति नैतदुचितम् । भोजनाभावे प्रत्यवायश्रुतेः । तथा च देवलः-श्राद्धं कृत्वा तु यो विप्रो न भुलेऽथ कदाचन । हव्यं देवा न गृहन्ति कन्यानि पितरस्तथा । जैमिनिरपि-श्राद्धं कृत्वा तु यो विप्रो नानाति पितृसेवितम् । स याति नरकं घोरं यावदाभूतसंप्लवम् । ब्रह्मवैवर्तेऽपि-पितृद्विजेभ्यः पितृभ्यो यद्यदत्र निवेदितम् । अनन्नेव हि तत्सर्वं पितृन्त्रीणाति मानवः । इति । भोजनक्रममाह देवल:--निवृत्ते पितृमेधे तु दीपं प्रच्छाद्य पाणिना। आचम्य पाणि प्रक्षाल्य ज्ञातीन्शेषेण भोजयेत् । ततो ज्ञातिषु तृप्तेषु स्वभृत्यान्प्रतिभोजयेत् । पश्चात्स्वयं च पत्नीभिः पितृशेषमुदाहरेत् । दीयं प्रच्छाद्य हस्तेन श्राद्धदीपं शमयेदित्यर्थः । उदाहरेजीत । तथा चोशनाः-शेषमिष्टेभ्यो दद्यात्स्वयं भुञ्जीत । आपस्तम्बः-सर्वतः समवदाय ग्रासावरार्ध प्रानीयाद्यथोक्तम् । ग्रासावरार्ध ग्रासान्यूनं समवदायेत्यन्वयः । यथोक्तमिति मांसभक्षणे नियमो नेति केचित् । सर्वतः समवदायेति सर्वावदानस्योक्तत्वान्मांसभक्षणमपीत्यन्ये । एवं सति श्राद्धे विप्रान्मांसं भोजयित्वा भुनीतान्यथा नेति । तथा च प्रचेताः-विप्रानभोज्य यो मांसं अनात्यन्यांश्च भोजयेत् । वृथा भवति तच्छ्राद्धं भुक्त्वा च नरकं ब्रजेदिति । तथा च-ततश्च वैश्वदेवान्ते सभृत्यैः सह बान्धवैः । भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितमिति । त्यक्तमांसस्याभक्षणमन्यस्य भक्षणमित्यविरोधो वा । तथा च जातूकमे:-मधुमांसनिवृत्तस्तु श्राद्धकर्मणि चाचरन् । पात्रस्थं गन्धमाघ्राय पितॄणामऋणो भवेत् इति । पात्रस्थं भोजनपात्रस्थम् । पितृणामनृण इति, तद्माणादपि पितृतृप्तिर्भवतीति दर्शितम् । ब्रह्मपुराणे-भगिन्यो बान्धवाः पूज्याः श्राद्धेषु च सदैवहि। अश्री. पण्डकषण्डाश्च तथाऽन्ये दीर्घरोगिणः । अश्रीरकिंचनः । पण्डो नपुंसकः । षण्डः क्लीववृत्तिः । शातातपः---श्राद्धं कृत्वा परश्राद्धे सुखते ये तु विह्वलाः । पतन्ति पितरस्तेषां लुप्तपिण्डोदकक्रियाः। अत्रैके पश्चात्स्वयं मुखीतेत्यनेन प्रदोषपर्यन्तं सर्वान्संतोष्य रात्रौ श्राद्धकद्धजीतेत्याहुः । तदयुक्तम्।। रात्रिभोजनस्य प्रतिषिद्धत्वात् । अतश्च दिवैव सर्वैः सह मुखीत । तथा च जातूकW:-अहन्येव । भोक्तव्यं कृते श्राद्धे द्विजन्मभिः । अन्यथा ह्यासुरं श्राद्धं परपाके च सेविते । नागरखण्डेऽपि

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560