Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 497
________________ कण्डका ४ ] परिशिष्टम् । नवश्राद्धप्रथमदिनवत् । इति नवमदिनकृत्यम् । दशमेऽहनि शरीरपूरणार्थे पिण्डदानम् कुम्भभोजनदानम् । दशा जलयो दशपात्राणि, एकोनविंशतिर्जलाञ्जलयो वा । अथ वा दशाहमध्ये प्रत्यहंदशाजलय एव देया: न पात्राणि । अत्र पिण्डत्रयदानम् । एकं तत्सखिभ्यो द्वितीयं प्रेताय तृतीयं यमाय । तत्र देशकालौ स्मृत्वा प्रेतस्य प्रेतत्वनिवृत्त्यर्थे पिण्डदानमहङ्करिष्ये । प्रेतसखायः अवनेनिग्ध्वम् । गोत्र प्रेत अवनेनिक्ष्व यम अवनेनिक्ष्य दर्भास्तरणम् । अवनेजनक्रमेण पिण्डदानं प्रत्यव - जनश्च । पिण्डानामुदके प्रक्षेपः । ततः सूतक निवृत्त्यर्थं सर्वे केशश्मश्रुवपन कारयेयुः नखलोम निकृन्तनश्च । ततः सर्वेषां सचैलस्नानम् । इति दशाहसम्बन्धि कर्म समाप्तम् || || दशाहमध्ये दर्शपाते दर्शदिन एव सर्वे दशाहिकं कर्म समापनीयम्, न त्रिरात्रादर्वागिति केचित् । पित्रोस्तु यावदा'शौचं दशाहे एवेति मदनपारिजातकारः । अन्येषांतु मातृपितृव्यतिरिक्तानां प्रथमदिनप्रभृतिदर्शपाते सर्व समापनीयमेव । एतच्च प्रेतनिर्हरणादिकं यतिव्यतिरिक्तानां प्रथमत्रयाणामाश्रमाणां कुर्यात् । तथा च स्मृतिः- त्रयाणामाश्रमाणाञ्च कुर्याद्दाहादिकाः क्रियाः । यतेः किञ्चिन्न कर्तव्यं न चान्येपाङ्करोति स इति । तथा । एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसत्क्रियाम् । न कुर्यात्पार्वणादन्यद्ब्रह्मीभूताय भिक्षवे । अहन्येकादशे प्राप्ते पार्वणं तु विधीयत इति । ब्रह्मचारी त्वाचार्योपाध्यायमातृपितृव्यतिरिक्तानां निर्हरणादिकं न कुर्यात् । यथाह याज्ञवल्क्यः - आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं दत्वा त्रिरात्रमशुचिर्भवेत् । इति । आचार्यपिनुपाध्यायान्निर्हत्यापि व्रती व्रती । सूतकान्नं च नाश्नीयान्न च तैः सह संवसेत् इति । यदि च मोहात्करोति तदा ब्रह्मचर्यव्रतात्प्रच्यवते । पुनरुपनयनेन शुद्धयतीति । सपिण्डीकरणान्तानि श्राद्धानि लौकिकाग्निना कार्याणि । तदुक्तम् --- सपिण्डीकरणान्तानि प्रेतश्राद्धानि यानि वै । तानि स्युलौकिके बह्नावित्याह चावला - यनः ॥ ॥ अथैकादशाहविधिः । तत्र साग्नेर्दाहदिनादारभ्यैकादशाहे निरग्निकस्य तु मरणदिनादार - भ्यैकादशाहे कर्ता विधिवत्नात्वा पोडशोपचारैर्विष्णोः पूजनं तर्पणं च कुर्यात् । तन्त्र समन्त्रकप्राणायामत्रयं विधाय देशकालौ संकीर्त्यांमुकगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थं श्रीविष्णोः षोडशभिरुपचारैः पूजनपूर्वकं तर्पणमहङ्करिष्ये । तत्र सर्वौषधितुलसीदुग्धमिश्रमञ्जलिं कृत्वा दक्षिणाभिमुखो यज्ञोपवीती ऋजुदभैर्देवतीर्थेन हस्तेनैव तर्पणं कुर्यान्न शङ्खेन । सहस्रशीर्षा पुरुषः इतिपोडशभि: प्रत्यृचं तर्पणम् । अनादिनिधनो देवः शङ्खचक्रगदाधरः । अक्षय्य पुण्डरीकाक्ष प्रेतमोक्षप्रदो भव । पापहा महाविष्णुस्तृप्यतु । गोविन्दस्तृप्यतु | नारायणस्तृ० । युञ्जते मनः । इदं विष्णुः । इरावती० | देव 1 ४९१ 5 देवेषु । विष्णोर्मुकं । दिवोवा० । प्रतत् । विष्णोरराटम् । इत्यष्टौ । अदित्यै० । दिवि विष्णुः । अग्नेस्तनूः रक्षोहणं० । रक्षोहणोवो० । अत्यन्याम् । विष्णोः कर्माणि । तद्विष्णोः । वाचस्पतये । उपयामगृहीतोस्यादित्येभ्यस्त्वा । विष्णोः क्रमोसि । तद्विप्रासः । त्रीणिपदा । अनेन विष्णुतन तत्वनिवृत्तिरस्तु । इति पुराणोक्तं विष्णुतर्पणम् । ॥ अथ वृषोत्सर्गः । तत्र देशकालौ स्मृत्वा प्रेतस्य प्रेतत्वनिवृत्त्यर्थमेकादशाह श्राद्धादिकर्तृयोग्यताप्राप्यर्थे च वृषोत्सर्गङ्करिष्ये इति सङ्कल्पः । ततो वस्त्रचन्दनपुष्पताम्बूलादिना होतृब्रह्माणौ वृणुयात् । कर्कमते तु ब्रह्मवरणमात्रम् । होमस्य स्वकर्तृकत्वात् । अस्माकं तु पुराणे दृष्टत्वादुभयवरणमत्र । ततः स्वयं पश्चभूसंस्कारान्कृला आवसध्याः स्थापनम् । ततोऽष्टानां कलशानां स्थापनम् । ततः प्रतिष्ठा । इमे कलशाः सुप्रतिष्ठिता भवन्तु । होतृब्रह्मप्रणीतानामासनदानम् । ब्रह्मोपवेशनम् । प्रणीतापात्रमध्ये पिष्टादिना व्यवधानं कृत्वा मूलदेशे पय इतरत्र जलं प्रक्षिप्य प्रणयनमनेरुत्तरतो निधानं परिस्तरणमग्नेरुत्तरतः पञ्चाद्वा पात्रासादनम् । तद्यथा । पवित्रच्छेदनानि । पवित्रे द्वे । प्रोक्षणीपात्रम् | आज्यस्थाली । संमार्गकुशाः । उपयमनकुशा: । समिधस्तिस्रः । स्रुवः 1 आज्यम् । तण्डुलाः । पौष्णञ्चरुः पिष्टमयः ।

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560