Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 495
________________ कण्डिका ४] परिशिष्टम् । च्यते । उक्तं च-आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताग्निरेकेन लौकिकेनेतरे जनाः । अथ पुत्रादिराप्लुत्य कुर्याद्दारुचयं बहु । भूप्रदेशे शुचौ युक्त पश्चाञ्चित्यादिलक्षणम् । तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे । हिरण्यं न्यस्य शिरसि प्रणीताचमसं तथा । शूपें तत्पार्श्वयोरेकञ्चेद्विधा पूर्ववन्यसेत् । श्रवणाकर्मसंबन्धि द्वितीयं पिण्डयज्ञियम् । अण्डयोररणी तद्वत्प्रोक्षणीपात्रमादितः । पात्राणि चान्तरे ऊोंम॒न्मयान्यम्भसि क्षिपेत् । अथाjसजावतो(?) दद्यादक्षिणतः शनैः । पूर्ववज्जुहुयावह्नौ समिद्वजै सुवेण सः । दक्षिणायां सुवं दद्यान्नसि स्क्यं दक्षिणे करे । समिधो वा ततो वह्नि शेष स्यादाहिताग्निवत् । उखाधिश्रयणा(ोरन्तरे पात्रप्रक्षेपान्तं सर्वमाहिताग्निवत् । केवलोपासनाग्निं चितौ मृतं दक्षिणाशिरसं निदध्यान प्राशिरसमिति विशेषः । इत्यावसथ्यसंवन्धिपात्राणां प्रतिपत्तिः । अथ सूतिकामरणे विशेषः । सूतिकायां मृतायां कुम्भे उदकं कृत्वा तत्र पञ्चगव्यं प्रक्षिप्य आपोहिष्ठा इदमाप इत्यादिपुण्यम्भिरभिमन्व्य ब्राह्मणानुज्ञया पञ्चदश प्राजापत्याकृत्वा तेन कुम्भोदकेन शतकृत्वस्तां स्नापयित्वा वस्त्रान्तरेण सर्वा वेष्टयित्वा दाहः कार्यः । रजस्वलामरणेप्येवम् । उदक्या सूतकी वा यं स्पृशति तस्याप्येष एव विधिः । दाहे जाते किश्चित्परिशेपणीयम् । निःशेपस्तु न दग्धव्य इति वचनात् ॥ ॥ अथ स्मार्तमुदककर्मोच्यते । नद्याशुदकसमीपे गमनम् । समीपे स्थितं योनिसम्बन्धिशालकं वा उदकं करिष्यामह इति मन्त्रेणोदकं याचयेयुः सपि-ण्डादयः । यदि शतवर्यादाक् प्रेतो भवेत् तदा कुरुष्वमिति वचनमित्युक्ते सप्तपुरुषसंवन्धिनः सपिण्डाः दशपुरुषसंवन्धिनः समानोदकाश्चैकग्रामनिवासे यावत्स्मृतं जलं प्रविशन्त्येकवस्त्राः । अशिखाः प्राचीनावीतिनः सन्तः । ततः सव्यपाणेरनामिकयाङ्गुल्या जलम् अपनःशोशुचघमित्येतावता मन्त्रेणापनोद्य दक्षिणाभिमुखास्तूष्णी निमजन्ति । कर्कादिभाष्यकाराणां मतेऽपनोदने मन्त्रः। देवयाज्ञिकादिमते निमजने । ततः प्रेतमुद्दिश्यैकेकमञ्जलिं सकृद्भूमौ प्रक्षिपन्ति । अमुकसगोत्रामुकशर्मन्प्रेत एतत्ते उदकमित्यनेन मन्त्रेण । तत उद्काढुत्तीर्य शुचौ देशे शाद्वलवत्युपविष्टान्सपिण्डादीनन्ये सुहृद् इतिहासपुराणादिकथाभिः संसारस्यानित्यतां दर्शयन्तो वदेयुः । शावलं हरिततृणमस्ति यस्मिन्निति शाकुलवान् तस्मिन् शावलवति भूमौ उपविष्टानित्यर्थः । रोदनं न कर्तव्यम् । तदुक्तम्श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो मुझे यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः इति । ततः प्रश्चादनवलोकयन्तः पतिव्यवस्थानेन कनिष्ठानप्रतः कृत्वा ग्राममागच्छन्ति । गृहद्वारसमीपे आगत्य सर्वे त्रीणि त्रीणि निम्बपनाणि दन्तैरवखण्ड्याचम्योदकमग्नि गोमयं गौरसर्पपॉस्तैलमित्येतानि प्रत्येकं स्पृष्ठवा पादेन पाषाणमाक्रम्य गृहं प्रविशन्ति । ततः प्रभृति ब्रह्मचारिणोऽधःशायिनो न किञ्चन कर्म कुर्वन्ति न कारयन्ति । क्रीत्वा लब्ध्वा वा दिवा प्राश्नीयुः । अमांसं पिण्डं दत्वा ततो भोजनम् । भोजनकाले भोज्यादन्नाद्भक्तमुष्टिञ्च प्रेतोद्देशेन भूमौ निक्षिपेत् । अमुकसगोत्रामुकप्रेत भक्तमुष्टिरुपतिष्टतामिति । यावत्प्रत्यहमेकैकमवयवपूरक पिण्डं प्रेताय दद्यात् । तत्र विधिः । स्नानं कृत्वाऽहते आ वाससी परिधाय पिण्डपितृयज्ञवत्तूष्णी पिण्डदानम् । तूष्णीं प्राणायामः । आचमनम् । देशकालौ स्मृत्वाऽमुकसगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थ क्षुत्तषानिवृत्त्यर्थ शिरोनिष्पत्यथै च पिण्डदानं कुम्भभोजनदानमुदकदानं चाहं करिष्ये, इति सङ्कल्पः । अवनेजनम् । अमुकसगोत्रामुकप्रेतावनेनिक्ष्वेति । दर्भास्तरणम् । पिण्डदानम् । अमुकसगोत्रामुक प्रेतैष ते शिरःपूरकपिण्डो मया दत्त इति । पूर्ववत्पुनरवनेजनम् । अनुलेपनपुष्पधूपदीपशीतलतोयकुम्भोर्णातन्तुदान पिण्डे स्मृत्यन्तरोक्तमपि कुर्यात् । ततः पिण्डसमीपे भूमौ एकाचलितोयदानम् । अमुकसगोत्रामुकप्रेत एष ते तोयाञ्जलिरुपतिष्टताम् । इदं तोयपात्रं ते उपतिष्ठताम् । अमुकसगोत्रस्यामुकप्रेतस्यानेन प्रेतत्वनिवृत्तिरस्तु । शुत्तूपानिवृत्तिरस्तु । शिरोनिष्पत्तिरस्तु । पिण्डमुदके प्रक्षिप्य सात्वा नव

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560